#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00016 Uniform title: īśānaśivagurudevapaddhati Volume 1 Main title: īśānaśivagurudevapaddhatiḥ Volume 1 Author : īśānaśivagurudeva Alternate name : īśānaśiva Editor : gaṇapati śāstrī Description: Volume 1 of 4 volume edition by University of Trivandrum, Gov. of Travancore, 1921. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: 28/011/2007 Publisher : bharatiya vidya prakāśan Publication year : 1921 Publication city : Delhi Publication country : India #################################################### श्रीः ईशानशिवगुरुदेवपद्धतिः श्रीमदीशानशिवगुरुदेवमिश्रविरचिता | (प्रथमः सामान्यपादः) वागीश्वरं तं गिरिशं गिरं तां गौरीं गणेशं च मतङ्गजास्यम् | दूर्गां च दुर्गार्तिहरां विरिञ्चं लक्ष्मीं च लक्ष्मीशमपि प्रपद्ये || १-१ || गुरूनलं गौरवतो गरीयसः समाहितः सर्वसमान् महीयसः | महामहिम्ना मिहिरानिवोदितांस्तमोमहामोहहरान् नतोऽस्म्यहम् || १-२ || विस्तृतानि विशिष्टानि तन्त्राणि विविधान्यहम् | यावत्सामर्थ्यमालोच्य करिष्ये तन्त्रपद्धतिम् || १-३ || अनन्यतन्त्रसापेक्षस्वार्थसन्दोहसङ्गतिम् | ऋद्धैर्विधानमन्त्रार्थैर्वेद्यां श्रुतिमिवापराम् || १-४ || प्रसन्नां नातिकुटिलां नातिसंक्षेपविस्तराम् | चित्रां बहुगुणां विष्णोः शययां भोगवतीमिव || १-५ || विविधच्छन्दसं नानावृत्तालङ्कारवर्णकाम् | सेव्यां कामिजनस्येष्टां ललितां प्रमदामिव || १-६ || विषग्रहामयादीनां प्रशमोपायदर्शिनीम् | मन्त्रबिम्बौषधिध्यानैर्विद्यां सञ्जीविनीमिव || १-७ || असुहृन्निग्रहोच्चाटविद्वेषस्तम्भमोहनैः | उत्सादमारणोपायैर्दण्डनीतिमिवापराम् || १-८ || पूतनानरकारिष्टदमनादौ विचक्षणाम् | सत्यभामासमाश्लिष्टां यथा मूर्तिं मुरद्विषः || १-९ || मनुभिर्बहुभिर्युक्तां दैवतैश्चापि तत्समम् | कृतत्रेतादिकल्पैश्च शरदं ब्रह्मणो यथा || १-१० || निजसङ्केतमार्गज्ञैरधिगम्यां पृथग्विधैः | यन्त्रैर्दूरीकृतानर्थां दुर्गभूमिमिवापराम् || १-११ || निर्गतद्वापरां धर्मतनयस्वर्गयोगतः | कलिप्रसङ्गकटुकां कालस्येह गतिर्यथा || १-१२ || पादैश्चतुर्भिर्नात्यर्थं भिन्नार्थप्रसवैर्युताम् | चतुर्युगक्रमायत्तां वैधसीमिव कल्पनाम् || १-१३ || एकामपि पृथग्लक्ष्यपूर्वार्धापरलक्षणाम् | मूर्तिं विनायकस्येव गजवक्त्रां नराकृतिम् || १-१४ || महेन्द्रजालविज्ञानप्रपञ्चजननीं यथा | तद्विदां प्रत्ययावेद्यां मुक्तिदां शक्तिमैश्वरीम् || १-१५ || * * * * * * क * * * म * विभागतः | मोक्षप्रसाधनीं तत्तत्क्रमावेद्यां त्रयीमिव || १-१६ || सप्रयोगा हि मनवः साङ्गदैवपुरस्क्रियाः | सच्छन्दोमुनिदिग्बन्धाः सध्यानाः सप्रयोजनाः || १-१७ || सविधानाश्च लक्ष्यन्ते मन्त्रास्ते स्युश्चतुर्विधाः | बीजानि बीजमन्त्राश्च मन्त्रा मालाख्यमन्त्रकाः || १-१८ || नानाक्षराणां संयोगाद् बीजं स्याद्वैकमक्षरम् | बीजमन्त्रा दशार्णाधो मन्त्राः स्युर्विंशतेरधः || १-१९ || विंशत्यर्णाधिका ये तु मालामन्त्रा भवन्ति ते | प्रायेण बाल्ये बीजानि सिद्धिं यच्छन्ति भूयसीम् || १-२० || बीजमन्त्रास्तु कौमारे मन्त्रा यौवनसिद्धिदाः | वार्द्धकेऽपि च सिध्यन्ति मालामन्त्राः सदैव हि || १-२१ || श्रद्धाभक्तिसमभ्यासात् सर्वे सिध्यन्ति सर्वदा | मननत्राणधर्मित्वं वाचके दैवतस्य तु || १-२२ || यत्र तन्मन्त्रसंज्ञं स्यान्न तद् बीजेषु वा भवेत् | अत्र रत्नत्रये मननात् सर्वभूतानां त्राणात् संसारसागरात् | मन्त्ररूपा हि तच्छक्तिर्मननत्राणधर्मिणी || इति || वाच्यवाचकयोरैक्यमधिगम्य गुरावपि || १-२३ || तद् दैवतसमां भक्तिं विदधीतात्मसिद्धये | लिपिर्वै सर्वमन्त्राणां शब्दानां चैव मातृका || १-२४ || सा तु शक्तेः समुत्पन्ना शक्तिबीजात्मिका मता | निर्विकल्पात्मकं ब्र(ह्म) यन्नित्यानन्दविग्रहम् || १-२५ || शिवं तदचलं विश्वस्वभावं भासकं परम् | सुसूक्ष्मं चिर्द्धनं व्यापि सर्वगं तदणोरणु || १-२६ || महतोऽपि महच्छुद्धमिच्छाज्ञानक्रियोदयम् | आदिसर्गमुखे ज्ञानचिकीर्षायत्नधारणात् || १-२७ || स्वशक्तिव्यक्तिमाधत्ते प्रदीपः स्वप्रभामिव | सत्त्वं रजस्तमश्चैतच्छुक्लरक्तासितप्रभम् || १-२८ || शक्तिर्भवत्यजा ह्येका विश्वोद्भवविधायिनी | सा शक्तिर्बिन्दुतामेति बिन्दुः सोऽपि त्रिधा भवेत् || १-२९ || बिन्दुर्नादो रवश्चेति स रवोऽव्यक्तमिष्यते | अव्यक्तादुदितं तत्त्वं महान्नाम त्रिभेदकम् || १-३० || महतश्चाप्यहङ्कारस्त्रेधा स च निगद्यते | वैकारिकस्तैजसश्च भूतादिरिति चापरः || १-३१ || तस्माच्छाक्तादहङ्काराद्धकारो घोषवानभूत् | अत्र श्रीकालोत्तरे नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् | मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् || सान्तं सर्वगतं शून्यं मात्राद्वादशभिः स्थितम् | ह्रस्वा ब्रह्म समाख्याता दीर्घा ह्यङ्गानि षण्मुख || इति || रत्नत्रयेऽपि स तु शब्दश्चतुर्धा वाग्वैखर्यादिविभेदतः | जायते बिन्दुसंक्षोभादनन्तस्यार्थसिद्धये || इति | शक्तिर्नादो महामाया व्योमेति च चतुर्विधम् || १-३२ || बिन्दोरेवास्य तु पुनश्चतस्रो वृत्तयः स्मृताः | वैखरी मध्यमा चैव पश्यन्ती चापि सूक्ष्मया || १-३३ || व्युत्क्रमेण भवन्त्येताः कुण्डलिन्यादितः क्रमात् | सूक्ष्मा कुण्डलिनीमध्ये ज्योतिर्मात्रात्यणीयसी || १-३४ || अश्रोत्रविषया तस्मादुद्गच्छन्त्यूर्ध्वगामिनी | स्वयं प्रकाशा पश्यन्ती सुषुम्नामाश्रिता भवेत् || १-३५ || सैव हृत्पङ्कजं प्राप्य मध्यमा नादरूपिणी | अन्तःसञ्जल्पमात्रा स्यादविभक्तोर्ध्वगामिनी || १-३६ || सैवोरःकण्ठतालुस्था शिरोघ्राणद्विजोपगा | जिह्वामूलोष्ठनिष्ट्यूता कृतवर्णपरिग्रहा || १-३७ || शब्दप्रपञ्चजननी श्रोत्रग्राह्या तु वैखरी | हकारः सविकारोऽथ रेफेण समयुज्यत || १-३८ || ईकारमभजत् तस्माद् बिन्दुनादविभूषितः | शक्तिबीजं हि तद्योगात् प्रपञ्चोत्पत्तिकारणम् || १-३९ || हरत्वाच्च हरित्वाच्च पुंप्रकृत्योस्तु युक्तयोः | श्लिष्टोच्चारितयोः शाब्दं रूपं तद्बीजमीरितम् || १-४० || हकारस्तु भवेत् प्राणो रेफो वह्निरुदाहृतः | ईकारस्तु भवेन्माया बिन्दुरीश्वर उच्यते || १-४१ || नादः सदाशिवो ज्ञेयो नादान्तस्तु शिवः स्वयम् | हकारो व्यक्तिमापन्नो हार्दघोषविवक्षितः || १-४२ || अकारतां गतस्तस्य भेदो ह्यक्षरसङ्गतिः | ऊकारान्तान्यकारादीन्यक्षराणि षडस्य तु || १-४३ || विकृतिः स्याद् विशेषेण रेफस्य तु ऋ ॠ ऌ ॡ | ईकारभेदतस्त्वासन्नेकाराद्यक्षराणि षट् || १-४४ || इत्थं षोडशधोत्पन्नाः स्वराख्याः शक्तिबीजतः | शक्त्यङ्गत्वात् कलास्ते स्युरमृतांशुकलात्मकाः || १-४५ || ह्रस्वाः स्वरा बिन्दुयुताः पुमांसोऽग्न्यर्करूपिणः | दीर्घस्वरा विसर्गान्ताः स्त्रीलिङ्गाः सोमरूपिणः || १-४६ || ॠऋऌॡचतुष्कं तु सौम्याग्नेयं नपुंसकम् | स्वराणामुदयाद्यं तु पुरस्तादिह लिख्यते || १-४७ || इति स्वराधिकारः | हकारः शब्दगुणवानकारमसृजत् पुरः | व्योम्नः स्पर्शगुणो वायुः स्पर्शाख्याः कादयोऽभवन् || १-४८ || पञ्चपञ्चाक्षरास्ते स्युः पञ्चवर्गास्त्विनात्मकाः | याद्यक्षरचतुष्कं तु वायवग्निक्ष्माम्भसां तनुः || १-४९ || स्पर्शो रूपं तथा गन्धो रसाख्यस्तद्गुणाः क्रमात् | शेषास्तु व्यापकाः शाद्याः साग्नीषोमाः स्वरस्पृशः || १-५० || इत्थं पञ्चाशदुत्पन्ना वर्णाः शक्तिप्रभेदतः | कादयः पञ्चविंशार्णा यादयः शादयस्तथा || १-५१ || स्थानप्रयत्नभेदेन जायन्ते खल्वकारतः | अकारादिस्वरैर्युक्तहलां योगान्मिथोऽपि च || १-५२ || शब्दप्रपञ्चः सर्वोऽपि विचित्रं जायते स्फुटम् | हलामधिकारः | सैव शक्तिर्द्विधा भूता तारो वाग्भवमित्यपि || १-५३ || अकारश्चाप्युकारोऽथ मकारो बिन्दुनादवान् | ताराख्यः प्रणवो ह्येष शब्दब्रह्मात्मको मतः || १-५४ || अ-ईमबिन्दुनादाढ्यं वाग्भवं बीजमीरितम् | विश्ववाग्भूतिदं तत्तु वागीश्वर्यास्तनुर्भवेत् || १-५५ || प्रणवस्तु शिवः साक्षाद् वाग्भवं शक्तिरैश्वरी | शक्तिबीजं तथा तारो वाग्भवं च ततः परम् || १-५६ || अकारादीनि पञ्चाशदक्षराण्यनुपूर्वशः | तद्भेदजाश्च या वाचो देशभाजा विलक्षणाः || १-५७ || वेदाः साङ्गाः पुराणानि शास्त्राणि विविधानि च | आकाशादीनि भूतानि तन्मात्राणीन्द्रियाणि च || १-५८ || मनो बुद्धिरहङ्कारो रागः कालः कलास्तथा | बहुना किं प्रलापेन यः शब्दार्थात्मकोऽखिलः || १-५९ || प्रपञ्चः शक्तिजो ह्येष शक्तिस्तस्मात्तु मातृका | अस्यां तु मातृकाख्यायां लिपित्वं लिख्यते यतः || १-६० || अक्षरत्वं क्षराभावाद् वर्णत्वं वर्णसङ्ग्रहात् | अर्णत्वममृतात्मत्वादर्णोऽम्भः कथ्यते यतः || १-६१ || खानिलाग्न्यब्धरित्र्याख्या हयरेफा वलावपि | उपादानानि विश्वात्ममातृकायास्तु पञ्च वै || १-६२ || अवर्गोऽस्या मुखं साङ्गं कचवर्गौ भुजद्वयम् | टतवर्गौ तथा पादौ पार्श्वयुग्मं पफौ मतौ || १-६३ || पृष्ठं बकारो नाभिस्तु भकारो हृन्मकारतः | त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि यादयः || १-६४ || धातवः सप्त वर्णाः स्युर्हकारः प्राण इष्यते | स्फूर्तिः क्षकारः सक्रोधो विश्वलोकमयी तनुः || १-६५ || भूराद्याः सप्त ये लोकाः पातालानि च सप्त वै | ब्रह्मादिस्तम्बपर्यन्तं मातृकायां व्यवस्थितम् || १-६६ || सूर्याद्यास्तु ग्रहाः सप्त वर्गेभ्यः पृथगुद्गताः | अवर्गादुद्गतः सूर्यः कवर्गादपि भूसुतः || १-६७ || चवर्गाद् भार्गवो ज्ञस्तु टवर्गाद् ता(लि?दि)काद् गुरुः | पवर्गाच्च शनिश्चन्द्रो यवर्गादभवद् विभुः || १-६८ || नक्षत्राण्याश्विनादीनि मेषाद्या राशयस्तथा | मातृकाक्षरसम्भेदात् कथ्यन्ते परतोऽत्र वै || १-६९ || पञ्चाशदक्षरेभ्यस्तु पञ्चाशद् रुद्रमूर्तयः | समुद्गतास्तथा रुद्रशक्तयस्तत्प्रसंख्यया || १-७० || विष्णुमूर्तिविशेषाश्च तावत्यो विष्णुशक्तयः | ओषध्यश्चापि पञ्चाशदष्टत्रिंशत् कलास्तथा || १-७१ || तारात् पञ्चप्रभेदात् तु पञ्चाशदभवन् कलाः | एवं हि मातृकोत्पत्तिरागमोक्ता प्रदर्शिता || १-७२ || प्रपञ्चसारकथिता यथावदिह सङ्ग्रहात् | अत्रोद्ध्रियन्ते बीजानि बीजमन्त्राः समन्त्रकाः || १-७३ || उद्धारव्यत्ययादि स्यान्मालामन्त्रेषु कल्पना | ततः परं यथापाठं विज्ञेया निपुणैः स्फुटम् || १-७४ || हुंफट् वषट् नमो वौषडङ्गानि परिवारकाः | यथावदत्र लिख्यन्ते भगवच्छब्दसंयुताः || १-७५ || युक्ताक्षराणि च स्पष्टं स्वाहाकारे च ठद्वयम् | दण्डार्धेन्दुर्भवेद् बिन्दुः सर्गो बिन्दुद्वये मतः || १-७६ || मन्त्रास्तु मानवः ख्याताः वकारो ब्रह्मसंज्ञितः | विषकालौ मकारः स्याद् धातवो यादयो मताः || १-७७ || त एव मरुदग्नीलाम्भांसि वान्ता भवन्ति हि | खः प्राणभुवनेशाख्यो हकारः शिवसंज्ञितः || १-७८ || कचवर्गौ टतौ तद्वद् व्यत्यस्तौ हि परस्परम् | पफबाश्च भमक्षाश्च व्यत्ययं ते त्रयस्त्रयः || १-७९ || यशवर्गौ मिथस्तद्वद् वेद्यौ व्यत्यस्तवर्णकौ | स्वरेषु व्यत्ययो नेष्टस्तद्वद् युक्ताक्षरेष्वपि || १-८० || श्रीकण्ठाद्याश्च ये रुद्रा न्यासस्थानानि वा लिपेः | तत्तदक्षरविज्ञप्त्यै सङ्केताय भवन्ति हि || १-८१ || संख्यास्तृतगणो देवा भूतानि भुवनानि च | यथासङ्ख्यं तथा विद्यात् स्वराः सप्त दिशो दश || १-८२ || बाणास्तु पञ्च वै सप्त समुद्रा मुनयस्तथा | वेदाश्चत्वार एव स्युस्त्रयो रामाश्त्रयोऽग्नयः || १-८३ || नन्दास्तु नव चत्वारो युगा वेद्या रसाश्च षट् | उक्तात्युक्ता तथा मध्या प्रतिष्ठा सुप्रतिष्ठिता || १-८४ || गायत्र्युष्णिगनुष्टुप् च बृहती पङ्क्तिरेव च | तृष्टुप् च जगती तद्वत् ततोऽतिजगती मता || १-८५ || शक्वरी चातिशक्वर्या ह्यष्टिरत्यष्टिरेव च | धृतिश्चातिधृतिश्चैव कृतिः प्रकृतिराकृतिः || १-८६ || विकृतिः संकृतिश्चैव प्रोक्ताभिकृतिरुत्कृतिः | एतासां छन्दसां संख्या क्वचिदत्र विधीयते || १-८७ || तत्त्वसंख्या भवेद् यत्र ग्राह्यं षट्त्रिंशदेव हि | तथा षट्त्रिंशदेव स्युः शैवे तत्त्वानि संख्यया || १-८८ || कटपायचतुर्वर्गा नञसन्धिस्वरैर्मृतैः | नवभिर्नवपञ्चाष्टवर्णैः संख्यात्र वा भवेत् || १-८९ || सङ्केताधिकारः | इत्ययं वस्तुनिर्देशो ग्रन्थेऽस्मिन् विदितो यथा | सुखावबोधो ह्यर्थानां भवत्येवेष्टसिद्धये || १-९० || शब्दब्रह्म यदेकमक्षरमजं चैतन्यमात्रं यतो विश्वोत्पत्तिविनाशपालनविधौ नित्योत्थिता मूर्तयः | यस्मादक्षरविग्रहा भगवती जाता स्वयं मातृका तच्छाक्तं प्रणवाख्यबीजमखिलं न्यग्रोधबीजं विदुः || १-९१ || इति श्रीमदीशानशिवगुरुदेवमिश्रविरचिते तन्त्रसारपद्धतौ वस्तुनिर्देशमातृकोपपत्तिनिर्णयो नाम प्रथमः पटलः || अथ द्वितीयः पटलः श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः | अश्वीशो भारभूतिश्च तिथीशः स्थाणुको हरः || २- १ || झण्टीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः | अक्रूरश्च महासेनः षोडशैते स्वरेश्वराः || २-२ || अथ क्रोधेशचण्डेशपञ्चान्तकशिवोत्तमाः | एकरुद्रश्च कूर्मैकनेत्रौ च चतुराननः || २-३ || अजेशशर्मसोमेशास्त्रयो लाङ्गलिदारुकौ | अर्धनारीश्वरश्चोमाकान्तश्चाषडिडिण्डिनौ || २-४ || अत्रिमीनौ च मेषश्च लोहितोऽथ शिखी तथा | छगलण्डो द्विरण्डश्च महाकालोऽथ पालिना || २-५ || भुजङ्गश्च पिनाकी च खड्गीशो बक एव च | ततः श्वेतो भृगुश्चैव तथैव लकुलीश्वरः || २-६ || अन्त्यः संवर्तकाख्यः स्याद् रुद्राः पञ्चाशदीरिताः | रुद्राधिकारः | पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् || २-७ || लोला च वर्तुलाक्षी च दीर्घघोणा ततो भवेत् | सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा ततो भवेत् || २-८ || कुण्डोदरी चोर्ध्वकेशी तथैव विकृतानना | ततो ज्वालामुखी चोल्कामुखी श्रीमुख्यथो भवेत् || २-९ || विद्यामुखी च कथिताः षोडश स्वरशक्तयः | महाकालीसरस्वत्यौ सर्वसिद्धाद्यगौर्यथा || २-१० || ततस्त्रैलोक्यविद्या स्याद् मन्त्रशक्त्यात्मशक्तिके | भूतमाता भवेत् पश्चात् ख्याता लम्बोदरी ततः || २-११ || द्राविणी नगरा चैव खेचरी चापि मञ्जरी | रूपिणी वीरिणी चैव कोटरी पूतना तथा || २-१२ || भद्रकाली गोमिनी च शङ्खिनी गर्जिनी ततः | कालरात्रीकपर्दिन्यौ परतः कर्षणी मता || २-१३ || महाज्ञाना जया चैव सुमुखा रेवती ततः | माधवी वारुणी चैव वायवी प्ररतो भवेत् || २-१४ || रक्षोवधारिणी चान्या ततस्तु सहजा भवेत् | लक्ष्मीर्माया च पञ्चाशदेता वै रुद्रशक्तयः || २-१५ || रुद्रशक्तयः | केशवः प्रथमा मूर्तिस्ततो नारायणाह्वयः | माधवस्त्वथ गोविन्दो विष्णुश्च मधुसूदनः || २-१६ || त्रिविक्रमो वामनश्च श्रीधराख्यो हृषिकराट् | पद्मनाभो दामोदरो वासुदेवस्ततो भवेत् || २-१७ || सङ्कर्षणश्च प्रद्युम्नोऽनिरुद्धश्च स्वराधिपाः | ततश्चक्री गदी शार्ङ्गी खड्गी शङ्खी हली तथा || २-१८ || मुसली शूलिना पाशी तथा स्यादङ्कुशी ततः | मुकुन्दो नन्दजो नन्दी नरो नरकजिद्धरिः || २-१९ || कृष्णः सत्त्वः सात्त्वतश्च शौरिः सूरो जनार्दनः | भूधरो विश्वमूर्तिश्च वैकुण्ठपुरुषोत्तमौ || २-२० || बली बलानुजो बालो वृषघ्नश्च वृषस्तथा | हंसो वराहो विज्ञेया नृसिंहश्चेति विष्णवः || २-२१ || विष्णुमूर्त्यधिकारः कीर्त्तिः कान्तिस्तुष्टिपुष्टी धृतिः शान्तिः क्रिया (तथा?दया ) | मेधा च हर्षिणी श्रद्धा लज्जा लक्ष्मीः सरस्वती || २-२२ || प्रीतिरत्यौ स्वराणां तु शक्तयः स्युरिमाः क्रमात् | जया दुर्गा प्रभा सत्या चण्डा वाणी विलासिनी || २-२३ || विजया विरजा विश्वा विमदा नन्दना स्मृतिः | ऋद्धिः समृद्धिः सिद्धिश्च बुद्धिर्भक्तिर्मतिः क्षमा || २-२४ || रमोमा क्लेदिनी क्लिन्ना वसुदा वसुधा परा | परा परायणा सूक्ष्मा सन्ध्या प्रज्ञा प्रभा निशा || २-२५ || अमोघा चेति पञ्चाशद्वर्णोक्ता विष्णुशक्तयः | विष्णुशक्त्यधिकारः ओषध्योऽप्यथ चन्दनद्वयलघूकर्पूरकौशीरंरु- ग्ध्रीबेराणि तकोलजातिसहिता मांसीमुरं चोरकम् | ग्रन्थी भास्करवर्तिनी च कथिता ह्यश्वत्थबिल्वौ गुहा - रक्तश्चापि लवङ्गकुम्भिसहिता वन्दिन्यथोदुम्बरः || २-२६ || कार्ष्मर्यम्बुदशङ्खपुष्पिशिखिनीप्लक्षाग्निमन्थास्तथा सिंहीदर्भकुशापराजितयुतः स्याद् रोहिणो डुण्डुकः | ख्याता स्याद् बृहती च पाटलतरं चैत्रातुलस्यावपा- मार्गः शक्रलतामधुव्रतहरिक्रान्तामुसल्योऽपि च || २-२७ || स्याद् भीता हरितालिका हरिवधूस्तद्वत् सहा श्रीलता भद्रा चेति यथाक्रमेण तु लिपेरोषध्य उक्तास्त्विमाः | याभिः स्याद् गुलिकाकषायभसितैरालेपनस्नापना- ल्लक्ष्मीर्वाग्विभवोऽपमृत्युविजयो रक्षाकरं पावनम् || २-२८ || लिप्योषध्यधिकारः | अमृता मानदा पूषा तुष्टिपुष्ट्यौ रतिर्धृतिः || २-२९ || शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गना | पूर्णा पूर्णामृता चेति कलाः स्युः स्वरसम्भवाः || २-३० || तपनी तापनी धूम्रा मरीचिर्ज्वालिनी रुचिः | सुषुम्ना भोगदा विश्वा बोधनी धारणी क्षमा || २-३१ || कादिद्वादशवर्णानां ठान्तानां क्रमशः कलाः | धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विष्फुलिङ्गिनी || २-३२ || सुश्रीः सुरूपा कपिला हव्यकव्यवहे तथा | याद्यर्णयुक्ताः कथिता दशैतास्तु कलाः क्रमात् || २-३३ || अष्टत्रिंशत्कलाधिकारः | पञ्चभेदस्य तारस्य पञ्चाशदभवन् कलाः | सृष्टिश्चर्द्धिः स्मृतिर्मेधा कान्तिर्लक्ष्मीर्धृतिः स्थिरा || २-३४ || स्थितिः सिद्धिरकारोत्थाः कला दश समीरिताः | ऋग्वेदब्रह्मसृष्ट्यर्थाः प्रपञ्चे कथितं यथा || २-३५ || जरा च पालिनी शान्तिरैश्वरी रतिकामिके | वरदाह्लादिनी प्रीतिर्दीर्घा चोकारजाः कलाः || २-३६ || यजुर्विष्णुसमायुक्ता जगतः स्थितिहेतवः | तीक्ष्णा रौद्रा भया निद्रा तन्द्री क्षुत् क्रोधनी क्रिया || २-३७ || उत्कारिका च मृत्युश्च मकारप्रभवाः कलाः | सरुद्रसामवेदास्ताः ख्याताः संहृतये कलाः || २-३८ || पीता श्वेतारुणा गौरी बैन्दवाः सूर्यदेवताः | चतस्रं साथर्ववेदाः सेश्वराः सर्वकामदाः || २-३९ || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | इन्धिका दीपिका चैव रेचिका मोचिका ततः || २-४० || सूक्ष्मासूक्षामृताज्ञाना मृता चाप्यायनी ततः | व्यापिनी व्योमरूपा च ननन्ता चापि नादजाः || २-४१ || कलाः षोडश संख्याता भुक्तिमुक्तिप्रदायिकाः | सदाशिवात्मिकास्त्वेताः सामान्येन व्यवस्थिताः || २-४२ || इति प्रणवकलाधिकारः | केशान्ते मुखवृत्तेऽक्ष्णोः श्रोत्रयोर्घ्राणयोरपि | गण्डयोरोष्ठयोर्दन्तपङ्क्त्योर्मूर्धास्ययोः स्वरान् || २-४३ || कवर्गं दक्षिणे हस्ते चवर्गमितरे भुजे | टतवर्गौ तथा पद्भ्यां पफौ पार्श्वद्वये न्यसेत् || २-४४ || पृष्ठे नाभौ च हृदये न्यसेद् बभमसंज्ञितान् | त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लासुपङ्कजे || २-४५ || हृत्स्थे तत्पत्रगान् यादीनष्टार्णानात्मनि न्यसेत् | क्षकारं कर्णिकायां तु सर्वशः संस्मरन् न्यसेत् || २-४६ || लिपिन्यासस्थानाधिकारः | स्थानान्युक्तान्यकारादिवर्णानां क्रमशोऽधुना | लिपेर्न्यासविशेषास्तु लिख्यन्ते साङ्गदैवतम् || २-४७ || लिप्यर्णैरेव बिन्द्वन्तैर्न्यासः शुद्धलिपेः स्मृतः | सञ्जीवनि! ऊर्ध्वकेशिनि! ज्वलितशिखिशिखे! त्रैलोक्यरूपिणि! सहस्रपरिवर्तिनि! ओं ह्रीं सौं नेत्रत्रयाय वौषट् मारुतवारुणि! काद्यैः षड्वर्गकैर्युक्तान्यादावङ्गानि षड् लिपेः || २-४८ || प्रायः सर्वाङ्गमन्त्राणाः हृदयं स्यान्नमोन्तकम् | शिरः स्वाहान्तमुद्दिष्टं वषडन्तं शिखा भवेत् || २-४९ || अन्ते हुं कवचस्य स्यात् फडन्तं चास्त्रमिष्यते | वौषडन्तं तथा नेत्रं नेत्रान्तं त्वेवमीरितम् || २-५० || अस्त्रान्ताङ्गविधिः क्वापि तत्रास्त्रान्तं तु विन्यसेत् | षडङ्गस्यैव मन्त्रस्य कथ्यते नेत्रकल्पना || २-५१ || पञ्चाङ्गस्य मनोस्तस्य नेत्रमन्त्रो न विद्यते | प्रागङ्गमन्त्रमुच्चार्य ततोऽङ्गं सचतुर्थिकम् || २-५२ || नमःस्वाहादिकं पश्चाद् योजयेदङ्गमुद्रया | प्रसारिताङ्गुलिर्हस्ततलं तु हृदये न्यसेत् || २-५३ || कुञ्चिताग्राङ्गुलिर्मुक्ताङ्गुष्ठं शिरसि तत् पुनः | बद्धमुष्टिनिसृष्टेन त्वङ्गुष्ठाग्रेण वै शिखाम् || २-५४ || वपुः स्वमस्पृशन्नूर्ध्वमुत्क्षिप्य तु करद्वयम् | आकुञ्चिताङ्गुलोत्तानतलं दक्षिणवामयोः || २-५५ || पार्श्वयोरानयेद् रक्षामानाभेः कवचं तु तत् | तावेवाकण्ठमुत्क्षिप्य करौ सङ्कुचिताङ्गुली || २-५६ || ज्येष्ठाग्रक्रान्ततर्जाग्राच्छोटिकोत्सर्जनात् पृथक् | अस्त्रं स्यान्नेत्रमुद्रा तु दक्षिणान्मुष्टिबन्धनात् || २-५७ || उत्सृष्टानामिकामध्यातर्जाभिः सहसाग्रतः | नेत्रत्रयस्पर्शनेन भवेन्नेत्रद्वयं यदि || २-५८ || तत्र तर्जनिकामध्यायोगान्नेत्रद्वयं स्पृशेत् | शुक्लं पीतं ज्वलज्ज्योतिर्विद्युद्वर्णम् हुताशभम् || २-५९ || रक्तं चाप्यङ्गषट्कं च सामान्येन पृथक् क्रमात् | अङ्काधिकारः | मुद्रार्थस्फटिकाक्षसूत्रकलशांश्चाबिभ्रती पुस्तकं हस्तैर्दक्षिणपूर्वकैस्त्रिणयना शुक्लस्रगालेपना | कुन्दाभाक्षरविग्रहा शशिकलां मौलौ प्रसन्नानना धत्ते या लिपिदेवताम्बुजगता मुक्ताभरालङ्कृता || २-६० || पञ्चाशद्वर्णमूर्तिं तामेवं ध्यात्वा स्वविग्रहे || २-६१ || स्थानेषु क्रमशो न्यस्य पूर्वोक्तेषु जपेल्लिपिम् | पञ्चाशत्संख्यया नित्यं यावल्लक्षं प्रपूर्यते || २-६२ || तिलैस्त्रिमधुराक्तैस्तु हुत्वा शक्त्यनुरूपतः | वाग्विशुद्धिमसौ विन्देत् कविता चास्य जायते || २-६३ || ग्रन्थ तत्त्वार्थविद् विद्वान् प्राज्ञो नीरोगविग्रहः | संसाध्यैवं लिपि देवीं सिद्धसर्वमनुर्भवेत् || २-६४ || शुद्धलिपिः | सरुद्रांस्तु जपेद् वर्णान् प्राग्वद् विन्यस्य तु क्रमात् | न्यासः श्रीकण्ठपूर्वोऽसौ क्षुद्ररोगादिशान्तिदः || २-६५ || मं मं अं अं आं आं क व च इं र क्ष हृल्लेखाव्योमसौपूर्वममून्यङ्गानि षट् क्रमात् | श्रीकण्ठादि | लिप्यर्णानि सबिन्दूनि रुद्रशक्तिविभक्तिहृत् || २-६६ || युक्तानि विन्यसेदेष श्रीकण्ठादिः सशक्तिकः | अङ्गानि प्राक्तनान्येव तुल्यान्यस्यापि कल्पयेत् || २-६७ || न्यासयोरनयोश्छन्दो विराडित्यभिधीयते | श्रीब्रह्मा मुनिरुद्दिष्टो वाग्देवी दैवतं भवेत् || २-६८ || द्वितीयस्यार्धनारीशो न्यासस्येत्यपि केचन | साक्षस्रक्वलशोर्ध्वबाहुयुगलां चाधः समुद्राभयं हस्तं दक्षिणमन्यतः सवरदे यस्याः करे पुस्तकम् | ध्यायेत् तां शशिखण्डमण्डितजटां देवीं त्रिनेत्रां सितां श्रीकण्ठाद्यधिदेवतां च धवलैराकल्पकैर्भूषिताम् || २-६९ || सिन्दूरहेमोभयभागवर्णं त्वर्धाम्बिकं साङ्कुशपाशहस्तम् | साक्षावलिं स्वेष्टदपाणिमीशं श्रीकण्ठपूर्वं स्मरतु स्वसिद्ध्यै || २-७० || सशक्तिश्रीकण्ठन्यासः | तारं सशक्तिलिप्यर्णैरजपा सोऽहमेव च || २-७१ || प्रपञ्चयागन्यासोऽयं न्यासजप्यादिनेष्टदः | लकुली बिन्दुमान् सर्गी भृगुश्चाप्यजपामनुः || २-७२ || ऋषिर्ब्रह्मास्य गायत्री छन्दः स्याद् देवतापि च | परमात्मा परं ज्योतिर्ध्येयः स्वहृदयाम्बुजे || २-७३ || सशक्तिठद्वयं हृत् स्याच्छिरः सोऽहमिहोच्यते | अजपा तु शिखा ज्ञेया वर्मैव कवचं स्मृतम् || २-७४ || तार एव तु नेत्राणि हरीशार्णाविहास्त्रकम् | कर्णस्तु हरिबीजं स्याद् विषमीशाक्षरं विदुः || २-७५ || ध्येया स्यादभयाक्षसूत्रंशुकधृग् या पुस्तकं बिभ्रती देवी पाण्डुरपुण्डरीकपटलस्वच्छेन्दुकुन्दद्युतिः | हृद्याङ्गी मणिकुण्डला त्रिनयना कोटीरभारोज्ज्वला सार्धेन्दुः सितमाल्यगन्धवसना ब्राह्मी प्रपञ्चेश्वरी || २-७६ || प्रपञ्चयागन्यासः | शक्त्याद्यैर्वा लिपेर्वर्णैः शक्तिः श्रीपूर्वकैस्तु वा | शक्तिः श्रीमन्मथाद्यैर्वा मोमानङ्गादिकैस्तु वा || २-७७ || न्यासाः समृद्धिकास्त्वृद्ध्यै मुनिरेषां प्रजापतिः | छन्दस्तु दैवी गायत्री मोमानङ्गास्तु देवताः || २-७८ || स्वादिबीजैर्यथालिङ्गं षडङ्गानि भवन्ति हि | उमादिदेवताः स्मृत्वा न्यासे ध्येया सरस्वती || २-७९ || मन्दारदामकलितेन्दुजटाकिरीटा सिन्दूररोचिरभिरामवपुस्त्रिनेत्रा | कुन्दावदातवसनाङ्कुशपाशविद्या- सन्दोहपङ्कजकरावतु भारती वः || २-८० || समृद्धिन्यासः कलासनस्थो लकुली वामाक्षार्धशशाङ्कवान् | लिप्यर्णोभयगो न्यस्तः क्षोभणीन्यास ईरितः || २-८१ || कामारूढस्तु लंकुली प्राग्वद् दीर्घस्वरैर्युतः | यथालिङ्गं षडङ्गानि छन्दो गायत्रमेव हि || २-८२ || वामदेवो मुनिः कामो दैवतं चाक्षरेश्वरी | सिन्दूरारुणसुन्दराङ्गरुचिरा रक्ताम्बरालेपना मन्दारावृतकुन्तला स्मितमुखी गण्डोल्लसत्कुण्डला | ध्येया स्याद् दधती करैः सरसिजं पाशाङ्कुशे पुस्तकं बिम्बोष्ठी मणिभूषणा भगवती संक्षोभणी भूतये || २-८३ || क्षोभणीन्यासः | पाशश्रीशक्तिमदनैर्लिप्यर्णमदना रमा || २-८४ || लक्ष्म्यङ्कुशकलाहृद्भिर्युक्तो न्यासस्तु मालिनी | अनन्तो बिन्दुमान् पाशः श्रीबिन्द्वन्ताः स्वयं मनुः || २-८५ || ब्रह्मा समांसवामाक्षदण्डो बीजं तु मान्मथम् | शक्तिः ख्याता तु कः साग्निदन्तबिन्दुस्तथाङ्कुशम् || २-८६ || कलास्त्वक्षरजा ग्राह्याः पञ्चाशत् प्रणवोदिताः | वीप्सितानि स्वबीजानि सर्गी संवर्तकश्च षट् || २-८७ || अङ्गान्यमूनि मालिन्याश्छन्दश्चोष्णिगृषिर्गुहः | देवतास्य जगन्माता देवी त्रिपुरभैरवी || २-८८ || न्यासश्चानेन होमश्च मधुरैः सर्वसिद्धिदः | जपध्यानादिना सद्यः सर्वानाकर्षयेदपि || २-८९ || बन्धूकारुणविग्रहां त्रिनयनां रक्ताम्बरालेपनां चञ्चत्काञ्चनकुण्डलां सवरदां पाशाङ्कुशे बिभ्रतीम् | नीहारामलहारकुङ्कुमरसैराताम्रकम्रस्तनीं ध्यायेत् तां तु कपर्दचन्द्रशकलां सव्याभयां मालिनीम् || २-९० || मालिनीन्यासः | पाशाङ्कुशाभ्यां पुटितैर्लिप्यर्णैः कर्षणी भवेत् | न्यासस्तु कादिषड्वर्गैः पाशाङ्कुशपुटैर्यथा || २-९१ || षडङ्गानि भवन्त्यस्यच्छन्दोऽनुष्टुप् प्रजापतिः | ऋषिर्वाग्वादिनी दैवं न्यासाद्यैः सर्वसिद्धिदः || २-९२ || ध्येया स्याद् रोचनाम्भोद्रुतकनकवपुर्वल्लकीपुस्तकाभ्यां या सा पाशङ्कुशाढ्या मणिगणरुचिरैर्भूषणैर्भूषिताङ्गी | कोटीराबद्धमौलौ धृतशशिशकला रक्तगन्धाम्बराद्या स्वैक्यं वाग्वादिनीयं त्रिभिरपि नयनैर्भ्रूविलासस्मितास्या || २-९३ || वाग्वादिनीन्यासः | लिप्यर्णानि सबिन्दूनि केशवाद्याश्च विष्णवः | तच्छक्तयश्च क्रमशो न्यस्तव्या स्युर्नमोन्तकम् || २-९४ || केशवाद्यैर्भवेन्न्यासो विष्णुमन्त्रेषु सिद्धिदः | अष्टाक्षरतनुर्विष्णुर्देवता तमपि स्मरन् || २-९५ || न्यसेच्छन्दस्तु गायत्री नारदोऽस्य मुनिर्भवेत् | देवी कुन्देन्दुगौरी स्फुरदमृतकलाहारिहाराभिरामा ध्येया मालेयहृद्यं वपुरपि दधती लेखनीं चाक्षसूत्रम् | सौधं कुम्भं च विद्यानिधिमपि जलजं जाटजूटाहितेन्दु र्या सा क्षौमाम्बराढ्या त्रिभुवननमिता षट्भुजा सत्रिणेत्रा || २-९६ || केशवादिन्यासः | एवंप्रकारा गदिता लिपेर्न्यासास्तु सिद्धिदाः || २-९७ || एषामेकतरं न्यासमाश्रयेदेव साधकः | न्यस्तलिप्यर्णदेहस्तु जपहोमार्चनादिकम् || २-९८ || कुर्यान्मन्त्रात्मरक्षार्थं तथा तत्कर्मसिद्धये | न्यस्तां लिपिं ततो ध्यात्वा पूजयेन्मातृकाम्बुजे || २-९९ || सप्तवर्गान्त्ययुग्माष्टदिक्पत्रं सितपङ्कजम् | बिन्दौ मदग्निरुद्धान्त्यकर्णिकं स्वरकेसरम् || २-१०० || सप्तार्णवैः परिवृतं पृथ्वीबिम्बेन वेष्टितम् | मातृकावर्णपद्माख्यं विषमृत्युजरापहम् || २-१०१ || चिन्तितं तच्छिरस्येव मृत्युक्ष्वेलरुजो हरेत् | ध्यात्वा दुग्धाब्धिमध्यस्थं दिव्यस्फटिकमण्डपम् || २-१०२ || तत्र पीठाम्बुजे ह्यास्मिन् शक्तयोऽष्तौ दलाग्रतः | मेधा प्रज्ञा प्रभा विद्या धीर्धृतिस्मृतिबुद्धयः || २-१०३ || विद्येश्वरी च मध्यस्था शुक्ला शुक्लाम्बरादिकाः | कृताञ्जलीद्वयकरास्तथैवोर्ध्वकरद्वये || २-१०४ || दधत्यः पुस्तकं कुम्भं शान्ताः सुन्दरमूर्तयः | विदिक्ष्वङ्गानि दिक्ष्वस्त्रं दलेषु नयनं पुरः || २-१०५ || ततः स्वराश्च तत्संख्यकलाभिरमृतादिभिः | अमृता मानसी तुष्टिः पुष्टिप्रीतिरतिश्रियः || २-१०६ || शान्तिः सुधा तथा कान्तिर्ज्योत्स्ना हैमवती ततः | छाया च पूरणी वामाप्यमा चेन्दुकलास्त्विमाः || २-१०७ || अमृतासारवर्षिण्यो द्वन्द्वशो दलगाः स्मरेत् | ततो वर्गाक्षराणि स्युस्ततो ब्राह्म्यादिमातः || २-१०८ || ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा | वाराह्यैन्द्री च चामुण्डी महालक्ष्मीश्च दिक्क्रमात् || २-१०९ || ततो दश दिगीशाः स्युरिन्द्रोऽग्निर्यम एव च | निरृतिर्वरुणो वायुर्धनदेशानकौ ततः || २-११० || प्रागादिदिक्षु तेऽष्टौ स्युरथेन्द्रेशानमध्यगः | ब्रह्मा स चोर्ध्वलोकेशोऽनन्तो वरुणरक्षसोः || २-१११ || अधोलोकेश्वरस्त्वेतान् षडावरणगान् यजेत् | मध्येऽब्जकर्णिकासंस्थां चेतनात्मतया लिपिम् || २-११२ || स्वन्यासोक्ताकृतिं ध्यायेदुपचारैर्यथोदितैः | आसनावाहनार्घाणि पाद्यं चाचमनीयकम् || २-११३ || साङ्गोपाङ्गं तथा स्नानं वसनाभरणानि च | गन्धपुष्पे तथा धूपो दीपश्चरुनिवेदनम् || २-११४ || अग्निकार्यं नमस्कारो राजपूजासमर्पणम् | षोडशोपचारः एवं स्थण्डिलगामिष्ट्वा मनसा वा समर्चयेत् || २-११५ || ऋष्यादीनपि विघ्नेशं गुरुं चाप्युत्तरे यजेत् | ततोऽष्टपुष्पिकां कुर्यात् सा चाहिंसा क्षमा दया || २-११६ || तथेन्द्रियाणां नियमो ज्ञानं भावविशुद्धता | अक्रोधो ध्यानमित्यष्टौ भावपुष्पाण्यनुक्रमात् || २-११७ || आसनं चैव तन्मूर्त्तिर्देवता चाङ्गपञ्चकम् | इत्यष्टौ पूजयेन्मन्त्रैः स्यादेवं चाष्टपुष्पिका || २-११८ || सिद्धये साधकेन्द्राणां देवतानां प्रसादने | प्रचेतव्यानि मन्त्राणां स्फुरणाय विशेषतः || २-११९ || क्षमस्वेति ततो देवीं परिवारैश्च तैः सह | निरञ्जने लयं गच्छ शिरोन्तं मनुनामुना || २-१२० || द्वादशान्ताम्बुजस्थेन्दौ योजयेच्चेतनात्मिकाम् | लिपिपूजाविधिः | पूजाक्रमोदितं चक्रभूर्जहेमादिके लिखेत् || २-१२१ || तद्धारणेन सर्वार्थाः सिद्ध्यन्त्यस्याप्ययत्नतः | प्रातस्त्रिवारमनया जपित्वाम्भः पिबेत् सुधीः || २-१२२ || संवत्सराद् भवेत् प्रज्ञा कविता चास्य जायते | अष्टोत्तरसहस्रं तज्जपाद् ब्राह्मीरसं पिबेत् || २-१२३ || अहोरात्रमविच्छिन्नमथवाप्युपरागयोः | पलं श्वेतवचाचूर्णं कर्षं तुरगगन्धिनी || २-१२४ || कृष्णा हरिद्रा सिन्धूत्थं धात्री रुग् विश्वभेषजम् | प्रतिनिष्कं तु सञ्चूर्ण्य घृतप्रस्थे विनिक्षिपेत् || २-१२५ || ब्राह्मीरसचतुष्प्रस्थे पचेन्मृद्वग्निपाकवित् | ब्राह्मीघृतमिदं प्राज्ञमनयायुतमन्त्रितम् || २-१२६ || पिबेत् सूर्योपरागे तु सर्वज्ञत्वमवाप्नुयात् | दिनादौ वा लिहेन्नित्यं पञ्चाशदभिमन्त्रितम् || २-१२७ || संवत्सराद् भवेत् प्राज्ञः कविर्विद्वत्सुसम्मतः | मध्ये तु मातृकापद्मे लिप्योषध्यम्बुपूरितम् || २-१२८ || कलशं विधिवन्नित्यं जपेद् दशशतं ततः | तेनाभिषिक्तो मासेन वागायुःकान्तिकीर्त्तिभिः || २-१२९ || अरोगी युज्यते लक्ष्म्या बन्ध्या सूते सुतं शुभम् | आधारशक्तिबिन्दूत्थां प्रभां सौषुम्नमार्गगाम् || २-१३० || द्वादशान्तेन्दुगां ध्यात्वा तस्यां क्षाद्यक्षरं लिखेत् | बह्निसोमाभिसंप्रोताद् रोगान्मुच्येत पातयन् || २-१३१ || लिपिमिति विदितार्थां विन्यसेदेकमार्गां गुरुमुखसमवाप्तां तां जपेच्चापि लक्षम् | सितकुसुमतिलाज्यैस्तद्दशाशेन हुत्वा वशयति जगदिष्टं प्राप्तवागीश्वरोऽसौ || २-१३२ || ग्रहरिपुविषरोगान् वोप्लवान् हन्ति चान्यान् निजवपुषि परे वा न्यासतः स्वार्णसंख्यम् | जगति निखिलमन्त्राः साधिताः स्युर्न नूनं न हि लिपिरभिराद्धा साधयेत् सर्वकामान् || २-१३३ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे श्रीकण्ठादिपटलो द्वितीयः | अथ तृतीयः पटलः अथ सकलमनूनां मातृकां जन्मभूमि- स्तदधिकृतविशेषा वर्गवर्गादियुक्त्या | पृथगिह परिपाट्या लिख्यते च स्वराणा- मुदयविहृतिवर्णैश्चाप्तिराश्यात्मलिङ्गैः || ३-१ || अविदितमनुवर्णप्रक्रियाकार्यरूपः कथमिह फललिप्सुस्तज्जपादौ प्रवृत्तः | गणविषयविभागानौषधानामजानन् कुभिषगिव चिकित्सालौलुपो बालिशोऽसौ || ३-२ || अविदितगजशिक्षश्चासृणिर्वाधिरोहे- दविरलमदधाराः संस्रवन्तं गजेन्द्रम् | अगणितपरिशुद्धिर्मन्त्रतत्त्वानभिज्ञः स पतति खलु मूर्खो देशिकः साधको वा || ३-३ || इति लिपिमनुचक्रव्याक्रियार्थस्त्वतोऽस्मिन् प्रकटितबहुमन्त्रो देशिकैर्वेदितव्यः | अकचटतपयाख्याः सप्त शाख्यश्च वर्ग- स्त्विह रविशशिवर्णः स्यादवर्गः स्वरात्मा || ३-४ || पुरुषयुवतिभेदा रौद्रसौम्याः स्वरास्ते नहि पृथगुदयाः स्युहस्वदीर्घाः क्रमेण | उदयति रविवर्णे ह्रस्वके दक्षिणस्थे शशिनि च खलु दीर्घे वामनासापुटेऽर्णे || ३-५ || नसि पुटयुगलेऽस्मिन्नूर्ध्वमग्निस्तु तिर्यङ् मरुदुदकमघस्तान्मध्यकुण्ड्यं धरित्री | सुषिरमिह हि यत् स्वं पञ्च भूतानि चैवं सवितरि च शशाङ्के ते स्वरास्तूदयन्ते || ३-६ || उभयमपि च विद्याद् यत्र निश्वासवायुः प्रसरति समकाये स्वस्थदेहेन्द्रियस्य | वदतु च परिपृष्टः कार्यसिद्धिं च हानिं स्वरमुदितमवेक्ष्य स्वस्य वान्यस्य युक्त्या || ३-७ || कपिलवकुशरामाः कामनिम्ने निशाज्ञः पशुरणियमगावः किं वनं संख्यनाड्यः | क्रमपठितयुगार्णा राशयो द्वादश स्यु- र्दिनरजनिविभागस्तैस्तु षड्भिश्च षड्भिः || ३-८ || अजवृषमिथुनाख्याः कर्किहर्यक्षकन्याः समतुलमलिचापे नक्रकुम्भाह्वमत्स्याः | चरनचरयुगास्ते राशयस्त्रिक्रमाः स्युः सह खलु लिपिवर्णैः श्वासवेद्योदयाद्याः || ३-९ || उदयति चरराशिर्दक्षिणघ्राणसूर्ये मरुति हि शशिसंज्ञे वामके स्थास्नुराशिः | उभयपुटनिसृष्टं चोदयेद् युग्मराशिः सकलभुवनकालज्ञापकः श्वासचारः || ३-१० || उभयमरुति जीवः सौम्यवायौ जले वा शशिदहनधरण्यो मारुतो धातुशंसी | उभयधरणिसूर्ये चाप्सु मूलं शशाङ्के पयसि च फलसिद्धिः सूर्यभूम्यप्सु न स्यात् || ३-११ || कुजमुभयगवह्नौ सूर्यवह्नौ मृतिः स्यात् सवितृवियति नष्टं स्यान्मृतं वाल्पमायुः | वदतु मरुति चन्द्रे दीर्घमायुस्तदद्भिः सुखमपि शशिभूमौ चाल्पसिद्धिस्तु तत्स्वे || ३-१२ || उभयधरणिरिष्टं साधयेद् दीर्घकाला- दुभयमरुति किञ्चित्कालपाके स सिद्ध्येत् | उभयगगनवह्न्योर्नैव सिद्धिर्न हानि- र्मरुदुभयजलस्थः क्षिप्रमल्पेष्टदः स्यात् || ३-१३ || शशिजलधरणिस्थे शान्तिकं पौष्टिकं वा शशिमरुदनवाभ्यां(?) वश्यमाकर्षणं च | दिनकरभुवि कुर्यात् स्तम्भनं त्वर्कतोये रुजमिनमरुता स्वे भ्रामणोच्चाटनाभ्याम् || ३-१४ || दिनकरवियति स्यान्मोहनं चार्कवह्नौ द्रुततरमरिवर्गान् मारयेत् सादयेच्च | इति जपहुतविद्याः साधयन् वै यथावत् स्वरमुदितमपेक्ष्य त्वारभेताशु सिद्ध्यै || ३-१५ || स्वरोदयाधिकारः | कचटतपसमाख्याः पञ्चवर्गास्तु धात्री- मरुदनलखतोयैः संयुतास्तत्र वेद्याः | अनिलदहनपृथ्व्यो वारि चाप्यत्र याद्या- स्त्रिगुणगगनवर्णाः शादयोऽन्त्यस्तु रागः || ३-१६ || कनकरुगमलस्रग्वस्त्रगन्धोऽष्तबाहु- स्त्रिशिखवरगदाधृत्क् कूर्मवाहोऽष्टनेत्रः | शशधरचतुरास्यो वृत्तपीठे कपर्दी कुवलयसमगन्धो मन्दराभो ह्यकारः || ३-१७ || धवलरुचिरथाब्जे सूपविष्टा द्विबाहु- र्गजवरमधिरूढा साङ्कुशा पाशहस्ता | तुहिनविमलहारैर्भूषिता षष्टिदीर्घा त्रिदशविततिराख्या योजनानां पुरन्ध्री || ३-१८ || कुलिशधृगतिपीतं कूर्मवाहं कुबिम्बे द्विभुजमलसगन्धं योजनद्वन्द्वदीर्घम् | स्मरतु विविधमायं विस्तृतं दैर्घ्यतोऽर्धं रिपुदुरितगदघ्नं स्तम्भनं सूक्ष्मसंज्ञम् || ३-१९ || कनकफलकरा स्त्री पञ्चगब्यूतिवृता सितरुचिरमृतार्द्रा हारिहाराभिरामा | द्विगुणधरणिबिम्बे हंसगा योजनानां दशपरिणतमूर्तिः पुष्टिदा स्यात् त्रिमूर्तिः || ३-२० || द्विशतरचितदैर्घ्यं विस्तृतं योजनानां शतमतिकटुगन्धं काकवाहं द्विहस्तम् | अनलभवनसंस्थं ताम्रवर्णं सशूलं सगदमखिलरक्षां(?)स्यादयुग्मं तु षण्डम् || ३-२१ || द्विभुजमरुणमग्नेर्मण्डलस्थोष्ट्रवाहं दशशतविततं तद्द्वन्द्वदीर्घं त्रियुग्मम् | भुजगभुजगवर्गैर्भूषितं दुष्टगन्धं स्मरतु विषविघाते षण्डकं शक्तिपाशम् || ३-२२ || कुलिशधरमुदग्रं हंसवाहं सपाशं द्विलपनमतिपीतं पार्थिवाब्जे सुगन्धम् | शतविततिलुयुग्मं त्रिंशदायामि षण्डं स्मरतु रिपुगणघ्नं स्तम्भनं स्वर्णचूडम् || ३-२३ || रथचरणफलास्यं षण्डकं शङ्खपद्म- स्फुरितभुजचतुष्कं चन्द्रकीकण्ठनीलम् | सुमुखममलहारं पद्मगन्धं कपर्दि स्मरतु निखिलवश्यं झण्डिनं चक्रवाके || ३-२४ || द्विभुजगरुडवाहां भूषितां वह्निबिम्बे त्रिशिखकुलिशहस्तां शुक्लवर्णां सुगन्धाम् | स्मरतु विमलहारां भौतिकीं वा प्रसूत्यै प्रविततशतकोटिं योषितं तां तथोच्चाम् || ३-२५ || अखिलभुवनमध्यव्यापकं पीतवर्णं दशशतभुजयुग्मं द्योतमानं त्रिणेत्रम् | द्विगुणदहनबिम्बे गोवृषे भूषिताङ्गं पुरुषयुवतिदेहं मुक्तिदं ध्येहि सद्यम् || ३-२६ || सितकुसुमसुगन्धिः शुक्लवासाः सुवर्ण- द्युतिरपि कुसुमाभो वज्रपाशौ च बिभ्रत् | धरणिकमलबिम्बे योजनानां सहस्रं तततनुरिह चिन्त्यः पौष्टिकेऽनुग्रहेशः || ३-२७ || घुसृणरुचिरनेकैर्भूषणैश्चित्रिताङ्गो युगलयुगलजाड्याः स्वेष्टदः पद्महस्तः | सरसिजमधितिष्ठन् श्रीकरोऽक्रूरवर्णः सकलदुरितमुक्त्यै चिन्तनीयोऽवतान्नः || ३-२८ || दहनपुरगतस्तत्षण्डकं युग्महस्तं करगतमपि कृष्णैर्वस्त्रगन्धैस्त्रिणेत्रम् | त्रिशिखकुलिशहस्तं क्षुद्रविद्वेषदक्षं दशशतपरिमाणं चिन्तयेच्च स्वरान्त्यम् || ३-२९ || स्वरमूर्त्यधिकारः | कुलिशमुसलहस्तो भूमिबिम्बेऽजगन्धः कनकरुगिभसंस्थो ब्रह्मशक्राधिदेवः | द्विभुजपुरुषवेषो वश्यकृत् कः कपर्दी दशशतपरिवृत्तः पातु नास्तद्द्विरुच्चः || ३-३० || शतमखमणिनीलः सर्पयज्ञोपवीतो धवलवदनरौद्रः पातु वः पिङ्गपादः | ज्वलनकमलमेषे पावनः स्तम्भनः स्वो दशशतपरिमाणस्तोमरी शक्तिपाणिः || ३-३१ || फणिनि विकचपद्मे रक्तवर्णे निविष्टः शतविततिरनुग्रः पुष्टिदस्तावदुच्चः | गणपतिधनदेशो हंसवाहः सुगन्धो- ऽवतु भुजधृतपाशः साङ्कुशो वो गकारः || ३-३२ || दशशतपरिवृत्तं तद्विमानोच्चषण्डं कुलिशवरगदाढ्यं ध्येयमुष्ट्राधिरूढम् | द्विभुजमसितयाम्यद्वेषणोच्चाटकृत्यैः स्मरतु च घमुदग्रं यन्मुखोलूखलस्थम् || ३-३३ || त्रिशिखमुसलटङ्कैः शक्तिदण्डाहिहस्तं यमपतिमतिकृष्णं षड्भुजः काकवाहम् | स्मरतु भुजगरूढं कोटिदीर्घार्धवृत्तं श्वयथुचरणगात्रं द्वेषणेष्वेकरुद्रम् || ३-३४ || सितरुचिररिशङ्खौ चाम्बुजं मातुलुङ्गं दधदरुणसुगन्धस्रग्विभूषः कपर्दी | जगति निखिलभूत्यै पातु वो गुह्यकेशो धरणिकमलसंस्थः कोटिमानस्तु कूर्मः || ३-३५ || मकरकमलरूढः सूर्यकान्तिः स वोऽव्या- दरिजलजगदाब्जान्यादधद् दिव्यगन्धः | धवलवसनगन्धः स्रग्धरः कोटिमानो विमलमणिविभूषो वश्यदस्त्वेकनेत्रः || ३-३६ || सितकमलशशाङ्कोदुद्गताविन्दुवर्णौ सफलकुलिशपाशौ सौधकुम्भौ दधानौ | दशशतपरिमाणौ वोऽवतां शान्तवर्णौ पलितमृतिगदघ्नौ क्ष्वेलशान्तिप्रधानौ || ३-३७ || असितमशुभषण्डं दुर्मतिं काकवाहं यमपुरुषमनेकैरायसैर्भूषिताङ्गम् | त्रिशिखपरशुहस्तं द्वेषकृत्येषु विद्याद् दशशतपरिमाणं शर्मसंज्ञं तु वर्णम् || ३-३८ || जलधिसमनिनादः सद्गदो वज्रपाणि- र्भुजगभुजगनद्धो युग्मबाहुः सुतीव्रः | प्रथमरिपुरुजानां ध्वंसनः क्रौञ्चवाहः कपिलरुचिरुदारो वः स सोमेश्वरोऽव्यात् || ३-३९ || अमलशशिनिकाशः शङ्खगोक्षीरगौरो विमलमणिविचित्रैर्भूषितो हारजालैः | धरणिपवनपद्मे पद्महस्तो गजोऽव्यात् सकलविषहरो वो लाङ्गली लक्षमानः || ३-४० || तुरगकुवलयस्थः पक्वरम्भाद्युतिर्वः कनकमणिविचित्रस्तुर्यवक्त्रोऽष्टबाहुः | दशशतपरिमाणः पद्मपाशाङ्कुशाब्जा- न्यभयवरदशूलैरादधद् दारुकोऽव्यात् || ३-४१ || अनलपुरगमेषे वह्निदेवः स वोऽव्यात् कुलिशवरभुसृण्ठीभिण्डिपालेषुपाशान् | परशुमपि रथाङ्गं कार्मुकं चादधानो दशपरिणतिरुच्चैरर्धनारीश्वरार्णः || ३-४२ || त्रिशिखपरशुहस्तं व्याघ्रवाहं सुधूम्रं त्रिमुखमहितरोगान् ध्वंसयन्तं कुबिम्बे | अरिकुलिशभुसृण्ठीपाशदण्डध्वजाढ्यं स्मरतु दशशतोच्चं चाप्युमाकान्तवर्णम् || ३-४३ || द्विपवरमधिरूढं शङ्खटङ्काब्जपाशान् दधदलसमगन्धो वः सहस्रप्रमाणः | शतमखवरुणेशो वश्यदो भूषिताङ्गः कटकमकुटनिष्कैराषढीपाटलोऽव्यात् || ३-४४ || वृषगतशितिवर्णस्तुर्यवक्त्रोऽष्टबाहु- र्मरुदनलपतिर्वः कोटिमानस्त्रिशूली | मुसलपरशुशक्तीस्तोमरं भिण्डिपालं दधदवतु च दण्डं प्रासमप्येष दिण्डी || ३-४५ || असितमथ यमेशं षड्भुजं वस्त्रिवक्त्रं भुजगवलयहारं शूलटङ्कासिदण्डान् | कुलिशमपि भुसृण्ठिं षण्डमव्याद् दधद् य- न्महिषगतकरोटौ कोटिमानोऽत्रिसंज्ञम्(?) || ३-४६ || मृगवरमधिरूढो यः स सर्पोपवीतो निरृतिपतिरुदग्रः खड्गपाशो भुसृण्ढीम् | दधदतिकपिशोऽव्यान्मुद्गरी बोऽब्जपीठे प्रतिभयरिपुभेदी यश्चतुर्लक्षमानः || ३-४७ || द्विभुजमसितवर्णं व्याघ्रचर्मोत्तरीयं डमरुकमपि शूलं बिभ्रदारक्तनेत्रम् | चिरमवतु पिशङ्गैरम्बराद्यैर्युतं वो दशशततति नाख्यं काकवाहं च षण्डम् || ३-४८ || गरुडमधिगतोऽब्जे सर्पयज्ञोपवीती दशवदनसिताङ्गो विंशतिं यो भुजानाम् | दधदपि मणिचित्रः पातु कोटिप्रमाणो विविधविषहरोऽसौ ब्राह्मणो लोहितार्णः || ३-४९ || परशुरथपदाढ्यः सिंहपद्माधिरूढः प्रविततदशकोटिर्युग्मबाहुर्द्विजन्मा | हरतु भवदरिष्टं मौक्तिकब्रह्मसूत्र- स्तडिदनलपिशङ्गो यः शिखी रक्षणेष्टः || ३-५० || कुवलयविनिविष्टो हंसवाह षडास्यो धनपतिपतिरब्जं शङ्खमप्यादधानः | धवलवसनगन्धो बन्धुजीवारुणो वः प्रविततदशकोटिः श्रीकरोऽव्याद् बकारः || ३-५१ || त्रिमुखनयनरौद्रं पिङ्गकेशं तरक्षो- रुपरिदहनबिम्बे धूम्रवर्णं त्रिहस्तम् | रथचरणगदाढ्यं षण्डकं शूलि वोऽव्यात् प्रविततदशलक्षं यद्द्विरण्डेशसंज्ञम् || ३-५२ || उदितमिहिरकान्तिः कल्पवह्निप्रकाशो जटिलशिरसि चन्द्रं मुण्डमालां च बिभ्रत् | त्रिशिखपरशुनागांश्चानलं भूतये वो विषमयवपुरब्जे स्यान्महाकालवर्णः || ३-५३ || मृगगतिरतिध्रूम्रो वायुबिम्बे स पायाद् ध्वमुसलगदाग्नीनादधद् वायवीयः | सकलभुवनमानश्चाटनः क्षुद्रकृत्ये - ष्वरुणवसनगन्धैर्भूषितो वो यकारः || ३-५४ || ज्वलदनलनिकाशो बह्निबिम्बेऽम्बुजस्थः सकलभुवनमानो मेषवाहः प्रसन्नः | अभयवरदशक्तिस्वस्तिकानादधानः सितवसनसुगन्धिः पातु युष्मान् भुजङ्गः || ३-५५ || कमलगतकरीन्द्रे योषिदापीतवर्णा कलमकनकवल्लीवज्रपाशान् दधाना | दिशतु धरणिबिम्बे भूषिता सर्वपीता धरणिविततिरिष्टं धारिणी स्तम्भिनी वः || ३-५६ || अमृतकिरणगौरी नक्रपङ्केरुहो वो धवलकमलपाशौ बिभ्रती वारिबिम्बे | विविधविषरुजार्तिं ध्वंसयन्ती विभूत्यै भुवनविततिरस्तु क्षीरपीयूषमूर्तिः || ३-५७ || धवलकमलहस्ता पुण्डरीकोपविष्टा विमलवसनगन्धैर्भूषिता हेमवर्णा | दशशतपरिमाणा हारिधम्मिल्लभारा प्रदिशतु बकवर्णास्याकृतिर्वो विभूतिम् || ३-५८ || शतमखमणिनीलः कूर्मवाहो द्विबाहुः कपिशवसनगन्धो वज्रपाशौ च बिभ्रत् | दशशतपरिमाणः क्षोभणो वोऽस्तु लक्ष्म्यै प्रहसितवदनेन्दुः श्वेतसंज्ञः प्रमत्तः || ३-५९ || शशधररुचिगौरो वज्रपद्माब्जपाशान् निधिकलशकरण्डे चक्रमप्यादधानः | सरसिजगतहंसे भूषितः कोटिमानो धनदपतिरभीष्तं यो भृगुर्वस्तनोतु || ३-६० || धवलवसनगन्धस्रग् जटी चन्द्रमौलि- र्हर इव लकुलीशो भूरिगौरस्त्रिणेत्रः | हरिणपरशुशूलैश्चान्वितो विश्वमानः शिवगिरितनयेन प्राणस्वात्मावताद्वः || ३-६१ || सुरपतिभवनाब्जे शङ्खवज्रारिपाशान् सृणिमुसलभुसृण्ठीखड्गघण्टाकपालम् | दधदवतु गजस्थः क्षेत्रपालेन्द्रदेवो भुवनविततपीतस्त्रीक्षणोऽन्त्यो द्विदंष्ट्रः || ३-६२ || धवलरुचिरवर्णा ब्राह्मणास्तेऽथ रक्ताः क्षितिभुज इह पीता ये विशो येऽपि कृष्णाः | वृषलकुलसजाता ह्यक्षराश्च स्वलिङ्गैः पुरुषयुवतिषण्डास्ते प्रतिश्लोकवेद्याः || ३-६३ || प्रत्यक्षरमूर्त्यधिकारः गुरव इह हि दीर्घा बिन्दुसर्गाभियुक्ता- स्तदुपरि विनिविष्टो युक्तवर्णोऽपि यस्य | स च गुरुरिति वेद्यः शेषितोऽस्माल्लघुः स्या- ल्लघुरयुगलमात्रः स्याद् गुरुश्च द्विमात्रः || ३-६४ || मयरसतजभाख्या नस्तथाष्टौ गणास्ते पृथगिह खलु हल्भिस्ते त्रिभिः स्युस्त्रिभिश्च | सकलगुरुमसंज्ञो यो गणः सोऽवनिः स्यात् प्रथमलघुयसंज्ञः स्याद् गणस्तोयमूर्तिः || ३-६५ || रगणमिति लमध्यं वह्निदैवं तु विद्यात् सगणमपि च वायुं सोऽन्तगुर्वक्षराढ्यः | तगणमपि खमाहुस्तस्य चान्ते लघुस्या- ज्जगणमपि च मध्ये स्याद् गुरुः सूर्यदैवम् || ३-६६ || प्रथमगुरुभसंज्ञः स्याद् गणः सोमदेवः सकललघुगणो द्यौर्नाभिधेयोऽष्टमः स्यात् | इति गुरुलघुभिन्नैरष्टभिर्व्याप्तविश्वै- र्लिपिपरिपठितार्णैः स्याद् गणैः शब्दसूतिः || ३-६७ || अनलसलिलवर्णा ये गणाः शत्रवस्ते पवनदहनखार्णा मित्रमन्योन्यमुक्ताः | सलिलधरणिसंज्ञास्तेऽपि मित्रं मिथः स्युः सलिलपवनखाख्या ये गणास्तेऽत्र मध्याः || ३-६८ || पुरुषयुवतिषण्डाः स्नेहिनः षण्डमध्याः पुरुषपुर्षयोषिद्योषितोऽन्योन्यदुष्टाः | सुहृदि सुहृदमर्णं वा गणं मध्यमं वा घटयतु स तु मन्त्रो वाचको देवतायाः || ३-६९ || मनुरपि विधिनैकः साधितो येन देवः स भवति सगणानां सिद्धिभाक् तन्मनूनाम् | किमु बहुविधमन्त्रान् वेत्ति यः साधयेद् वा स भवति शिवतुल्यस्तत्फलानां निधानम् || ३-७० || प्रियफलकटिरम्या श्रीप्रिया रात्रिरन्या खगकुलकटकस्त्रीपात्रगर्भार्णसंज्ञा | अभिहितलिपिवर्णानश्विनाद्येषु भेषु स्वरपरिणतियुग्मं पौष्णभे स्यान्नियोज्यम् || ३-७१ || लकारश्च | कुरुवृषदधिसंख्याः शोभनास्तारकाः स्यु- र्भयमृतिगददुःखं गोमिथोऽसंख्यभैः स्यात् | कृतमिह खलु यत् स्यान्नाम मातापितृभ्यां जननभमपि यत् स्यात् तद्द्वयस्यानुकूलम् || ३-७२ || फलगुरुरुरुशाणाः शर्मशर्वास्त्वजाद्या निगदितलिपिवर्णा राशयः शादयः स्त्र्याम् | जननभनिजनाम्नस्त्वादिवर्णाभियोगा- दभिमतमनुभेनाप्यादिवर्णेन शोध्यम् || ३-७३ || शुद्धायामवनौ सगोमयजलैरालिप्य तत्रालिखे- च्चक्रं षोडशकोष्ठकं तु परितः पङ्क्त्यैकया राशयः | विघ्नक्षेत्रपवास्तुवेशविधयः कोष्ठेषु मध्ये स्थितां- स्तानिष्ट्वा लिपिवर्णराशिघटनां मन्त्रात्मनाम्नोर्नयेत् || ३-७४ || एको वाप्यथ पञ्चमोऽपि नवमो राशेः स्वकाद् बान्धवो राशिः स्याद् दशमद्वितीयसहितः षष्ठो भवेत् सेवकः | रुद्राग्निस्वरसंख्यया यदि मतस्तन्त्रेष्वयं पोषकः स्याद् यो द्वादशमोऽष्टमः श्रुतिमितो मन्त्रः स्मृतो घातकः || ३-७५ || यो बन्धुर्भवति मनुः स रक्षतीमं सर्वार्थानपि वितनोति सेवकाख्यः | पुष्टिश्रीविभवयशांसि पोषकात्मा प्राणार्थानपि च निहन्ति घातकाख्यः || ३-७६ || ईशाद्यं तु चतुश्चतुष्पदलिपौ स्वाख्यादिवर्णे पदे ये सिद्धाः खलु ते द्वितीयपदगाः साध्याः सुसिद्धाः परे | वर्णा येऽप्यरयश्चतुर्थपदगास्ते मृत्युदुःखप्रदाः शिष्टास्ते त्वचिराच्चिराज्जपहुतैः सिध्यन्ति पाठादपि || ३-७७ || प्राक् साध्याख्यां साधकाख्यां च पश्चाद् धृत्वाष्टाभिस्तत्र शेषादृणं स्यात् | स्वाख्यावर्णैर्वर्धितैः साध्यवर्णैर्- हृत्वाष्टाभिस्तद्विलोमादृणं वा || ३-७८ || साधकाह्वयवर्णानां सह मन्त्राक्षरैस्तु यत् | सिद्धाद्यैर्गणनां कृत्वा ज्ञेयो मन्त्रांशकस्त्वयम् || ३-७९ || पश्चिमात् प्राग्गतं लेख्यं पङ्क्त्योर्दक्षिणवामयोः | मन्त्रनाम्नोर्यथा वर्णान् पृथक् तद्व्यञ्जनस्वरैः || ३-८० || नाम्नोर्मन्त्रस्य वा वर्णा विषमाः स्युर्यदा तदा | तत्तदक्षरमालेख्य समं यावत् प्रपूरयेत् || ३-८१ || ततः सिद्धादिभिर्हृत्वा ज्ञेयं प्राग्वत् फलादिकम् | पङ्क्तौ लिखेत् साधकसाध्यनाम्नो वर्गान् स्वरव्यञ्जनभेदभिन्नान् | हृत्वा त्रिभिः शात्रवमित्रमध्यान् विद्याच्च शत्रुर्यदि तं प्रजंह्यात् || ३-८२ || संहितोच्चारणात् प्राप्तं शोधनेष्वक्षरं त्यजेत् || ३-८३ || अधिकं चाप्यनुस्वारं जिह्वामूलं विसर्गकम् | त्यक्त्वैवं सोधयेन्मन्त्रान् यथोक्तं तत्त्वसागरे || ३-८४ || यथैवाद्याक्षरे शुद्धिं तथा सर्वाङ्गशोधनम् | कृत्वा कियन्तः सिद्धाद्या मन्त्रेऽस्मिन्निति चाङ्कयेत् || ३-८५ || सिद्धार्णाश्चतुरो यस्मिन् मन्त्रोऽसौ सिद्धनामभाक् | सिद्धहीनस्तु साध्याख्यः सुसिद्धो रिपुवर्जितः || ३-८६ || सुसिद्धहीनः शत्रुः स्याच्चतुर्धैवं प्रकल्पयेत् | सुसिद्धमन्त्रः स्यादन्ते सिद्धये स हि कामधुक् || ३-८७ || अशत्रुरादिसिद्धो यः सुसिद्धार्णादिको मनुः | अरिवर्णविहीनश्च सर्वकामप्रदो ह्यसौ || ३-८८ || यस्याद्यन्तगतः साध्यः कृच्छ्रसाध्यः स वै मनुः | आदावन्तेऽथवाद्यन्ते यस्यारिर्न तमभ्यसेत् || ३-८९ || स्वभ्यस्तोऽपि हिनस्त्येवं जन्मान्तरशतैरपि | सुसिद्धो यस्य चाद्यन्ते सोऽस्य चिन्तामणिर्मनुः || ३-९० || एवं विशोधयेन्मन्त्रान् यथोक्तं तत्त्वसागरे || ३-९० १/२ || प्रत्यक्षरं तु कथितं खलु मातृकायां रूपादिकं तदभियुक्तजपादिनार्थाः | सिध्यन्ति मन्त्रनिकुरुम्बविशिष्टवर्णै- र्युक्तैस्तु यद् भवति तच्च समस्तमूह्यम् || ३-९१ १/२ || इत्थं विशोध्य बहुधा प्रथमाक्षरं तन्- मन्त्रस्य शिष्टमपि वर्णगणं विचार्य | शुद्धाक्षरादिकमनुं तलिनेतरार्णं दद्याद् गुरुस्तदधिकारिविशेषयुक्त्या || ३-९२ १/२ || इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे स्वरोदयमातृकाप्रत्यक्षररूपादिकथनं नाम तृतीयः पटलः || अथ चतुर्थः पटलः मन्त्रास्त्रेधा स्त्रीपुमांसश्च षण्डाः स्वाहान्ताः स्युर्योषितो ये नमोन्ताः | ते षण्डाख्याः शिष्टमन्त्राः पुमांसः प्रोक्तं मन्त्रव्यापृतौ गौतमेन || ४-१ || पुंभिः कुर्याच्चाटवश्ये विषघ्नं स्त्रीभिर्मोहं चान्त्ययोत्सादनाद्यम् | शेषं सर्वं कर्मजातं तु षण्डैर् मन्त्रैः कुर्यादाशु तत्तत्फलाप्त्यै || ४-२ || ताराकाशावन्त्यवायवग्निवर्णा ह्याग्नेयाः स्युः सौम्यमन्त्रास्त्वतोऽन्ये | आग्नेयोऽपि स्यात् ससौम्यो नमोन्तः सौम्योऽपि स्यादग्निमन्त्रः फडन्तः || ४-३ || स्यादाग्नेयैः क्रूरकार्यप्रसिद्धिः सौम्यैः सौम्यं कर्म कुर्याद् यथावत् | सौम्याग्नेयास्तूभयैर्लक्षणैः स्युः कुर्यात् सर्वं कर्म तैः क्रूरसौम्यम् || ४-४ || स्वापोद्बोधौ तद्वदभ्यासकालं विद्यादेषां त्वासनं चारभेदात् | सौम्यानां स्यात् सौमयतोऽभ्यासकालस् त्वाग्नेयानां सौरतोऽभ्यास उक्तः || ४-५ || सौम्यः स्वापः सूर्यचारेऽथ सौम्ये त्वाग्नेयानां स्वाप उक्तोऽथ बोधः | द्विष्ठश्चारस्तुल्य एवोभयोः स्यात् सुप्तोऽभ्यासे बुद्धमात्रोऽपि नेष्टः || ४-६ || जापं कुर्यादुक्तकाले मनूनामुद्बन्धान् वा जप्यहोमक्रियादौ | आरभ्यैतान् पूर्वमभ्यासकाले मध्ये स्वापः कर्मणां नैव दुष्येत् || ४-७ || मन्त्रलिङ्गाधिकारः | षडङ्गो यो मन्त्रः स भवति सनेत्रो ह्यनयनो मनुः पञ्चाङ्गः स्यात् खलु यदुभयोरङ्गमनवः | पृथक् ते स्युर्नो चेत् क्वचिदपि च मूले नवदश- स्वरैः कुर्याद् दीर्घैरनृणयुगलैरङ्गरचनाम् || ४-८ || स्वैरर्चिर्भिर्यद्वदेवाप्रधृष्यः सूर्यो वाग्निस्तेजसाग्र्यः समर्थः | तद्वत् साङ्गैर्मन्त्रमूर्तिस्तदात्मा तद्युक्ताङ्गैः स्यात् समर्थोऽप्रधृष्यः || ४-९ || हृद् बुद्धिगम्यं हृअदयस्थ आत्मा स्याच्चेतनावान् हृदयेन मन्त्रः | यद् बुद्धिपूर्वं क्रियते नमोऽस्मै मुख्यं हृदङ्गं तत एव वेद्यम् || ४-१० || शिरस्तु मूर्तस्य मनोः प्रधानमङ्गं हि सर्वेशगुणार्थतुङ्गम् | स्वतो हि तस्माद् विषयापहारे स्वाहेति युक्तं शिरसोऽङ्गमुक्तम् || ४-११ || शिखा तु कर्माङ्गतया मनूनां यतो वषड्व्युष्टिकरं तदङ्गम् | अधृष्यतेजाः शिखया यदग्निर्- वषट्शिखायां विनियुज्यतेऽतः || ४-१२ || कचग्रहार्थग्रहणात् तु धातोः सङ्गृह्य देहं कवचं मनूनाम् | तेजस्तु हुं सर्वमरिष्टजातं निवारयेत् तत्कवचाय युक्तम् || ४-१३ || नेत्रेण सर्वं परिपश्यतीह मन्त्रः स्फुटं यं दृशि दर्शनाय | वौषड् भवेदङ्गमतस्तु नेत्रं नेत्रे तु सिद्ध्यै दृशि वौषडुक्तम् || ४-१४ || असूनदः पालयतीत्यतोऽस्त्रं धातोरसुक्षेपणवाचकार्थात् | अनिष्टमाक्षिप्य तु पाति मन्त्रं त्रैङ्पालनेऽस्त्रायफडित्यतोऽस्त्रम् || ४-१५ || पूर्वं गुरुर्योऽस्य मनोर्विधानं विज्ञाय संसाधितवानृषिः स्यात् | इच्छाप्रधानार्थकथां तु योगाच्- छन्दो भवेद् वर्णगतं यथावत् || ४-१६ || ददात्यभीष्टानवतीह दुःखाद् या देवता दैवतभावदानात् | सा देवताख्या मनुवाच्यवस्तु- स्वरूपिणी यत् कथितं प्रपञ्चे || ४-१७ || मन्त्रात्मिकायास्त्वथ देवताया मूर्तिर्हि सर्वो मनुवर्णपूगः | शक्तिस्तु तत्पूर्तिकरी चितिः स्याद् बीजाख्यमस्यैव तु जीवभूतम् || ४-१८ || तच्छन्दो मुनिरहितं जपेद् यदासौ तुच्छं वै दिशति फलं तु बीजशक्त्योः | अज्ञानाद् व्रजति मनुर्जडत्वमङ्गैर्- अन्यस्तैरसुरगणा हरन्ति जप्यम् || ४-१९ || शुद्धो विष्णुर्येन केन स्वरेण स्पृष्टो वह्निर्होमसंवर्तको वा | ठोपोवोमा (?) सोऽपि वामाक्षयुक्तो बीजं खड्गी सामरेशोऽपि मन्त्रे || ४-२० || सानन्तो वा वामपार्श्वं भुजादिर्वामाक्षाढ्यो वाथ मेषोधिसूक्ष्मौ | सामान्याः स्युः सर्वमन्त्रेषु बीजान्येतान्येवं यत्र नोक्तं तु बीजम् || ४-२१ || एकाक्षरस्य तु मनोर्न परं तु देवबीजं वदन्ति यदतः परतः पुरोक्तम् | शक्तिश्च नादसमबिन्दुरनिश्चिता चेद् बीजादजः परतरः खलु शक्तिरुक्ता || ४-२२ || राशेस्तथा साधकसाध्यनाम्नोर्नक्षत्रयोः सर्वमिहानुकूलम् | यो मन्त्र उक्तेन सिध्येत् सिध्येन्न मन्त्रोऽपि चिरेण वान्यः || ४-२३ || नामर्क्षराश्यादिकमानुकूल्यं मन्त्रेषु सप्तस्वनपेक्ष्यमेषु | हंसाष्टपञ्चाक्षरवह्नितारैः सावित्रिसञ्जीवनगोपकेषु || ४-२४ || लिप्यर्णानां संविभागेन योक्ता नक्षत्राणां विंशतिः सप्तयुक्ता | तत्संख्याः स्युर्देवताश्चापि वृक्षास्- तान् न छिन्द्याद् यत् स्वमन्त्रर्क्षवृक्षम् || ४-२५ || स्वायुर्वृद्ध्यै वर्धयेत् तं तु रक्षेद् वन्देदेनं सिद्धये मन्त्रवृक्षम् | मन्त्रर्क्षेशां देवतां चार्चयेत् तां ये वर्गोत्थास्तान् ग्रहांश्च स्ववारे || ४-२६ || दस्रो यमोऽथ दहनः कथितः प्रजेशः सोमः शिवादितिसुरेड्यभुजङ्गमाश्च | पित्रर्यमाख्यभगभास्करविश्वकर्म- प्राणा महेन्द्रदहनावथ मित्रसंज्ञाः || ४-२७ || इन्द्रस्तथापि निरृतिः सलिलं च विश्वे चक्रायुधोऽथ वसवो वरुणोऽप्यजाङ्घ्रिः | ख्यातोऽहिपूर्वपदबुन्धिरथोऽत्र पूषा ख्याता क्रमेण भगणस्य तु देवतामी (?) || ४-२८ || कारस्करामलकपूर्वमुदुम्बराख्या जम्बूस्तथैव खदिराप्यथ कृष्णवंशौ | सास्वत्थनागतरुरोहिणकाः पलाशाः प्लक्षस्ततस्त्वमितिपूर्वकबष्ठसंज्ञः || ४-२९ || बिल्वार्जुनावपि विकङ्कतकेसराख्या वृक्षास्तथा शबरसर्जकवञ्जुलाह्नाः | उक्ताः क्रमेण पनसार्कशमीकदम्बा भानां तु चूततरुनिम्बमधूकसंज्ञाः || ४-३० || एभ्यः सदेवताभ्यस्तु नक्षत्रेभ्यः समुद्गताः | तिथयः प्रतिपत्पूर्वाः पक्षयोः शुक्लकृष्णयोः || ४-३१ || सोमवृद्धिक्षयवशाद् द्विधा स्युस्तिथयस्तु ताः | तिथीनां क्रमशस्त्वासां देवताः प्रभवन्ति याः || ४-३२ || अग्निर्दस्रावम्बिकाविघ्ननागाः स्कन्दः सूर्यो मातरश्चापि दुर्गा | आशा श्रीदश्चाथ वैकुण्ठधर्मौ रुद्रश्चन्द्रश्चाथ पित्र्या कुहूः स्यात् || ४-३३ || सराशिताराल्लिप्यर्णतिथिभ्यः शक्तिजृम्भितात् | करणान्यभवन् सप्त बवादीनि तु पक्षयोः || ४-३४ || बवं च बालवं चैव कौलवं तैतिलं तथा | गरजं वणिजाख्यं च विष्टिश्चैव तु सप्तमी || ४-३५ || पशवः सप्त सिंहाद्या बवादीनां तु योनयः | सिंहव्याघ्रवराहाश्च स्वरेभच्छागकुक्कुराः || ४-३६ || देवताः सप्त शक्राजमित्रार्यमधराश्रियः | यमश्च करणानां स्युः पूज्यास्तत्करणेषु ते || ४-३७ || एवं हि मातृकावर्णविवृतिः संप्रकीर्तिता | गौतमीये यथा प्रोक्तं मन्त्रव्याकरणेषु च || ४-३८ || प्रपञ्चसारे च यथा यथोदग्गार्ग्यभाषितम् | मातृकावर्णविततिर्विश्वमेतदिति स्फुटम् || ४-३९ || विन्दोरग्रे रवोऽभूदथ रवजनिताः षोडशादौ स्वराः स्युः काद्यर्णाः पञ्च वर्गास्त्वथ खलु यमुखा धातुभिः पञ्चभूतैः | तन्मात्राभिस्तथाक्षैः प्रकृतिरथ गुणैर्विश्वरूपा नसंज्ञा शक्तिर्वागीश्वरीयं ननु जगदखिलं यत् प्रपञ्चाभिधेयम् || ४-४० || इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे मन्त्रलिङ्गादिकं नाम चतुर्थः पटलः || अथ पञ्चमः पटलः अथ मन्त्रजपार्चनाहुताद्यैर्विविविधानामपि कर्मणां तु युक्त्या | पृथगत्र हिताय साधकानां कथयिष्ये निखिलेन साधनाद्यम् || ५-१ || कथिताः खलु तत्त्वसागरादौ विधयः पल्लवयोगरोधनाद्याः | हरितश्च सदेशकालयुक्त्या विविधद्रव्यदिनासनादिकुण्डैः || ५-२ || अपि पल्लवयोगरोधनानि ग्रथनं संपुटकं विदर्भणं च | इति कर्मसु योजनं हि षोढा मनुवर्णैः सह साधकार्णयुक्त्या || ५-३ || मनुरन्तनिविष्टसाधकाख्यः कथितः पल्लवमादितस्तु योगः | उभयत्र मनोस्तु नामरौधौ ग्रथनेऽर्णान्तरितं द्वयोः क्रमेण || ५-४ || उभयत्र तु साधकस्य मन्त्रो विनिविष्टो यदि संपुटं तदाहुः | मनुवर्णयुगेन साधकार्णं यदि चैकं क्रमशो विदर्भणं स्यात् || ५-५ || ग्रहभूतपिशाचनिग्रहादौ विषसंहारविनाशमारणेषु | अरिचाटनसादनेषु तेषामपि विद्वेषविधौ च पल्लवं स्यात् || ५-६ || परमोहनकर्मणां तु रोधः परसंस्तम्भनकेषु योगमाहुः | जनशीलनकेषु संपुटं स्याद् वशकृच्छान्तिकपुष्टिदो विदर्भः || ५-७ || पल्लवाद्यधिकारः वृषशान्तिकपौष्टिकेषु पूर्वा त्वनलाशा खलु चाटने ज्वरे च | ननु मारणमोहयोर्यमाशा कथिता द्वेषणकेषु राक्षसाशा || ५-८ || जलदिग् जलवृष्टिदाहशान्त्यां भ्रमणस्तम्भनयोश्च मारुताशा | शिववाग्यजनेषु वश्यकृत्ये धनदाशा कथितेशदिग् विमुक्त्यै || ५-९ || शिवदक्षिणमूर्तिपश्चिमाशा मुखशर्वालयगोष्ठपुण्यनद्यः | परदेवहुताशविप्रगेहैर्वनशैलाः खलु शान्तिकेषु देशाः || ५-१० || वटपिप्पलबिल्वमूलदेशाः प्रथमोक्ताः शुभपौष्टिकेषु शस्ताः | अपि कर्षणवश्यकर्मणोस्ते खलु शस्ताः स्वगृहादिकं च रम्यम् || ५-११ || परिशोध्य भुवं तु शल्यहीनां गतलोष्टात्ममषीतुषादिदोषाम् | सिकतासममृत्स्नयाभिपूर्णां मुकुराभामुदगिन्द्रदिक्प्लवान्ताम् || ५-१२ || अभिपूजितवास्तुपधिदैवां सुरभेः सूतकरोगवर्जितायाः | गगनात्तनवेन गोमयेनाप्युपलिप्याम्बरगालितैश्च तोयैः || ५-१३ || प्रकृतानुगुणं तु तत्र कुर्यात् परिशुद्धेष्टकदारुबल्बजाद्यैः | अपि यज्ञियसाधनैर्यथेष्टं मठशालादिकमिष्टदण्डमानम् || ५-१४ || परमाणुरजः कचश्च लिक्षाः सहयूकाश्च यवाः क्रमाष्टसंख्याः | यवकोटरकोष्ठकं तु तिर्यक् खलु मानाङ्गुलमिष्यते स्म तन्त्रे || ५-१५ || प्रवदन्ति वितस्तिका द्विषट्कैरिति मानाङ्गुलकैर्वितस्तियुग्मम् | कथयन्ति हि किष्कुसंज्ञहस्तं निपुणा हस्तचतुष्टयं च दण्डम् || ५-१६ || धनुरित्यपि दण्ड एव तेषां धनुषामष्टकमुच्यते हि रज्जुः | मुरतारसुराङुलैः प्रजेशं सधनुर्मुष्टि धनुर्गृहे च विद्यात् || ५-१७ || ऋजुमध्यमपर्वमध्यमायास्त्विह मात्राङ्गुलमिष्यते तदान्यत् | भवनादिषु पूर्वमङ्गुलं स्यात् खलुं मात्राङ्गुलमेव साधनेषु || ५-१८ || गृहविस्तृतिदैर्घ्यदण्डपूगं त्रिगुणं तद्वसुभक्तशिष्टदण्डाः | क्रमशो ध्वजधूमकेसरिश्ववृषभाः स्युः स्वरहस्तिवायसाख्याः || ५-१९ || ध्वजसिंहवृषेभलक्षणाः प्राग्यमनीरेशधनेशदिक्षु शालाः | अपि मध्यगृहे समे च वृत्ते सममेतच्छुभदण्डमेव कुर्यात् || ५-२० || अपि चाटनमारणादिकानामशुभानामिह कर्मणां प्रयोगे | ननु वायसगर्दभश्वधूमैरधिदण्डं भवनदिकां विधेयम् || ५-२१ || विषवृक्षपरेतभूमिकाष्ठैरशुभैः कण्टकिभिश्च तत्र शालाः | यमवह्निनिशाटदिक्प्लवा भूर्निखिलक्षुद्रविधौ विशेषरौद्राः || ५-२२ || विपिनानि चिता स्वयंभुवैकं शिवलिङ्गं भवनं करालिकायाः | महिषासुरमर्दिनीनिवासोऽप्यभिचारेषु निरालयाश्च शस्ताः || ५-२३ || अचलाश्च विविक्तनिर्जला ये मुसलस्त्रीशिशुशब्दवर्जिताः स्युः | अशुभेषु शुभेषु चापि देशाः परिहीणान्त्यजरासभाश्वशूर्पाः || ५-२४ || कृकवाकुविलालजुष्टदेशे जपहोमादि कृतं फलाय न स्यात् | विधवा विकलाश्च पापिनो वाप्यृतुमत्यश्च निहन्ति कर्म सर्वम् || ५-२५ || शुभकर्मसु कन्यकाश्च सत्यः शुभलक्ष्मप्रबराङ्गनाश्च विप्राः | ध्वनयोऽपि गवाश्वकुञ्जराणां फलदाः स्युः सह शङ्खवाद्यगीतैः || ५-२६ || अभिचारविधौ तु कन्यकाद्या विधवाद्याश्च गवाश्ववेदघोषाः | अपहन्युरिमे प्रयोगशक्तिं सुतरां माङ्गलिकानि तत्प्रदेशे || ५-२७ || विजनेषु विशेषतोऽभिगुप्तेऽनतिदूराद् विविधाप्तरक्षिवर्गैः | विपिनादिपुरोक्तलक्षणेऽन्यैर्यददृष्टे विदधातु मारणाद्यम् || ५-२८ || ह्रदिनीनदसह्यविन्ध्यशैलास्त्वपि रत्नाकरगा विशिष्टनद्यः | उदधेः सलिलं च हन्युरेते यदि मध्ये स्युरलं प्रयोगशक्तिम् || ५-२९ || प्रकृतार्थविशेषकर्मणामप्यभिरूपे सुविचारितप्रदेशे | यदसौ विदधाति बीजमुप्तं ननु देशानुगुणं फलाय रोहेत् || ५-३० || देशाधिकारः | विदधीत वशीकरं वसन्त परविद्वेषणकं निदाघकाले | वर्षास्वरिचाटनप्रयोगं शिशिरे मारणकर्म चेत् करोतु || ५-३१ || शरदेव हि शान्तिके प्रशस्ता खलु हेमन्तकृतानि पौष्टिकानि | ननु शान्तिकपौष्टिके हिमे वा मधुमासेऽपि तथा परे वदन्ति || ५-३२ || उदयात् परतो रवेस्तु यामाविह हेमन्तवसन्तकौ क्रमोक्तौ | प्रहरावधि पश्चिमौ निदाघाह्वयमासावुदितौ दिनावसानात् || ५-३३ || मिहिरास्तमयात् तु विंशतिः स्याद् घटिकाः शारदकालसंज्ञितोऽसौ | परतो घटिकास्तु शैशिरः स्यादुदयात् प्रागिति तत्त्वसागरोक्तम् || ५-३४ || कालाधिकारः | सिततण्डुलभक्तपञ्चगव्यैस्तिलपुष्पाक्षतशुक्लगन्धयोगैः | ननु नित्यविधौ पलाशदूर्वायवशालिप्रमुखाश्च धान्यवर्गाः || ५-३५ || अथ शान्तिककर्मणां विशिष्टे हवनादौ च यथोदितं समिद्भिः | विदधीत शमीवटाम्रनित्याखदिरोदुम्बरमार्गबोधिबिल्वैः || ५-३६ || दधिमाक्षिकदुग्धपायसाज्यैश्चरवो बिल्वतिलाश्च शालिभेदाः | फलमोदकशर्करोक्तपुष्पैः समिधः स्युर्विविधाश्च पौष्टिकेष्टाः || ५-३७ || लवणस्तिलसर्षपौ यथोक्ताः समिधः पुष्पफलानि पुत्तलीकाः | मधुराणि सजन्मवृक्षहेमैः स्युरमी चन्दनरोचने च वश्ये || ५-३८ || मधुपेन्द्रलते सहा च भीता हरिपत्नी हरिलङ्घितासुभद्राः | मुसली गिरिकर्णिमोहनीकाः सुरताल्युत्पलमादलाब्जदूर्वाः || ५-३९ || गजदानशिले सितार्कमूलं कनकं क्षीरनगाः स्वदेहजानि | उदितानि हि वश्यकर्षणार्थं जतुभूर्जादि च तत्र तन्त्रगीतम् || ५-४० || तुषसर्षपकाककाकवैरिच्छददण्डीविषनिम्बमातुलुङ्गैः | महिषाश्च जलेऽप्यलक्तसारं ननु विद्वेषणकर्मवस्तु गीतम् || ५-४१ || फणिसूरणचित्रलोणपिण्डैः कनकाम्भोगृहधूम्रकोषणैर्यत् | परिपिष्टमिदं विषं वदन्ति द्विषतां द्वेषणमारणक्रियेष्टम् || ५-४२ || पिचुमन्दतरुस्थकाकनीडं वसनाङ्गारमृदः श्मशानलब्धाः | नगदारुकमर्कटीकदण्डीनृकचास्थ्यादि च वस्तु चाटने स्यात् || ५-४३ || भ्रमणे च पिशाचवृक्षनिम्बावसिस्तोन्मत्तकलाङ्गलीशणैश्च | रुजिचित्रकदण्डिशाल्मलाद्यैर्विषभल्लातविभीतकैश्च कुर्यात् || ५-४४ || विषवृक्षविषाजसर्पिषोऽहीन् नृकपालास्थि फलानि चैत्यकाष्ठैः | वसनान्यसितानि सर्षपाअद्यं नखकेशाङ्घ्रिरजांसि साध्यजानि || ५-४५ || द्विकशात्नवकाकरक्तपीतैः कुसुमैर्लोहितपुष्परक्तगन्धैः | अपि जन्मनगादिपुत्तलीभिः कटुकोष्णैरपि मारणं विधेयम् || ५-४६ || बुससर्षपपीतगन्धपुष्पैः कटुकोष्णाम्बुनिशाजमाहिषाणि | कुपटच्चरकोकिलाक्षचक्रीमृदिति स्तम्भनकृत्यसाधनानि || ५-४७ || द्रव्याधिकारः | तपनाहिनगात्मभाश्विनीनां तिथयोंऽशा दिवसाः शुभग्रहाणाम् | हरदस्रहरीन्द्रसूर्यपूषादितिदैवानि च भानि शान्तिकेस्युः || ५-४८ || तिथयो महिषारिविघ्नयाम्याः शशिजीवांशदिनोदयादिकं च | गुरुविष्णुशशाङ्कभैर्भगर्क्षं कथितं पौष्टिकसिद्धिदं यथावत् || ५-४९ || नवमी हरिमातृदिग्गुहानां तिथयः शुक्रकुजार्कवासराश्च | रवितिष्ययुताश्च सिद्धयोगाः कथिताः संवननेषु कर्षणे च || ५-५० || नवमी शशिमातृवह्निदैवास्तिथयः शुक्रकुजार्कवासराद्यम् | यमवह्निहराहिदैवपूर्वाः खलु विद्वेषणकर्मसिद्धिदाः स्युः || ५-५१ || असिताहनि चासितप्रदोषोऽप्यसिताष्टम्यथ तच्चतुर्दशी च | हरवह्नियमाहिवायुतारास्त्वखिलोच्चाटनकर्मसिद्धिदाः स्युः || ५-५२ || असिताथ चतुर्दशी कुहूरप्यसिताष्टम्यसितार्कभौमवारैः | कुलिकस्थविरे यमाम्बुभे वा कुजमन्दाभ्युदयाश्च मारणे स्युः || ५-५३ || द्विषतोऽष्टमराशिनैधनर्क्षेष्वथ वैनाशिकमार्गसंख्यमानि | कुजमन्ददिनोदयादियोगैरभिचर्यासु भवन्ति सिद्धिदानि || ५-५४ || कुजशुक्रबुधेन्दुसूर्यसौम्या भृगुजारौ गुरुमन्दसौरिजीवाः | क्रमशोऽश्वयुजादिभाङ्घ्रिपास्ते खलु मेषादिकराशिपाश्च ते स्युः || ५-५५ || कुजमास्करजीवमन्दशुक्राः बुधशुक्रार्कजसौम्यचन्द्रभौमाः | धिषणोऽप्यधिपास्त्वजादि सिंहाद्यपि चापादिषु राशिषु त्रिधैयम् || ५-५६ || गुरुमन्ददिनेऽथ जीवमन्दांशकनक्षत्रतदंशके सरिक्ते | स्थविराख्यमुदाहरन्ति शस्तं रिपुरोगार्णविनाशनप्रयोगे || ५-५७ || दिवसं प्रविभज्य चाष्टधान्त्यप्रथमौ मोक्ष्यति तद्दिनग्रहांशौ | प्रहरार्धभुजौ ग्रहाः षडन्ये क्रमशोऽसो गुलिकोऽत्र यः शनेः स्यात् || ५-५८ || जननर्क्षकतोंऽशकादशीतेरधिको यस्य तु योऽष्तमोंऽश उक्तः | स विनाशकसंज्ञको विनाशी निजभात् सप्तमभं तु नैधनाख्यम् || ५-५९ || निजभाद्रवितोदधिग्रसंख्याः शुभताराः शुभकर्मणां प्रशस्ताः | शुभकर्म करोतु रागधामा सधनैकादशसंख्यया स्वराशेः || ५-६० || दिनाधिकारः | न च यानगतो न वाहनस्थो न च यन्त्रस्थलगो न वाशुचिः सन् | विषयेष्वभिषक्तमानसो वा जपहोमादिकृतं फलं लभेत् || ५-६१ || अतिनीचमपीह नोच्छ्रितं वा न च शुद्धेतरचर्मकम्बलाढ्यम् | अशुभाङ्घ्रिपजं च भिन्नदग्धं नृजलोच्छिष्टमलाक्तमासनं स्यात् || ५-६२ || कुशदर्भकृताः शुभाश्च बृस्यः फलकाः पुण्यरूद्भवा विशालाः | सकषायतरक्षुचर्म चैणं त्वपि शस्तानि सुलोहदन्तजानि || ५-६३ || सितशुद्धविधौतवाससा + समवास्तीर्णविशङ्कटासनानि | प्रभवन्ति हि सौम्यकर्मसिद्ध्यै विषवृक्षादिकृतान्यसौम्यकृत्ये || ५-६४ || उपविश्य तु विष्टरेऽथ जान्वोर्विवरेऽङ्गुष्ठनिपीडनं विधाय | ऋजुमध्यगलेक्षणाग्रकायो भवति स्वस्तिकमासनं निविष्टम् || ५-६५ || चरणाग्रयुगं त्वथोपरिष्टादधिरोप्योरुयुगस्य मूलदेशे | उपविश्य पुरेव पद्मसंज्ञं कथितं तद्विपरीततस्तु भद्रम् || ५-६६ || अधिरोप्य तु दक्षिणाङ्घ्रिमूरावथ सव्ये चरणे तु दक्षिणोरुम् | अधिरोप्य पुरेव सूपविष्टो यदि योगासनमिष्टदं तदाहुः || ५-६७ || वृषणे तु निगृह्य वामजङ्घापदगुल्फे त्वधिरूढसस्फिगूरुः | उपरिस्थितदक्षिणोरुजानुः खलु योगी स तु गोमुखासनस्थः || ५-६८ || विनिवेशितजिह्मदक्षिणाङ्घ्रिः फलकादावुपविश्य वामपादम् | अवनौ विनिधाय चोर्ध्वजङ्घं ननु तत् स्वस्तिकमर्धपूर्वमाहुः || ५-६९ || उपविश्य तथासने तु पादौ भुवि संस्थाप्य मिथो निबद्धजङ्घौ | समतोरणजानुरूढहस्तो यदि वीरासनयोगपट्टनद्धः || ५-७० || स्थित एव पदद्वयेन भूमौ फलकाद्यं च विना स चेन्निविष्टः | समतोरणवत् स्थितोरुजङ्घो भवतीहोत्पुटिकं च कुक्कुटं तत् || ५-७१ || मरुतां विजये तथेन्द्रियाणां भवमुक्तौ च सुधारणे समाधौ | कमलासनमिष्टमत्र भद्रं हितमुक्तं खलु नित्यपौष्टिकादौ || ५-७२ || कथितं खलु शान्तिकेषु कर्मस्वखिलं स्वस्तिकमेव चाभिषेके | अपि शान्तिकजप्यहोमपूजास्वथवा स्वस्तिकमर्धपूर्वमिष्टम् || ५-७३ || सकलीकरणे निजैक्यदेवेष्वभिजप्येषु समाधिहंसयोगे | परमार्थनिरूपणेषु चेष्टं खलु योगासनमग्रतो गुरुश्चेत् || ५-७४ || पृतनाविजये च तन्निरोधेष्वपि संस्तम्भनभूतनिग्रहादौ | अपि संवननेषु कर्षणे वा ननु वीरासनमुक्तमाशुसिद्ध्यै || ५-७५ || कथितं खलु कुक्कुटं रिपूणां रुचिविद्वेषणचाटनभ्रमेषु | अथ मारणकेषु पार्ष्णिसंज्ञं विदितं वासनमर्धकुक्कुटं तत् || ५-७६ || विजये मरुतां स्वदोषशान्त्यै पृतनास्तम्भविधौ च गोमुखं वा | प्रमदाजनकर्षणेषु चाब्जं विजितं यद् विदितं गुरुपदिष्टम् || ५-७७ || विजयेन यथैवमासनानां फलमेकाग्रतया मनःप्रसादः | मन एव हि सर्वकारणं तत् स्ववशं चेद् विजितं हि किं न सर्वम् || ५-७८ || आप्यं मण्डलमुच्यतेऽत्र पुरतो यत् तत्र शान्त्यादिकं भौमं वाखिलनित्यपौष्टिकविधौ शस्तं त्वथो मारुतम् | द्वेषोच्चाटनकेषु संवननकेऽप्याग्नेयमाकर्षणे संस्तम्भे खलु भौममैन्द्रमथवा स्याच्छान्तिके पौष्टिके || ५-७९ || मारणं तु विदधीत वायुना वेष्टितानि कुलिशाङ्कमण्डले | वह्निसंपुटषडश्रकेऽथवा शान्तिकान्यपि वशीकराण्यपि || ५-८० || आसनाद्यधिकारः | विज्ञायैतदशेषमेव बिधिना विद्याविशिष्टाद् गुरो- स्तत्तत् कर्म समादधीत नियतं संसिद्धमन्त्रात्मवान् | यद् यत् स्वार्थपरार्थकारणतया कृत्यं भवेत् साधकः कृत्वा तत् फलमश्नुते स्म भुवने संजाततत्प्रत्ययः || ५-८१ || इति श्रीमदीशनशिवगुरुदेवपद्धतौ तन्त्रसारे साधनपटलः पञ्चमः | अथ षष्ठः पटलः अत्राग्निकुण्डानि च मण्डलानि प्रत्येकशस्तान्यथ तेषु तेषु | तन्त्रेषु यानि प्रथितानि सम्यक् संक्षिप्य वक्ष्यामि यथाप्रधानम् || ६-१ || वेदाश्रकं शान्तिकपौष्टिकादौ वृत्तं च योनिप्रतिमं हि वश्ये | आकृष्टयेऽश्वत्थदलं तु कुण्डं स्तम्भेऽष्टकोणं भमणे षडश्रम् || ६-२ || वज्राङ्ककोणत्रिषडश्रकुण्डे स्यातां द्विषन्मारणचाटनादौ | सर्वाणि कुण्डानि हरित्सु कुर्याल्लिङ्गप्रतिष्ठासु च देवतानाम् || ६-३ || प्रसादे मण्डपे वापि गृहे वा यत्र कर्म तत् | क्रियते तत्र संशुद्धे स्थले गव्योपलेपिते || ६-४ || मध्येऽत्र सूत्रं वरुणेन्द्रदीर्घं निवेश्य चास्फाल्य तु तस्य मध्ये | बिन्दुं विधायापरपूर्वयोस्तदथाङ्कयेत् सूत्रवशात् समानम् || ६-५ || पुनस्ते सूत्रखण्डे तु समं भित्त्वाङ्कयेदपि | बिन्दोस्तु पूर्वापरमध्यमाङ्कैर्मितेन सूत्रेण तदाहितेन | बिन्दोः सयाम्योत्तरदिक्समाङ्कभ्रमैः समालिख्य तु मत्स्ययुग्मम् || ६-६ || तयोर्निधाय सूत्रं स्याद् दक्षिणेनोदगायतम् || ६-७ || इत्थं ब्रह्माह्वयं सूत्रमुदक्सूत्रं च साधयेत् | क्षेत्रार्धमानेन तु बिन्दुसंस्थश्चतुर्दिशं सूत्रवशाद् यथेष्टम् | अङ्कान् विधायाथ तदङ्कयुग्मात् सूत्रद्वयात् स्युः खलु कोणमत्स्याः || ६-८ || तेषु मत्स्येषु परितो दिक्षु सूत्रैर्निपातितैः || ६-९ || चतुरश्रं भवेत् क्षेत्रं चतुष्कोष्ठं समं शुभम् | सर्वमण्डलकुण्डादेः सामान्योत्पत्तिकारणम् || ६-१० || चतुरश्रसाधनम् | कुण्डं प्रशस्तं चतुरश्रमादावश्वत्थपत्रं च तथार्धचन्द्रम् | तद्वत् त्रिकोणं त्वपि वर्तुलं स्यात् षट्कोणकं पद्ममथाष्टकोणम् || ६-११ || रत्निमात्रं शातार्धे स्याच्छतहोमे त्वरत्निकम् | सहस्रे हस्तमानं स्याद्युते च द्विहस्तकम् || ६-१२ || लक्षे चतुष्करं कुण्डं दशलक्षे तु षटकरम् | कोटिहोमेऽष्टहस्तं स्याद् यथा भोजेन्द्रपद्धतौ || ६-१३ || सर्वाणि कुण्डानि यथोक्तमानादायामविस्तारसमानि तानि | स्वातं तु विस्तारसमं विधेयं तिस्रः क्रमाच्चोपरि मेखलाः स्युः || ६-१४ || समं स्यात् सर्वतः खातं खातोपरि चतुर्दिशम् | एकाङ्गुलं परित्यज्य कुर्यात् तिस्रोऽथ मेखलाः || ६-१५ || स्त्निप्रमाणे खलु मेखला स्यादाद्याङ्गुलाभ्यामपराङ्गुलेन | अर्धाङ्गुलाद्या त्वथवा त्वरत्नौ त्रिद्व्येकमात्राङ्गुलकैर्विधेया || ६-१६ || अत्र भोजराजः कुण्डहस्तप्रमाणस्याद्या द्व्यङ्गुला द्वितीयाङ्गुलेनार्धाङ्गुलेन च तृतीया अरत्निप्रमाणस्य त्र्यङ्गुलद्व्यङ्गुलाङ्गुलमाना इति | हस्तकुण्डे मेखलाः स्युश्चतुस्त्रिद्व्यङ्गुलाः क्रमात् | षट्चतुस्त्र्यङ्गुलैः कुर्याद् द्विहस्तेऽपि यथाक्रमम् || ६-१७ || चतुष्करे त्वष्टकषट्चतुष्कैः षड्ढस्तके चापि दशाष्टषड्भिः | स्युरङ्गुलैरष्टकरेऽपि कुण्डे ताः षोडशद्वादशकाष्टसंख्यैः || ६-१८ || सर्वाः सर्वेषु कुण्डेषु विस्तारोच्छ्रयतः समाः | परितः स्वसमायामा निम्नोन्नतविवर्जिताः || ६-१९ || अत्र भोजराजः क्रमेण सर्वकुण्डेषु तिस्रो मेखलाः कुण्डानुरूपेण विधातव्याः इति | कुण्डस्य पश्चिमे योनिं कुर्याद् दक्षिणतोऽपि वा | मध्यतो मेखलानां तु सर्वासामुपरि स्थिताः || ६-२० || सूर्याङ्गुलायामवती तु योनिरामूलतोऽग्राद् वसुवेददस्रैः | विस्तारतः स्यात् क्रमशोऽङ्गुलोच्चा द्राङ्निर्गताग्रापि च रत्निकुण्डे || ६-२१ || अरत्न्यादिषु कुण्डेषु द्व्यङ्गुलं द्व्यङ्गुलं पृथक् | क्रमादायामविस्तारवृद्ध्या योनिर्विधीयते || ६-२२ || अत्र भोजराजः एवं प्रथमकुण्डस्य | शेषाणां द्व्यङ्गुलवृद्ध्या योनिर्विधातव्ये ति | मञ्जर्यां च हस्तमात्रकुण्डस्य तालायता जलपतेर्दिशि संस्थिता स्या- दश्वत्थपत्रसदृशी क्रमशोऽथ निम्ना | नाभिर्दशङ्गुलषडङ्गुलतः क्रमेण विस्तारतश्च चतुरङ्गुलगोलकाग्राः || इति च | चतुरश्रं तु वा वृत्तं कुण्डं नित्ये च शान्तिके | सार्वकामिकमित्यन्ये चतुरश्रं च वर्तुलम् || ६-२३ || श्रुत्येकांशं तु सीम्नो बहिरपि पुरतोऽथाङ्कयित्वाम्बुनाथे तन्मानात् सूत्रमन्तर्निहितमुभयतः कोष्ठयोर्भ्रामयित्वा | मध्याद्यन्यस्य कर्णान्तिकमपि परतः कोणयोः पूर्वचिह्ने सूत्रे त्वास्फाल्य योनिप्रतिममपि भवेत् कुण्डमश्वत्थपत्रम् || ६-२४ || चतुरश्रं युगांशांशं कृत्वान्त्यं चोत्तरे त्यजेत् | भागं त्वनेन प्राक्प्रत्यग्बहिरङ्कौ निधाय तु || ६-२५ || तद्वद् दक्षिणतो मध्यस्थितसूत्रभ्रमाद् द्वयोः | अर्धचन्द्रसमाकारं कुण्डं भवति शोभनम् || ६-२६ || वेदाश्रे चतुरंशके भुजमिते प्रागंशमाप्याद् बहिः क्षिप्त्वा मध्यमवारुणाङ्कनिहिते सूत्रे द्विधा भ्रामिते | स्यातां द्वौ शफरौ तयोश्च पुरतश्चाङ्केऽथ सूत्रत्रयं क्षिप्त्वा तत्समखाततो भवति तत् कुण्डं त्रिकोणाह्वयम् || ६-२७ || षष्ठांशं पूर्वनिहितं गृहीत्वा नैरृतस्थितम् | वायव्यान्ते च सूत्रे द्वे क्षिप्त्वा वा स्यात् त्रिकोणकम् || ६-२८ || मध्यबिन्दुस्थितं सूत्रं प्राग्भुजाद् द्व्यङ्गुलं बहिः | परिभ्रम्य भवेत् कुण्डं वर्तुलं तत् सुशोभनम् || ६-२९ || बाह्यस्थं षष्ठमंशं शतमखवरुणाशाश्रितं वेदकोणे मध्ये संस्थाप्य सूत्रं सममिह तु तयोर्भ्रामयित्वा तु बाह्ये | चत्वारस्तत्र मत्स्यास्तदनु धनददिग्दक्षिणस्थे च सूत्रे तत्रस्थेष्वेषु चिह्नेष्वथ समपतितैः स्यात् षडश्रं हि कुण्डम् || ६-३० || वृत्तकुण्डेऽब्जपत्राणि कुर्यात् तन्मेखलोपरि | कुण्डार्धमायतान्यष्टौ मध्ये तत्कर्णिका भवेत् || ६-३१ || पद्मोक्तलक्षणेनैवं कृत्वा स्यात् पद्मसंस्थितिः | आदित्याङ्गांशमन्तर्बहिरिह परितो दिक्षु सम्भ्राम्य ताभ्यां द्वाभ्यां मत्स्यौ भवेतां दिशि दिशि पतितैस्तेषु सूत्रैर्यथावत् | कुण्डं स्यादष्टकोणं सुरुचिरमथवाप्यर्धदिक्सूत्रकोणा- च्छिष्टाप्यैन्द्राच्छरांशात् कृतशफरयुगाज्जातमीनाष्टकैर्वा || ६-३२ || क्षेत्रे त्रिपञ्चाङ्गुलमात्रवृत्तं त्रिभिस्त्रिभिश्चाङ्गुलकैर्विभज्य | रेखांशकान् पञ्चदशात्र कुर्यात् कोणान्तराणि त्रिभिरंशकैः स्युः || ६-३३ || स्थित्वा तु बिन्दावथ पञ्चधास्मिन् सूत्राणि सूर्याङ्गुलमायतानि | दत्त्वाश्रिमध्येन समं विभक्तैः सूत्रैर्हि कोणद्वयसन्धयः स्युः || ६-३४ || बिन्दोस्तु कोणान्तगसूत्रमानात् संभ्राम्य तत्क्षेत्रचतुर्थभागात् | बिन्दुस्थसूत्रभ्रमणं विधाय स्युः सन्धयः पञ्च तथात्र सूत्रैः || ६-३५ || पञ्चकोणकुण्डाधिकारः | चतुरश्रं तु संसाध्य द्व्यष्टधा विभजेत् पुनः | षट्पञ्चाशच्च कोष्ठानां द्विशतं चात्र वै भवेत् || ६-३६ || षण्णां षड्भिस्तु कोष्ठैर्लिखतु सरसिजं मध्यदेशेऽस्य बाह्ये पङ्क्त्या पीठं च पीठाद् बहिरपि परितः पङ्क्तियुग्मेन वीथीम् | तद्बाह्ये पङ्क्तियुग्मे दिशि विदिशि तथा द्वारकण्ठोपकण्ठाद् गण्डांश्चैवोपगण्डान् रजनिचरमरुद्वह्निशर्वेषु कोणान् || ६-३७ || कण्ठोपकण्ठात् कपोलोपकपोलात् शोभोपशोभा इति केचिदाहुः | पद्मक्षेत्रस्थदिक्सूत्रे संस्थाप्यान्यद् विमृज्य तु | बहिर्द्वादशकं भागं त्यक्त्वान्यत् परिवर्तयेत् || ६-३८ || क्षेत्रं चतुर्धा विभजेत् तु वृत्तं सूत्रं परिभ्राम्य समं क्रमेण | तत्कर्णिकाकेसरपत्रसन्धिच्छदावसानानि भवन्ति तानि || ६-३९ || पूर्वं द्वादशकांशं यत् त्यक्तं तद् भ्रमयेद् बहिः | पञ्चमं तद् भवेत् क्षेत्रं व्योमाख्यं तद् दलाग्रकम् || ६-४० || प्रसार्य कोणसूत्रे द्वे कोणदिङ्मध्यमेन तु | चत्वारि सूत्राण्यास्फाल्य सूत्रषोडशकं भवेत् || ६-४१ || दलान्तसिद्ध्यै दलसन्धिमध्ये निधाय सूत्रं तु दलान्तमानम् | दलान्तरालद्वयसंभ्रमोत्थैः शशाङ्कखण्डैस्तु दलं प्रसिध्येत् || ६-४२ || पद्मषोडशसूत्राणां मध्यं सूत्रैर्विभज्य तु | द्वात्रिंशत् खण्डसूत्राणि स्युर्दलाग्रवृतौ समम् || ६-४३ || दलाग्रसूत्रोदयपार्श्वसूत्रयोरंग्रस्थितं सूत्रमथास्य मूलतः | दलाग्रसूत्रान्तमुपानयेल्लिखन्नेवं दलाग्रं तु भवेन्मनोहरम् || ६-४४ || स्याच्छालिपिष्टं सितचूर्णमिष्टं हारिद्रमीषत्सितयुक्सुपीतम् | कौसुम्भसिन्दूरकधातुरक्तं दग्धैर्यवाद्यैरपि नीलचूर्णम् || ६-४५ || शम्यब्जबिल्वादिदलैर्यज्ञियैः श्यामलं स्मृतम् | तत्तद्वर्णैस्तु वा धान्यैः पूरयेन्मण्डलानि वै || ६-४६ || शक्तस्तु वाञ्छेद् यदि सिद्धिमग्र्यां तद्वर्णरत्नैर्हिह मण्डलानि | आपूरयेन्मौक्तिकपुष्यरागैर्माणिक्यनीलैर्हरितैश्च रत्नैः || ६-४७ || एवंविधेषु चूर्णेषु सिद्धिकामो मुक्ताविद्रुमादिकैस्तदेवं कुर्याद् इति भोजराजः | रेखास्तु सर्वाः सर्वत्र शुक्लाः स्युर्मध्यमामिताः | द्विहस्तेऽङ्गुष्टमात्रा वा हस्ते चानामिकासमाः | द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते मध्यमया मिताः || इत्यन्ये | मध्ये सुपीता खलु कर्णिका स्यात् तस्यां तु बीजानि नवासितानि | द्वे द्वे पृथक् केसरके दलानां मध्येषु लेख्ये कुटिलाग्रमीषत् || ६-४८ || मूले तनून्यापीतानि मध्ये स्थूलारुणान्यपि | अन्ते द्राक् तनुपीतानि तदन्तेऽल्पसितानि वै || ६-४९ || मूलमध्याग्रेषु पीतरक्तशुक्लं केसरजालमि ति भोजराजः | शुक्लानि तान्यष्टदलानि कुर्यात् समानि तुङ्गाग्रमनोरमाणि | भुक्त्यै तथा प्राञ्जलिकानि मुक्त्यै स्मरादियागेषु शिताग्रवन्ति || ६-५० || अत्राजिते दलाग्राण्यपि सर्वाणि रक्तवर्णानि कारयेदि ति | गौरीसरस्वत्यादीनां दलान्यश्वत्थपत्रवत् | विद्येशानां ग्रहाणां च गोकर्णाग्राणि कारयेत् || ६-५१ || दिक्पालकानामधराग्रकाणि स्युश्चापि नन्द्यादिगणेश्वराणाम् | विघ्नेशपद्मोद्भवविष्णुसूर्यस्कन्दादिकानां च यथा शिवस्य || ६-५२ || श्लक्ष्णश्यामेन रजसा दलसन्धीस्तु पूरयेत् | पीठान्तरालकोणानि संरक्तान्येव कारयेत् || ६-५३ || पीठं तु शुक्लारुणपीतकृष्णैः पादैस्तथा नीलककीलशोभम् | गात्रैश्चतुर्भिस्तु विचित्रवर्णैः कुर्याद् यथेष्टं त्वथवापि वर्णैः || ६-५४ || अत्र तत्त्वसागरे पीठं कोष्ठद्वयं दिक्षु लोप्यं, तथा कोणे त्रीणि त्रीणि विलोपयेद् इति | वीथीं लतावितानाद्यैः पत्रकैश्चोपशोभयेत् | तद्बाह्ये दिक्षु शुक्लेन चतुर्द्वाराणि पूरयेत् || ६-५५ || दिक्सूत्रकाणामुभयत्र कोष्ठे द्वारार्थमभ्यन्तरपङ्क्तिसंस्थे | तद्बाह्यपङ्क्तौ द्वितयद्वयं तत् षट्कोष्ठमित्थं विमृशेद् दिशासु || ६-५६ || कोष्ठत्रयं त्रयं चान्तर्द्वाराणां पार्श्वयोर्द्वयोः | ऐक्येन शोभासिद्ध्यर्थमेकैकं विमृजेद् बहिः || ६-५७ || एवं पृथक्कोष्ठचतुष्कवन्तः कण्ठोपकण्ठाः प्रभवन्ति चाष्टौ | तत्पार्श्वतस्तद्विपरीतवक्त्रास्तद्वत् कपोलोपकपोलकाः स्युः || ६-५८ || ततः कोणेषु शिष्टानि षट्कोष्ठानि पृथक् पृथक् | विमुक्त्यै कोणसिद्ध्यर्थं वृषभानेषु वा लिखेत् || ६-५९ || नीलेनाच्छाद्य कोणांस्ताञ्छाखान् शुक्लेन वा लिखेत् || ६-६० || कण्ठोपकण्ठान् रक्तेन कपोलोपकपोलकान् | पीतेनाच्छादयेदभौ(?) यथा भूमिर्न दृश्यते || ६-६१ || बहिर्गुणाद् वै परितः क्रमोक्ताल्लिखेत् ततः सत्त्वरजस्तमांसि | रजोभिरङ्गुष्ठमितांस्तु शुक्लारुणासितान् मध्ययवान्तरांस्तान् || ६-६२ || भद्रकाधिकारः | चतुरश्रेऽष्टधा भक्ते चतुःषष्टिपदे कृते | मध्ये कोष्ठचतुष्केण पद्मं पीठं च संलिखेत् || ६-६३ || तद्बाह्यपङ्क्त्या खलु वीथिका स्यात् तद्बाह्यपङ्क्तिद्वयदिक्चतुष्के | द्वाराणि कोष्ठैः खलु वेदसंख्यैः संमृज्य शुक्लानि समानि कुर्यात् || ६-६४ || द्वाराणां पार्श्वयोर्बाह्यपङ्क्तावेकैककोष्ठकम् | द्वारेणायोज्य विमृजेत् स्यातां कण्ठोपकण्ठकौ || ६-६५ || संस्थाप्य कोणेष्वथ कोष्ठमेकं शिष्टैः पृथक् कोष्ठकपञ्चकैः स्युः | एकीकृतैर्वेदकपोलकास्ते तावन्त एवोपकपोलकाश्च || ६-६६ || अत्राजिते कपालं तु भवेत् तेषु पदं पूर्वापरायतम् | दक्षिणोत्तरगं चापि भवेदुपकपोलकम् || इति | प्रागुक्तमार्गेण तु कर्णिकाद्यं चापूर्य वीथिं च यथोक्तवर्णैः | द्वाराणि शुक्लेन कपोलकास्ते रक्तास्तथा पतिरुचोऽध च स्युः || ६-६७ || अत्राजिते बृहत्कालोत्तरे च कपोलोपकपोलास्तु वह्निकोणादिषु क्रमात् | रक्तं पीतं तथा श्यामं श्वेतं च परिकल्पयेत् || इति वह्न्यादिकोणकोष्ठानि पीतश्यामासितारुणैः | पूरयेद् वाथ सर्वाणि कृष्णेन परिपूरयेत् || ६-६८ || बाह्ये तु शुक्लारुणकृष्णवर्णैः प्राग्वत् समालिख्य गुणत्रयं तत् | स्यात् सर्वतोभद्रमिदं तु कोणे षट्कोष्ठकैकीकरणेन भद्रम् || ६-६९ || मण्डलेष्वपि सर्वेषु शुक्लान्यब्जदलानि तु | द्वाराणि चाथ वीथी स्याल्लताद्यैरविशेषिते || ६-७० || सर्वतोभद्राधिकारः | द्वात्रिंशदंशे चतुरश्रकेऽस्मिन् सहस्रकं सङ्कृतिसंख्यकं च | कोष्ठानि तन्मध्यगतत्त्वसंख्यैः कोष्ठैः सरोजं तु लिखेत् पुरोवत् || ६-७१ || तद्वाह्यपङ्क्त्या पीठं स्यात् तद्बाह्ये सप्तपङ्क्तिभिः | लिङ्गाष्टकं तु विलिखेद् दिक्सूत्रोभयपार्श्वयोः || ६-७२ || ऋतुवेदाक्षिवेदर्तुकोष्ठैः स्यात् तिर्यगायतैः | पीठं सकण्ठं ब्रह्मादिजलपादान्तक शुभम् || ६-७३ || पीठोपरिष्टात् खलु मध्यपङ्क्त्योर्युग्मस्थतत्कोष्ठचतुष्टयेन | लिङ्गं भवेत् तद्गतमध्यसूत्रान्मध्यान्तसंवर्तितमस्तकं वा || ६-७४ || अन्तर्मुखानि लिङ्गानि बुभुक्षूणां समालिखेत् | विपरीतं मुमुक्षूणामन्तःपीठानि कारयेत् || ६-७५ || तत्कण्ठपीठोभयपार्श्वसंस्थे भद्रे चतुष्कोष्ठवशाद् भवेताम् | लिङ्गान्तरालेष्वपि पञ्चविंशैः कोष्ठैस्तु कोणेषु लता विधेयाः || ६-७६ || गोमूत्रिकावत् संस्पृष्टा रेखास्तत्कोष्ठगा यथा | तथान्यरेखालोपेन लताः स्युर्विदिगायताः || ६-७७ || अश्र्यन्तरेषु वल्लीनां पत्राण्यप्यथवा लिखेत् | वल्ल्यादौ सक्तमूलानि कुटिलाग्रादिकान्यपि || ६-७८ || तद्बाह्ये पङ्क्तियुग्मेन वीथीं प्राग्वत् तु मार्जयेत् | वीथीं तथा कल्पलताविशेषैराभूष्य तद्बाह्यवृतित्रयेऽपि | कोष्ठानि वेदर्तुवसुप्रसंख्यं द्वारार्थमन्तः प्रभृतीह लुम्पेत् || ६-७९ || शोभोपशोभेऽपि स्यातां द्विचतुष्षड्विलोपतः | त्रिःसप्तकोष्ठानि पृथक् कोणे कोणे तु मार्जयेत् || ६-८० || पद्मादिकं भद्रकवत् तु सर्वमाभूषयेत् पञ्चविधैस्तु चूर्णैः | लिङ्गाष्टकं पञ्चमुखोक्तवर्णैरिच्छानुरूपं परिपूरयेद् वा || ६-८१ || इतीदं पार्वतीकान्तमुक्तं प्रासादमण्डलम् | अष्टलिङ्गलतापद्मवीथीप्राकारमण्डितम् || ६-८२ || पार्वतीकान्तप्रासादाधिकारः | चतुरश्रं चतुर्हस्तं क्षेत्रं विंशतिभागिकम् | स्याच्चतुःशतकोष्ठं तन्मध्येऽब्जं तत्त्वकोष्ठकैः || ६-८३ || पङ्क्त्यैकया पीठमथैकया स्याद् बीथी ततः पङ्क्तिचतुष्टयेन | तद्द्वारलिङ्गैः परितो लताः स्युस्तद्बाह्यपङ्क्त्यापि च बाह्यवीथी || ६-८४ || कुर्याद् भद्रकवत् पद्मपीठबीथीर्यथाविधि | प्रतिपङ्क्तिद्विकोष्ठाष्टकोष्ठैर्द्वाराणि दिक्ष्वपि || ६-८५ || वीथ्यन्तरा द्वारनिबद्धकोष्ठत्रयेण भूपीठमथैककोष्ठम् | स्यात् कण्ठपीठं त्वथ तोयपट्टं कोष्ठैस्त्रिभिर्लिङ्गमथैककोष्ठम् || ६-८६ || अधश्चोर्ध्वं च तत्कोष्ठात् पीठकोष्ठचतुष्टये | कोष्ठान्तः कोणगं सूत्रं कोष्ठसूत्रार्धमानतः || ६-८७ || भ्रमयित्वा त्यजेद् बाह्ये खण्डिताश्रिचतुष्टयम् | पीठमेवं भवेद् रम्यं द्वादशाश्रैरलङ्कृतम् || ६-८८ || प्राग्वत् समापूर्य तु वर्णचूर्णैः पद्मादिवीथ्यन्तमशेषबिम्बम् | ख्यातं लतालिङ्गसमुद्भवाख्यं तन्मण्डलं शङ्करवल्लभं यत् || ६-८९ || लतालिङ्गोद्भवाधिकारः | क्षेत्रे षोडशधाभक्तचतुरश्रे चतुर्दिशम् | पार्वतीकान्तवत् कोष्ठैः कुर्याल्लिङ्गचतुष्टयम् || ६-९० || मध्ये विशिष्टैरपि वेदकोष्ठैर्लिङ्गान्तरालेष्वपि तत्प्रसंख्यैः | चतुर्दलाब्जं खयमेव तैः स्याल्लिङ्गेषु संवर्तितमस्तकेषु || ६-९१ || भद्राष्टकं स्यात् कण्ठेषु लताः कोणेषु पूर्ववत् | लिखित्वा मण्डलं तत् स्यात् पञ्चब्रह्माभिधानकम् || ६-९२ || मध्येऽम्बुजे वर्तुलकर्णिका स्यात् पीता च रक्ता तनुकेसराली | ईशस्तु मध्ये पुरुषादयोऽपि खवर्णदिग्लिङ्गगता भवन्ति || ६-९३ || अस्यैव तु लतास्थानेष्वालिख्य स्वस्तिकानि तु | कोणार्धपङ्क्त्योर्वीथी स्याद् गौरीतिलकमण्डले || ६-९४ || नाभेः समीपे प्रथमं तु कोष्ठं वक्रायतं द्वेऽथ पुनर्विलुम्पेत् | तद्दक्षिणावर्तचतुष्पथाङ्कं स्यात् स्वस्तिकं चान्तरवीथियुक्तम् || ६-९५ || श्यामपीतासितारक्तैर्मार्गानाभूषयेत् क्रमात् | खण्डवीथीस्तु शुक्लेन लिङ्गादन्येन भद्रके || ६-९६ || पञ्चब्रह्ममण्डलगौरीतिलकाधिकारः | क्षेत्रे तथाष्टादशधा विभक्ते कोष्ठानि चास्मिन् त्रिशतं च वेदैः | विंशत्यपि स्यात् खलु तत्त्वसंख्यैर्मध्ये सरोजं विलिखेत् पुरोवत् || ६-९७ || अष्टाशास्वपि षट्त्रिंशत्कोष्ठैः स्युः स्वस्तिकान्यपि | एकं त्रीणि ततः पञ्च कोष्ठलोपक्रमः स्मृतः || ६-९८ || एतत् खलु स्वस्तिकमण्डलाब्जं क्षेत्रेऽथवा द्वादशभागितेऽस्मिन् | मध्येऽम्बुजं षोडशकोष्ठकैः स्यात् स्युः स्वस्तिकान्यष्टदिशासु तद्वत् || ६-९९ || स्वस्तिकान्यपि पद्मं च प्राग्वदापूर्य वर्णकैः | स्वस्त्यर्थं स्वस्तिकं शस्तं सर्वदेवाभिनन्दनम् || ६-१०० || स्वस्तिकाब्जद्वयाधिकारः | क्षेत्रे तथाष्टादशभागिकेऽस्मिन् तन्मध्यगः स्वस्तिकनाभिमादौ | सङ्कल्प्य लुम्पेत् तु चतुष्पथाभं समन्ततः कोष्ठकपञ्चकानि || ६-१०१ || कोष्ठमात्रायता रेखाः कुटिलाः स्वस्तिकाकृतौ | परस्परपयोधिन्यः स्थाप्याः स्युः शेषलोपतः || ६-१०२ || पञ्चाशदस्मिन् खलु सप्तकं च स्यात् स्वस्तिकानां सह चार्कभद्रैः | मध्ये द्विपञ्चाशदपि द्वयं च स्यात् सर्वतोभद्रचतुष्पथानाम् || ६-१०३ || कोणेषु चैककोष्ठानि शिष्टान्याभूषयेत् सितैः | नीलपीतारुणश्यामैर्भद्राण्यपि चतुष्पथान् || ६-१०४ || एतद्धि सर्वतोभद्रस्वस्तिकं नाम मण्डलम् | सर्वस्वस्तिकमित्येते प्राहुर्यच्छिवयोः प्रियम् || ६-१०५ || क्षेत्रेऽथवा षोडशधा विभक्ते मन्वर्कदृग्वस्वृतुभेदिते वा | प्राग्वद् विलोमात् खलु मण्डलानि स्युः सर्वतः स्वस्तिकभद्रवन्ति || ६-१०६ || स्वस्तिकसर्वतोभद्राणि | चतुरश्रे द्विहस्ते तु चक्राब्जं पीठवर्जितम् | स्यादेकनाभं तल्लक्ष्म भवेन्मानाङ्गुलक्रमात् || ६-१०७ || निधाय सूत्रं त्वथ मध्यबिन्दौ पद्मार्धमानेन नवाङ्गुलेन | त्रिभिश्च वस्वब्धिमितैर्भ्रमैस्तैः सरोरुहं नाभ्यरनेमयः स्युः || ६-१०८ || पद्मं पुरोवदालिख्य नाभिं पीतेन पूरयेत् | दलतुल्यारके चक्रे दलरेखाः प्रसार्य तु || ६-१०९ || लिखेत् ततस्तेष्वरकान् यथावद् दलाद् द्विसंख्येष्वरकेषु तद्वत् | दलाग्रसूत्रैर्दलसन्धिसूत्रैः प्रसारितैस्तावदिहारकाः स्युः || ६-११० || विभज्यारभुवं त्रेधा द्वाभ्यामन्तरथाङ्कयेत् | मत्स्यवत् तेष्वथास्फाल्य सूत्राण्येषु लिखेदरान् || ६-१११ || इन्दीवराश्वत्थदलोपमा वा ते मातुलुङ्गाकृतयोऽथवा स्युः | अब्जच्छदाभाश्च यवोदरा वा मध्यैः कृशैर्वाथ पिपीलिकाभाः || ६-११२ || अरकास्त्वरुणाः श्यामास्ते स्युरेकान्तराः क्रमात् | अन्ते गोरोचनाभाः स्युः पीताः स्युररसन्धयः || ६-११३ || नेमिं त्रिधा संप्रविभज्य कुर्याच्छुक्लेन मध्ये त्वसितेन बाह्ये | पीतेन चान्तः परिपूर्य कोणान् कृष्णेन सस्वस्तिकचिह्नरम्यान् || ६-११४ || अरसन्ध्यन्तरालस्थो बहिर्नेमेः परिभ्रमेत् | अरसन्धेस्तु मध्यस्थो भ्रमयेदरमूलकम् || ६-११५ || मध्येऽरकाणां स्थित्वा तु भ्रमयेदरमध्यकम् | मातुलुङ्गफलाकारा एवं सिध्यन्त्यराः क्रमात् || ६-११६ || अराग्रसंस्थस्त्वरसन्धिमूलात् सूत्रं तथारोभयपार्श्वसंस्थम् | पृथक् समास्फाल्य तथारकाः स्युर्विस्तारितेन्दीवरपत्रकल्पाः || ६-११७ || अरमध्यस्थितोऽराग्रं किञ्चित् त्यक्त्वाब्जपत्रवत् | अरसन्धेर्भ्रमाच्चाग्रभ्रमादब्जदलारकाः || ६-११८ || शान्ताग्रमूलाः पृथवस्तु मध्ये कार्यास्तृतीयांशतयारसन्धेः | अन्तः प्रविष्टास्तु यवोदराख्याः सिध्यन्ति ते स्युः क्रमशः शिताग्राः || ६-११९ || त्रिधा विभज्यारक्षेत्रं द्वितीयप्रथमांशयोः | मध्ये स्थित्वा परिभ्रम्य तृतीयांशे दलाग्रवत् || ६-१२० || अर्धचन्द्राभरेखाभ्यां पत्राग्रं च समालिखेत् | इत्थमश्वत्थपत्राभास्तत्राराः संभवन्ति हि || ६-१२१ || स्थित्वारसन्धेरथ मध्यमांशे तिर्यग्भ्रमाच्चोभयतोऽरकार्घात् | रेखाद्वयान्तः कृशमध्यकाः स्युः पिपीलिकाक्रोडसमाह्वयाराः || ६-१२२ || अरसन्ध्यन्तरा पुष्पैर्विचित्रैरभिभूष्य तु | बिम्बबाह्येऽथवा लिप्ते पुष्पालीभिर्विभूषयेत् || ६-१२३ || उक्तं तु चक्राम्बुजमेकनाभं प्रियं शिवार्याहरिभास्कराणाम् | अन्यानि च स्युर्नवनाभकान्तान्यूह्यानि चक्राम्बुजमण्डलानि || ६-१२४ || चक्राब्जाधिकारः | कर्णिकार्धप्रमाणेन प्राक्स्थसूत्रभ्रमक्रमात् | तद्रेखापार्श्वयोगेन मत्स्यद्वादशकं भवेत् || ६-१२५ || सूत्रेषु तेष्वापतितैर्यथावत् सन्धिस्थसूत्रैर्दिनकृच्छताब्जम् | अष्टच्छदाब्जस्य समप्रभेदात् स्यदम्बुजं षोडशपत्रशोभम् || ६-१२६ || केसरव्योमरेखान्तसूत्रात् तत्केसराग्रगात् | मत्स्यवल्लाञ्छयित्वा स्यात् पञ्चपत्रं तु पङ्कजम् || ६-१२७ || कर्णिकादलसन्धिभ्यां प्राग्वत् षट्पत्रसिद्धये | व्योमरेखाकर्णिकाभ्यां दलाग्रस्थं तु सप्तके || ६-१२८ || दलसन्धिकर्णिकाभ्यां दलसन्धौ न्यस्य मत्स्यचिह्नेन | नवदलकं स्यात् सूत्रैः पञ्चभिरास्फाल्य पङ्क्तिपत्रं स्यात् || ६-१२९ || केसराकाशयोर्मध्यं व्योम्नि विन्यस्य लाञ्छयेत् | एकादशच्छदं त्वेवं पद्मं स्यात् सूत्रपाततः || ६-१३० || पत्राग्रपत्रसन्धिभ्यां पत्राग्रे न्यस्य लाञ्छिते | आस्फाल्य तेषु सूत्राणि तत् स्यादभिकृतिच्छदम् || ६-१३१ || अतः परं चेद् दलवृद्धिमिच्छेद् दिशानयैवात्र यथाक्रमेण | तदूहतो मध्यवशेन सूत्रैर्लिखेत् सरोजानि यथाभिलाषम् || ६-१३२ || दलभेदलक्षणम् | अर्धचन्द्रादिकुण्डानां लक्ष्मणा सूत्रपाततः | अर्धचन्द्रादिबिम्बानि कुर्यात् कामानुसारतः || ६-१३३ || वेदाश्रिके दिग्विदिगन्तरे स्युर्द्व्यष्टसूत्रैः पतितैस्तु दीर्घैः | द्वात्रिंशदंशाः परितोऽथ तेषु क्षेत्राणि पञ्च भ्रमणाद् भवन्ति || ६-१३४ || अष्टाङ्गुलैः स्यात् कमलार्धमादौ त्रिभिस्तु पीठं त्रिभिरेव नाभिः | वीथीश्चतुर्भिस्तु षडङ्गुलैः स्युर्द्वाराणि शोभास्त्वपि चोपशोभाः || ६-१३५ || प्राग्वत् सरोजं त्विह वृत्तपीठं नाभिर्गुणैर्हंसशराब्जशङ्खैः | वीथिर्भवेद् वारचतुष्टयाढ्यं वर्णक्रमाद् भद्रकवद् विधेयम् || ६-१३६ || द्वारादिषु विशेषोऽत्र स्यात् तत्क्षेत्रं द्विधा भ्रमात् | अन्तर्वेदांशकैर्बाह्यैर्द्वाराणि स्युः षडंशकैः || ६-१३७ || प्राग्वच् शोभोपशोभे स्तां कोणलक्ष्मापि कथ्यते | अन्तर्मुखास्ते कलशास्तु कोणा वेदांशवक्त्रा द्वितयांशकण्ठाः | तत्कोणपार्श्वान्तविवर्तने स्युः पृथूदरावर्तितविष्टरान्ताः || ६-१३८ || मायाचक्राह्वयं त्वेवं शक्तीनां मण्डलं स्मृतम् || ६-१३९ || मायाचक्राधिकारः | वक्ष्येऽथ बिम्बं त्रिपुराभिधानं क्षेत्रं तु कुर्याच्चतुरश्रदीर्घम् | युक्त्या पुरोवच्च परैश्च सूत्रैः स्याद् द्वित्रिहस्तायतविस्तृतं तत् || ६-१४० || प्रागायतं त्रयस्त्रिंशत्सूत्राण्यत्र निपातयेत् | याम्योदगायतं सप्तचत्वारिंशच्च संख्यया || ६-१४१ || कोष्ठानि चास्मिन्नथवर्य(?)संख्यं मध्येऽस्य कोष्ठैरपि तत्त्वसंख्यैः | स्यात् पङ्कजं तत्परितस्तु पङ्क्तिं त्यक्त्वास्य पूर्वापरतोऽम्बुजे स्ताम् || ६-१४२ || परितोऽब्जत्रयस्यात्र पङ्क्तिमेकां विलोपयेत् | चतुरश्राकृतिर्दीर्घा सा चान्तर्वीथिसंज्ञिता || ६-१४३ || तद्बाह्यपङ्क्त्या परितस्तु पीठं कोष्ठैस्तथा पञ्चभिरस्य कोणात् | कुर्याच्च पूर्वापरदक्षिणोदग्गात्राणि वस्वष्टचतुष्कवेदैः || ६-१४४ || कोणागात्रकमध्येषु पञ्च कोष्ठानि लोपयेत् | पीठमेकं त्रिपद्मानां स्याद् दीर्घचतुरश्रकम् || ६-१४५ || तद्वाह्ययाम्योत्तरपूर्वपश्चाल्लिङ्गानि षट्सप्तककोष्ठकैः स्युः | तिर्यग्रसैस्तद्दिशि सप्तपाङ्क्तैः कोष्ठैर्यथोक्तं चतुरश्रकेषु || ६-१४६ || लिङ्गानां पार्श्वयोर्द्वन्द्वे चतुरश्रे विलोपयेत् | पृथक्पृथग्वै षट्त्रिंशत्कोष्ठैस्तानि भवन्ति हि || ६-१४७ || तद्वत् कोणचतुष्केषु षट्त्रिंशत्संख्यकोष्ठकैः | दीर्घेषु चतुरश्रेषु नृत्यद्धंसान् समालिखेत् || ६-१४८ || रक्तानि पद्मच्छदनानि लक्ष्मीजयार्थसौभाग्यकराणि कुर्यात् | शुक्लानि विद्याकवितादिसिद्ध्यै शेषं पुरोवत् खलु कर्णिकाद्यम् || ६-१४९ || अन्तर्वीथीं तु पीतेन चतुरश्रेष्वथाष्टसु | शङ्खौ चक्रे च संलिख्य चत्वार्यब्जानि चालिखेत् || ६-१५० || वीथ्यां लता स्यात् परिशिष्टपङ्क्तित्रयेण दिग्द्वारचतुष्टयाद्यम् | लुम्पेत् षडष्टौ दश कोष्ठकानि द्वारद्वये दक्षिणतश्च सौम्ये || ६-१५१ || शोभोपशोभासिद्ध्यर्थं कोष्ठान्युत्तरयाम्ययोः | चतुःषडष्टौ प्रागाप्ये द्वे चतुःषट् च लोपयेत् || ६-१५२ || द्वारे प्राक्पश्चिमे स्यातां वेदर्तुवसुकोष्ठकैः | त्रिसप्तकोष्ठैः कोणाः स्युस्तत्पादाश्चर्तुकोष्ठकैः || ६-१५३ || त्रिपुरामण्डलाधिकारः | क्षेत्रे विंशतिधा द्विधा पुनरिदं निर्भिद्य वेदाश्रकं कोष्ठानां खलु षट्शतं दशशतं चात्रास्ति तन्मध्यतः | षट्त्रिंशत्कचतुष्टयेन तु भवेल्लिङ्गं सपीठं महत् तत्त्रिंशद्द्वयनागषोडशमितैः कोष्ठैस्तु पीठादिकम् || ६-१५४ || पङ्क्तिं तत्परितो विमृज्य तु बहिःपङ्क्त्या च पीठं भवेत् तद्बाह्ये मुनिपङ्क्तितत्त्वगणनाकोष्ठैः पृथक् पूर्ववत् | पद्मानि क्रमशोऽष्टदिक्षु विलिखेल्लिङ्गे च तत्पार्श्वयोः षड्भिर्विंशतिकोष्ठकैश्च परितः पङ्क्तिद्वयाद् वीथिकाः || ६-१५५ || ईशानादिब्रह्मवर्णानि चास्मिन् लिङ्गानि स्युः शिष्टलिङ्गानि पद्मात् | व्यस्तैर्वर्णैः शुक्लरक्ताच्छरक्तैः प्रागाद्यब्जे संलिखेदुक्तमार्गान् || ६-१५६ || संयुक्तान् क्रमशः प्रदक्षिणमथो वीथ्यां तु शङ्खाल्लिखे- च्छुक्लाभान् यदि मण्डलं भवति तद्यच्छङ्खमालाह्वयम् | हंसाश्चेदिह हंसमालमृतुभिः स्यादष्टदिक्संस्थितै- र्द्वाराणि त्रिशरांश्च कोष्ठविहिताः शोभाश्च पङ्क्तित्रये || ६-१५७ || कोणाः स्युः सप्तविंशत्या कोष्ठानां तत्त्रिपङ्क्तिषु | कृष्णेनाच्छाद्य तत्रापि स्वस्तिकाब्जादिकं लिखेत् || ६-१५८ || लिङ्गोदरशङ्खमालाद्यधिकारः | चक्राब्जादितराणि शक्तिशिवयोः पूजासु दीक्षादिके शस्तान्यत्र पवित्रकादिषु तथा सस्वस्तिलिङ्गान्यपि | चक्राब्जान्यपि भद्रकाणि सवितुर्विष्णोश्च लक्ष्म्या विधेः शक्तीनां त्रिपुराख्यशङ्खकलशा मायाम्बुजं चोदितम् || ६-१५९ || यथोदितस्तु शक्तिनां तथेन्द्रस्मरभोगिनाम् | विघ्नेशानलषड्वक्त्राः पूज्याः स्युः स्वस्तिकेष्विह || ६-१६० || सर्वे सर्वेषु वा पूज्यास्तत्तत्कर्मानुसारतः | इति कुण्डमण्डलविधिः प्रधानतः कथितः शिवादिसुरपूजनोचितः | बहुधा निरूप्य विविधान् शिवागमानिह साधकेन्द्रमानसां प्रियङ्करः || ६-१६१ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे कुण्डमण्डलविधिः षष्ठः पटलः | अथ सप्तमः पटलः वक्ष्ये स्रुक्स्रुवयोश्च लक्षणमथो स्रुग्घस्तमात्रायता पालाशी खदिरोद्भवापि च तथा स्याच्छामिली शोभना | वेदाश्रं तु मुखं स्वराङ्गुलमितं श्रेष्ठं रसैर्वा शरै- र्मध्यं चाप्यधमं च निम्नमिह तन्मध्ये त्रिभागास्तृतम् || ७-१ || विस्तारेण समं हि खातमपि तद् वृत्तं बहिर्मेखला - स्रिस्रः स्युः कमलं तथैव परितस्तासां तु बाह्ये भवेत् | कण्ठो गोलकविस्तृताङ्गुलमितो दैर्घ्येण तस्योर्ध्वतः स्यादग्रं चतुरङ्गुलायतमथो विस्तारतस्तत्समम् || ७-२ || कण्ठस्याप्यथ मध्यवर्ति सुषिरं तद् वै त्रिकोणायतं निर्गच्छेद्धि यथायतं तदवटं यावत् कनिष्ठा विशेत् | तत्पृष्ठं कमलाङ्कितं खलु मुखं सर्वं गजोष्ठोपमं शिष्टं वर्तुलदण्डमस्य तु भवेदग्रं सरोजाङ्कितम् || ७-३ || दण्डाग्रं परिणाहतः सरसिजस्याधो यथर्त्वङ्गुलं स्थूलोऽसौ क्रमशः प्रकोष्ठमिव तन्मूलं च वस्वङ्गुलम् | तत्र स्याद् वृषभोऽथवा सरसिजं श्लक्ष्णाकृतिः सर्वतो निर्दोषः शुभदेशजान् क्षितिरुहाञ्छित्वा स्रुचं कारयेत् || ७-४ || स्रुग्जातिस्तु भवेत् स्रुवं सुविहितं तालद्वयायामकं कुर्याद् वर्तुलमङ्गुलेन वदनं तस्यावटेऽर्धाङ्गुले | भित्तिर्मध्यगता स्मृता यवमिता तद्गर्तयोः श्लक्ष्णयोः कर्षाज्यस्थिति गोष्पदाकृति च तत्पृष्ठे यवाभ्यां स्फिजौ || ७-५ || स्फिङ्मध्येन यवप्रमाणविहिता रेखा च वक्त्रादधः कण्ठः पङ्कजलक्षणस्तु तदधो दण्डः सुवृत्तः समः | दण्डाग्रं परिणाहतोऽङ्गुलमितं मूलं ततोऽध्यर्धतः स्याद् गोपुच्छनिभं गलात् प्रभृति तत् स्थूलं हि मूलं यथा || ७-६ || बाहुमात्रियोऽरत्निमात्रियो वा स्रुच इत्यन्ये | स्रुक्स्रुवाधिकारः | भित्त्वा शोभनशाखिकां यदि भवेच्छम्युद्गताश्वत्थजा नो चेत् केवलपिप्पलात् तदरणिर्भान्वङ्गुलैरायता | नाहोऽस्यास्तु षडङ्गुलेन तु शिरो मूलेऽङ्घ्रिरग्रे स्मृतो योनिर्मध्यगताङ्गुलैः श्रुतिमितैर्मन्थानयोग्या भवेत् || ७-७ || अश्वत्थेन तथोत्तरारणिरपि स्यात् षड्भिरेवाङ्गुलैः कुर्याद् भ्रामकमस्य खादिरमृजं नेत्रं च रज्जुं दृढाम् | तत्राग्निं जनयेत् तथेन्धनमपि त्वग्वर्जितं सारवद् भिन्नं शस्ततरूद्भवं धमनमप्यग्नेर्धवित्रादिना || ७-८ || अरण्यादिविधिः | वक्राः शीर्णदलाः कृशाः कृमिहता भिन्नास्त्वशस्त्राहृता ह्रस्वाः स्थूलगतत्वचोऽप्युपहता दीर्घाग्निदग्धादयः | वर्ज्याः स्युः समिधः शुचिस्थलभुवः शेषाः समं छेदिता मध्यानामिअकयोस्तु नाहसदृशाः शस्ताः कनिष्ठाधमाः || ७-९ || तालायतास्तु समिधः खलु शान्तिकादौ सप्ताङ्गुला भ्रमणचाटनकेषु शस्ताः | विद्वेषसाधनविधौ चतुरङ्गुलास्ता वक्राः षडङ्गुलमिता अपि मारणेषु || ७-१० || आकृष्टिवश्यविषयेषु शराङ्गुलाः स्युः प्रादेशमात्रसमिधोऽप्यविशेषकृत्ये | क्षुद्रेषु पृष्ठमनले जुहुयात् तथाग्रं चाग्नौ जुहोति हि शुभेषु यथोपदेशम् || ७-११ || इध्मोऽष्टादशभिः समिद्भिरुदितः प्रादेशमात्रोऽथवा रत्न्यायाममितः क्वचित् परिधयो हस्तायताः स्युस्रयः | दीर्घो दक्षिणतस्तु पश्चिमशयः स्थूलस्तनुर्ह्रस्वकः सौम्ये कौशिकजाश्च पालककुशाः श्रेष्ठा हि दर्भाः क्रमात् || ७-१२ || व्यग्रा हस्तनखाहृताः कृमिहताः कर्मान्तरायोजिताः याम्या व्याघ्रविलङ्घनाद्युपहता धूम्रोर्ध्वशुष्कादयः | वर्ज्याः श्यामलकोमलाः प्रतिनवालूनार्द्रशुष्कास्तथा दर्भाः स्युर्यदिहाग्निकार्यपटले वेण्यादिकं चोदितम् || ७-१३ || तत्र त्रिंशद्दर्भदलकृता वेणिः | अष्ट्यत्यष्टिधृत्यतिधृतिसंख्या वा दर्भाः परिस्तरणे स्युः | तत्त्वसंख्यादर्भैर्बद्धं कूर्चं ज्ञानखड्गः | दर्भद्वयेन सामान्यम् | दर्भपञ्चकेन विशेषकूर्चमिति संहिताटीकायाम् | पञ्चभिः पञ्चभिर्दर्भैः प्रणीताप्रोक्षणीविधौ | कूर्चद्वयं भवेत् सप्तदशभिर्ब्रह्मकूर्चकम् || ७-१४ || द्वादशाङ्गुलकं दण्डं ब्रह्मग्रन्थ्येकमङ्गुलम् | तदग्रं त्र्यङ्गुलायामं कूर्चानां तु प्रकल्पयेत् || ७-१५ || मध्येन ग्रथितं तु दर्भयुगलं प्रादेशमात्रं भवेत् संस्कारे तु पवित्रकं स्मृतमथ द्वन्द्वं च विद्योतने | स्रुक्सम्मार्जनके त्वतुष्टयमिह स्याद् वै कुशानां घृते दर्भाग्रद्वयमङ्गुलायतमथात्रार्काङ्गुलं प्रस्तरे || ७-१६ || तालायताभ्यां दर्भाभ्यां ग्रथितं चतुरङ्गुलम् | पवित्रं स्याद् द्विजातीनां त्रिभिः क्षुद्रेषु हस्तयोः || ७-१७ || ब्रह्मग्रन्थिर्द्विजातीनां स्मृतो हस्तपवित्रके | केवलश्चानुलोमानां दूर्वैव स्त्रीचतुर्थयोः || ७-१८ || दशोत्तरशतं त्वेवं दर्भाः स्युः प्रस्तारं विना | इति बौधायनमतम् | इध्मवर्हिषां विधिः | भूमिः स्थण्डिलसंज्ञिता सपदि या गोगोमयालेपिता गोकर्णाष्टकमात्रकं षडथ वा गोचर्ममात्रं स्मृतम् | नद्यादेः सिकताः शुभास्तु धवलाः प्रस्थैर्मिताः पञ्चभिः सामान्येन तदाह होमविषये बोधायनः स्थण्डिले || ७-१९ || स्थाल्याज्यस्य भवेच्छरावसदृशी विस्तारतोऽष्टाङ्गुला विस्तारार्धसमुच्छ्रयापि च भवेन्नालं च वेदाङ्गुलम् | विस्तारेण षडङ्गुलोच्छ्रितसमं पात्रं प्रणीताम्भसां स्यादष्टाङ्गुलविस्तृतोच्छ्रयसमा नालान्विता प्रोक्षणी || ७-२० || अत्र पौष्करे सर्वत्र स्वर्णरजतताम्रमृन्मयानि पात्राणि उत्तममध्यमाधमफलानि भवन्ति इति | अष्टाभिः कुडुबैः प्रपूरितचरुः स्थाली स्मृता चाधमा मध्यार्कैर्वसुयुग्मकैः परिमिता स्यादुत्तमा ताम्रजा | श्रेष्ठाद्यास्त्वधमास्त्रिसप्तकमिता दर्व्यङ्गुलानां भवेद् दैर्घ्यात् सप्तशराङ्गुलैरिह शिरोवृत्तं तु पुच्छं द्वयात् || ७-२१ || शालीनां सिततण्डुलाः सकलमा नीवारजाः षाष्टिकाः संशुद्धास्तुषशर्करादिरहिताः शुक्लार्जिताः स्युश्चरोः | श्रेष्ठं यत् स्वपशोर्नवं घृतमथ क्रीतं नवं मध्यमं क्रीताज्यं यदनूतनं तदधमं गव्यं भवेद् गालितम् || ७-२२ || क्षौद्रं गन्धरसाद्यदूषितमपि क्रीतं पुनर्गालितं ग्राह्यं क्रीतसितोपलाद्यभिनवं खण्डं गुलं चैक्षवम् | पूर्वं पूर्वमिह प्रशस्तमखिलं शुद्धं च शुक्लार्जितं होमादेश्च तिलादिधान्यमखिलं संशोध्य तु क्षालितम् || ७-२३ || यच्चान्यत् फलमूलवस्तु सुरसं ग्राह्यं विशुद्धं नवं तत्राङ्गुष्ठमिताहुतिस्तु कथिता ह्यन्नस्य शाल्यादिषु | स्यात् पञ्चाङ्गुलिभिर्धृतं द्रवरसेषूक्तं स्रुवापूरितं लाजानां खलु मुष्टिरेव कुसुमेष्वेकैकमब्जादिषु || ७-२४ || वल्लीनां चतुरङ्गुलं कणतिले सक्तुष्वपि स्यान्मृगी साङ्गुष्ठा खलु मध्यमाङ्गुलियुता नाम्ना मृगीसंज्ञिता | गन्धानां चणकीमितं तु बदरीबीजोपमं गुग्गुलो- र्भक्ष्याणां च महाफलादिषु भवेदक्षप्रमाणाहुतिः || ७-२५ || खर्जूरेङ्गुदगोस्तनीबदरिकाजम्बूफलानां तथा पत्राणां पृथगेकमेकमुदिता पर्वैकमिक्षोरपि | नानाभक्ष्यविमिश्रहोमविषये पञ्चाङ्गुलीभिर्धृतं दूर्वाग्रत्रितयं तथैव समिधामेकैकमेवाहुतिः || ७-२६ || आहुतिप्रमाणम् | स्याद् वर्धन्यपि पूर्णभारसलिला कुंभश्च खार्यम्बुभृद् द्रोणाम्भःपरिपूरितस्तु कलशः पूर्णं शिवात् कर्करी | पूर्णा स्याद् घटिकाढकेन कुडुबद्वन्द्वं शरावं भवे- दापूर्णं कुडुबेन वा प्रसरतः शङ्खश्च दीपस्तथा || ७-२७ || पात्रमानम् | वक्ष्ये शुद्धिमपीह पात्रविषयां द्रव्यादिकानां तथा यावद् गन्धविलेपनाद्यपगमस्तावज्जलैः क्षालयेत् | चूर्णैरप्यवघर्षयेत् पुनरपि प्रक्षाल्य चोष्णैर्जलैः पात्राणां भवतीह शुद्धिरधुना शुद्धिर्विशिष्टोच्यते || ७-२८ || सौवर्णं सलिलेन शुध्यति यथा लेपापनोदो भवेत् पात्रं शुल्बमयं तथाम्लसलिलैस्तारोद्भवं गोमयात् | कांस्यं भस्मजलैस्तथा मणिमयं सूर्यांशुभिर्वाम्भसा मृत्पात्रं दहनेन चेदभिनवं तत्तक्षणाद् दारवम् || ७-२९ || दाहादायसशुद्धिरेवमुदिता लौहानि तत्कर्तृभिः स्पर्शाद् वा तुरगाननाभिगमनाच्छुध्यन्त्यनत्याहतौ | शुद्धिश्चर्मसु रज्जुवस्त्रविषये चेत् क्षारवारिप्लवात् स्याच्चालाबुकवैणवेऽम्बुपवनं गोपालकाघर्षणात् || ७-३० || शुद्धिः सोदकभाजनेष्वपि भवेत् पर्यग्नि कृत्वा तथा धान्यानां फलदर्भमूलसमिधां संप्रोक्षणाधावनैः | कौशेयादिदुकूलपट्टवसनान्यालब्धरङ्गानि या- न्यम्भःसेकविरागकाणि धवलैः शुध्यन्ति सिद्धार्थकैः || ७-३१ || त्याज्यं दारववैणवादिकमथो भाण्डं तथा मार्त्तिकं श्लेष्मोच्छिष्टमलादिदुष्टमथवा निर्माल्यसन्दूषितम् | स्नेहानामपि शुद्धिरत्युपहतिर्नोचेदभिद्योतना- च्छुध्येदम्बुजलाशयादिषु निशास्वग्नेः शिखादर्शनात् || ७-३२ || गोभिर्वाध्युषिता निखानिततलाकृष्टाथवा सूद्घृता भूः शुध्येद् भवनादिकं च सलिलैः सद्गोमयालेपितम् | पुण्याहाद् द्विजभोजनैरपि तथा चोल्लेखनाद् वा स्थलं शुध्येत् पातकीनाभिभाष्य वचसां शुद्धिर्द्विजाभाषणात् || ७-३३ || प्राणायामैः शुध्यति देहः समनस्कः स्पृष्ट्वास्पृश्यानप्सु निमग्नः सहचेलः | जग्ध्वा यत्तद् वा क्षुतनिष्ठीवनजृम्भा- स्वाचम्याद्भिश्चान्त्यजशूद्राद्यवलोके || ७-३४ || निः सार्याम्भः कूपजलादेर्महदर्णो- वेगात् स्पृष्टं वांशुभिरंशोरिह शुध्येत् | सामान्याग्निः प्रोक्षणतोऽन्यत्र गतो वा प्रायश्चित्ताद् चाग्निमुखाच्चाहितवह्निः || ७-३५ || गन्धादीनां मन्त्रजलैः प्रोक्षणतः स्याच्- छुद्धिः क्षीरे चान्धसि वाज्यं त्वभिधार्य | दर्भोद्योताच्छुध्यति नातिप्रहतिश्चे- च्छिष्टानामप्येवमिवोह्या परिशुद्धिः || ७-३६ || सामान्येयं सर्वगुणानामपि हेतुः कर्मद्रव्यस्वात्मसु सुद्धिर्मनसो या | शुद्धिः सा साद्यस्य तु रागाद्यविदुष्टा चेच्चत्वारोऽप्यस्य करस्थाः पुरुषार्थाः || ७-३७ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे स्रुक्सुवादिलक्षणं नाम सप्तमः पटलः | अथाष्टमः पटलः अथ मन्त्रात्मभूतानां देवतानां यथोचिता | पूजा सिद्धिकरी ज्ञेया दृष्टादृष्टफलप्रदा || ८-१ || तया स्युर्देवतास्तुष्टाः पुरुषार्थफलप्रदाः | पूजा सा त्रिविधा ज्ञेया श्रेष्ठमध्याधमक्रमात् || ८-२ || पूजोत्तमा भवति षोडशधोपचारैर्या मध्यमा प्रभवतीह दशोपचारा | पञ्चोपचारविधिना त्वधमा सपर्येत्यासां यथा विभवमर्चनमाश्रयीत || ८-३ || कल्पतन्त्रगुरुप्रोक्ता यस्य मन्त्रस्य यादृशी | पूजा श्रेष्ठादिभेदेन तयाराध्यैष साधयेत् || ८-४ || आसनावाहनार्घ्यादि पाद्यमाचमनीयकम् | साङ्गोपाङ्ग तथा स्नानं वासनाभरणानि च || ८-५ || गन्धः पुष्पं तथा धूपो दीपश्चरुनिवेदनम् | अग्निकार्यं नमस्कारो जपपूजासमर्पणम् || ८-६ || इति षोडशधोद्दिष्टा ह्युपचाराः समासतः | अर्घ्यं पाद्यं तथाचामः स्नानं गन्धश्च पुष्पकम् || ८-७ || धूपदीपनिवेद्यानि नमस्कारश्च ते दश | मध्यमायां तु पूजायामुपचाराः प्रकीर्तिताः || ८-८ || गन्धः पूष्पं धूपदीपौ निवेद्यं पञ्चैवं स्युस्तूपचाराः कनिष्ठे | अप्येतेषां लक्षणानां प्रभेदाः संलिख्यन्ते साधकानां हिताय || ८-९ || शक्त्यादिस्वाङ्गशक्त्यन्तं पीठाब्जं वाब्जमेव वा | यत् तन्मत्रविधानोक्तमासनं तत् प्रचक्षते || ८-१० || आधारो वेत्यासनं देवतायाः स्वासीनास्मिन् पूज्यते देवतेष्टा | धातोरासेत्यस्य चैवोपवेशः सिद्धं तस्मादासनं प्राक् प्रशस्तम् || ८-११ || व्योमाम्बुजादथो बिन्दोर्हृदयाद्वार्कमण्डलात् | यत् तत्त्वमानयीताअस्मिन् तदावाहनसंज्ञितम् || ८-१२ || स्वत एवाभिपूर्णस्य तत्त्वस्येहार्चनादिषु | सादरं संमुखीभावस्तदावाहनमिष्यते || ८-१३ || पुष्पैरञ्जलिमापूर्य हृदयादिस्थितं विभुम् | सौषुन्नमार्गेणादाय बिन्दोरभ्युदितं स्मरन् || ८-१४ || तावदुच्चारयेन्मन्त्रं यावन्निष्कलगोचरम् | तस्मादादाय विस्रब्धः स्थिरधीः पुरतः स्थिते || ८-१५ || बिम्बे वा स्थण्डिले वापि न्यसेदावाहनं तु तत् | आवाहनाङ्गभूतानि स्थापनं सन्निधापनम् || ८-१६ || संन्निरोधामृतीकाराववकुण्ठनमेव च | साकारस्येष्टदेवस्य पूजार्थं कल्पितासने || ८-१७ || उपवेशनमुद्दिष्टं स्थापनं नाम भक्तितः | आकर्मकाण्डपर्यन्तं सन्निध्यः दैवतस्य तु || ८-१८ || अविच्छेदेन पूजायां सन्निरोधः स कथ्यते | अविभिन्नस्वभावानां यदभिन्नं प्रयोजनम् || ८-१९ || अङ्गानामङ्गिना सार्धममृतीकरणं हि तत् | आनन्दायतनं तत्त्वं सच्चिदानन्दविग्रहम् || ८-२० || तदेतन्मूर्तगं ध्येयं यत् तत् स्यादवकुण्ठनम् | अवकुण्ठनवत् तेजो रुचिराङ्गप्रवर्धनम् || ८-२१ || लावण्यामृतपूराढ्यं यत्तदुक्तं प्ररोचनम् | पूजां प्रयुज्यमानां तु गृहीत्वानुग्रहादिकम् || ८-२२ || कर्तुं सामर्थ्यमस्यास्ति यत् तत् स्यात् संनिधापनम् | आसनावहानाधिकारः अर्घ्यं नामार्हणं प्रोक्तं तदर्हायागताय यत् || ८-२३ || कल्पितं दीयते तत् तद्विधानादर्चनादिषु | तच्चास्य त्रिविधं ज्ञेयं शैवं शाक्तं च वैष्णवम् || ८-२४ || शैवमर्घ्यं षडङ्गं चाप्यष्टाङ्गं च द्विधा भवेत् | गन्धपुष्पाक्षतकुशा दूवार्ग्रं च तथोदकम् || ८-२५ || भोजेन्द्रब्रह्मशम्भूक्तं षडङ्गार्घ्यमुदाहृदम् | कुशाक्षततिला दूर्वा गन्धः पुष्पं यवास्तथा || ८-२६ || क्षीरं चाष्टाङ्गमर्घ्याम्भः शैवं स्याद् विजयोदितम् | गन्धपुष्पाक्षतयवाः कुशदूर्वाग्रसर्षपाः || ८-२७ || आपश्चेत्यष्टभिर्द्रव्यैः शाक्तमर्घ्यमुदीरितम् | सिद्धार्थाक्षतदर्भाग्रगन्धपुष्पयवाः फलम् || ८-२८ || तिलाश्चेत्यष्टभिर्युक्तमम्भोऽर्घ्यं वैष्णवं स्मृतम् | हैरण्यं राजतं ताम्रमलाभे वाथ दारवम् || ८-२९ || पात्रं त्रिकुडुवैः पूर्णमर्घ्ये शङ्खस्तु वा भवेत् | आपूर्यार्घ्यं तु मूलाङ्गैरभिमन्त्र्यामृतीकृतम् || ८-३० || ध्यात्वा तु सकलोपाधिविग्रहं संमुखं विभुम् | परमामृतनिःष्यन्दधवलीकृतदिङ्मुखम् || ८-३१ || समुत्क्षिप्य विशेषार्घ्यभाजनं वामपाणिना | पश्चान्निवेदयेदर्घ्यं दक्षिणेन करेण तु || ८-३२ || अर्घ्यविधिः | पाद्यं तु सर्वसामान्यं दूर्वाश्यामाकपङ्कजैः | लक्ष्म्याम्भसा समापूर्य पाद्यं दद्यात् तु पादयोः || ८-३३ || सजातीफलतक्कोललवङ्कं शीतलं जलम् | प्रपञ्चादिषु यत् प्रोक्तं सामान्याचमनीयकम् || ८-३४ || दधिमध्वाज्यदुग्धाम्भांस्येकीकृत्य विधाय तु | सहेमं कांस्यपात्रेण कूर्चाभ्यां परिगृह्य च || ८-३५ || मधुपर्कं तु तद् दद्यात् सामान्यं तच्च मन्त्रतः | न नित्ययजनेष्विष्टं मधुपर्कनिवेदनम् | नैमित्तिकेषु तच्छस्तं प्रतिष्ठास्नापनाअदिषु || इति पौष्करे | पुनराचमनीये च शस्तमम्भः सुगन्धि च || ८-३६ || नमः स्वधा तथा स्वाहा वषड्जातियुजा हृदा | अर्घ्यादिकचतुष्कं तु दद्यादेवं यथाक्रमम् || ८-३७ || अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् | षडाचमनपात्राणि तथैकं मधुपर्कके || ८-३८ || अर्घ्यमादौ तथा स्नाने पूजान्ते च प्रदीयते | आदौ स्नाने विभूषान्ते पाद्यं कालेषु वै त्रिषु || ८-३९ || पाद्यान्ते मधुपर्कान्ते स्नानाद्यन्ताम्बरादिषु | निवेद्यान्ते च षट्स्वेषु दद्यादाचमनीयकम् || ८-४० || धूपे दीपे च नैवेद्ये ताम्बूलं वा फलादिकम् | निवेद्याचमनं दत्त्वा कर्तव्यं कर्म चोत्तरम् || ८-४१ || प्रथमाचमनीयान्ते मधुपर्कं प्रदाय तु | सकृदाचमनं दत्त्वा ततो गन्धादिनार्चयेत् || ८-४२ || पाद्याचमनमधुपर्काधिकारः | अपनीय तु निर्माल्यं गन्धपुष्पादिनार्चयेत् | मूर्ध्नि दूर्वाक्षतान् दत्त्वा ततः स्नानं समारभेत् || ८-४३ || नि(र्मत्स?मज्ज)नं तु देवस्य प्रथमं कारयेत् ततः | सुगन्धतैलेनाभ्यज्य तथा तैलापनुत्तये || ८-४४ || यवगोधूममाषादिचूर्णैरुद्वर्तयेदपि | ईषदुष्णाम्बुशीताद्भिः सेकाल्लेपापनोदनम् || ८-४५ || समूलाङ्गमनोर्न्यासः पुष्पधूपसमर्पणम् | फलापूपादिनैवेद्यं गीतवाद्यादिमङ्गलम् || ८-४६ || पञ्चगव्यामृतस्नानं पुनर्लेपापनोदनम् | गन्धामलकहारिद्रकुङ्कुमोद्वर्तनानि च || ८-४७ || मूलाङ्गवैदिकैर्मन्त्रैः सुगन्धाम्भोभिषेचनम् | यथोपपत्तिकलशैरभिषेकश्च संभवेत् || ८-४८ || माङ्गल्यपिष्टदीपाद्यैर्नीराजनविधिस्तथा | विशुद्धवाससा बिम्बस्थिततोयापमार्जनम् || ८-४९ || हेमपुष्पादिना शश्वदशून्यं मस्तकं यथा | इत्थं हि विंशत्यङ्गं तु स्नानं सामान्यमीरितम् || ८-५० || एतेषां यदलभ्यं स्यान्मनसा तत् प्रकल्पयेत् | स्नानाधिकारः ततो वासांसि शुद्धानि सूक्ष्माण्यभिनवानि तु || ८-५१ || दुकूलपट्टकार्पासदेवाङ्गादीनि यानि ह | अन्यत्रानुपयुक्तानि विकेशान्यहतानि च || ८-५२ || भक्त्या यथोपपन्नानि शस्तान्यत्र प्रदापयेत् | भूषणानि च हैमानि नानारत्नोज्ज्वलानि तु || ८-५३ || पादाद्याकेशयोग्यानि यथाविभवसारतः | अलाभे मनसा वापि तं तु सम्यग् विभूषयेत् || ८-५४ || दर्पणं निर्मलं चात्र स्थापयेत् पुरतः प्रभोः || वस्त्रभूषणविधिः | गन्धश्च त्रिविधो ज्ञेयः शैवः शाक्तश्च वैष्णवः || ८-५५ || चन्दनं कुङ्कुमं कुष्ठं दलोशीरं तथागरु | कर्पूरं हिरिबेरं च शैवं गन्धं प्रचक्षते || ८-५६ || चन्दनागरुकर्पूरमांसीकुङ्कुमरोचनाः | कच्चोरवानराभ्यां च शाक्तो गन्ध उदाहृताः || ८-५७ || चन्दनोशीरतोयाह्वैर्मांसीकुष्ठं मुरागरू | कुङ्कुमं चेति वै गन्धमष्टाङ्गं वैष्णवं विदुः || ८-५८ || पुष्पाणि चैव कथ्यन्ते प्राग्वच्छैवादिभेदतः | तान्याग्नेयानि सौम्यानि सौम्याग्नेयानि च त्रिधा || ८-५९ || सात्त्विकानीह शुक्लानि राजसान्यरुणानि तु | कृष्णानि तामसानि स्युः पीतं राजससात्त्विकम् || ८-६० || श्यामं तमोरजोमिश्रं पत्रेष्वप्येवमेव हि | सात्त्विकाद्यैस्तु कुसुमैः फलं स्यात् सात्त्विकादिकम् || ८-६१ || श्वेतार्कं करवीरकं च कमलं दुर्धूरकार *?धे राजार्कं च सिताम्बुजं च तुलसीसाशोकसच्चम्पकैः | कल्हारं बकपाटले वकुलकं द्वे मल्लिके मालती- पालाशस्थलपद्मदर्भदम(ने? नै) र्मार्गच्छदं दूर्वया || ८-६२ || तद्वद् ग्रन्थिशमीबृहन्मरुवकैः पुन्नागनागासनै- र्नन्द्यावर्ततमालकुब्जविजयामन्दारकाश्मीरकैः | शस्तान्युत्पलकर्णिकारकुसुमैः कादम्बबैल्वान्यथो नीलं चोत्पलमित्यमूनि कुसुमान्युक्तानि शैवान्यलम् || ८-६३ || शस्ते द्वे तुलसी सिताम्बुजमथो रक्ताब्जपालाशके जातीकुब्जकमाधवीदमनकैः पुन्नागनागासनैः | नन्द्यावर्तशमीस्थलाब्जविजयासन्मल्लिकाचम्पकै- र्बिल्वं चोत्पलकेतकाद्यभिनवं कुन्दं तथा पाटलम् || ८-६४ || लक्ष्मीदेविसहाः सभृङ्गमुसलीभीतेन्द्रवल्ल्यस्तथा भद्रा श्रीपतिलङ्घिता च दशमी दूर्वाथ जम्बूच्छदम् | कल्हारं करवीरमेकदलकं पद्मं कुशाः कैरवं रक्तं चेति विलोमतोऽधिकफलं पुष्पं भवेद् वैष्णवम् || ८-६५ || अम्भोजोत्पलबन्धुजीवविजयाः पुन्नागनागान्यथो जातीकुन्दकरण्डचम्पकजपायूथीरमापाटलैः | बिल्वाशोकहयारिकुब्जदमनैर्मन्दारदूर्वादलै- र्नन्द्याह्वाप्यपराजितेति कुसुमान्युक्तानि शाक्ताम्यलम् || ८-६६ || निर्गन्धानि तथोग्रगन्धकटुकान्यस्पृश्यदुष्टानि चा- प्यन्यायोपहृतानि वा नखकृमीचिह्नानि तुन्नानि वा | ऊर्णासूत्रशिरोरुहाद्युपगतैर्म्लायत्पुराणानि वा कालातीतविलङ्घितानि च तथा पुष्पाण्यथो वर्जयेत् || ८-६७ || त्रेधा चोदितपुष्पजातिषु न चेदुक्तानि वर्ज्यानि तान्य- न्योन्यप्रतिषेधदर्शनमपि स्याद् यत्र चोक्तं विना | अन्यस्मै परिकल्पितानि च तथा वर्ज्यानि तद् युक्तितो यद्यस्यात्र विशेषतस्तु विहितं तद्दैवतं तोषयेत् || ८-७८ || सूर्याग्न्योस्त्रिविधैस्तथैव कुसुमैरिष्टं हि विघ्नेशितुः शाक्तान्यप्यथ शाम्भवानि च तथा स्कन्दार्यचण्डादिषु | शाक्तान्येव मनोजवाग्गिरिसुतादुर्गाष्टमातृप्रिया- ण्यम्भोजासनदेवराजकमलाः पूज्यास्तथा वैष्णवैः || ८-६९ || नन्द्यावर्तैरर्धरात्रे च काल्ये प्राग् रात्रेः स्यान्मालतीमल्लिकाभिः | अह्व्येवाब्जैरुत्पलैः सर्वदा वा हैमैः प्रातः केसरैरर्धरात्रे || ८-७० || आ वैवर्ण्यात् केसराणां सरोजं बैल्वं पत्रं दामनं च त्रिरात्रम् | पूजायोग्यं कार्णिकारं तु पक्षं न स्याज्जीर्णं मासषट्कं बकाख्यम् || ८-७१ || पुष्पाधिकारः धूपद्रव्येषु सर्वेषु श्रेष्ठः कृष्णागरुर्भवेत् | कर्पूरमधिकश्रेष्ठमगरूपहितं तथा || ८-७२ || गुग्गुलुश्च तथोशीरचन्दने मध्यमे स्मृते | श्रीवाससर्जावधमौ तद्वल्लाक्षा धृतं मधु || ८-७३ || सर्वैरेतैः सितोपेतैर्धूप उक्तो दशाङ्गिकः | निर्धूमस्फुरदङ्गारे निर्ज्वाले च निरिन्धने || ८-७४ || धूपं दद्यादधः किञ्चिद् घण्टां वामेन वादयेत् | विशुद्धसितसूत्रेण स्युर्वर्त्त्यो वाथ तूलजाः || ८-७५ || दीपार्थं गोघृतं मुख्यं मध्यान्त्ये तैलमाहिषे | सकर्पूरदशो दीपः फलं दद्याच्छताधिकम् || ८-७६ || दीपः केवलकर्पूरः सहस्रगुण उच्यते | प्रभूतस्नेहसंपूर्णैर्दशभिर्वा नवाष्टकैः || ८-७७ || दीपैः प्रतिनवैराराद् भ्राम्यमारात्रिकं भवेत् | न दग्धशेषवर्त्या तु पुनर्दीपं प्रवर्तयेत् || ८-७८ || नोच्छिष्टाशुचितैलाद्यैर्नान्यतैलघृतादिना | धूपदीपविधिः | व्रीहेः पञ्चशतं तलं द्विगुणितं ते द्वे प्रकुञ्चं स्मृतं ते द्वेऽथ प्रसरं तथैव कुडुबं प्रस्थार्धकं तद्द्वयम् | प्रस्थं पात्रमथाढकं शिवमथो द्रोणं च खारिः क्रमात् खारीणां त्रितयं हि भार उदितो मानं यथाशास्त्रतः || ८-७९ || नित्यं नैमित्तिकं चेति नैवेद्यं द्विविधं मतम् | तच्चोत्तमोत्तमाद्यं तु नवभेदेन वक्ष्यते || ८-८० || तण्डुलाः शालिजाः शस्ताः कलमा राजशालिजाः | नीवारजास्त्वथो मध्या व्रीहिजा वैणवास्तथा || ८-८१ || प्रियङ्गुयवगोधूमश्यामाकास्त्वधमाः क्रमात् | तण्डुलेभ्योऽष्टमांशाः स्युरुपदंशास्तथा दधि || ८-८२ || द्वात्रिंशदंशमाज्यं स्याच्छर्करामधुनी तथा | तत्र नित्यविधेरष्टद्रोणशालिजतण्डुलैः || ८-८३ || सार्धरात्रं चतुष्कालं पूजायां विनिवेदयेत् | पायसं कृसरं गौलमन्नं तच्च चतुर्विधम् || ८-८४ || यथोचितोपदंशाज्यदध्यपूपरसोत्तरम् | सगीतनृत्तवादित्रं सभूतबलिमङ्गलम् || ८-८५ || तत्र पञ्चशतं दीपास्त्वेवं स्यादुत्तमोत्तमम् | षड्भिर्द्रोणैश्चतुष्कालमभ्यर्च्य विनिवेदयेत् || ८-८६ || सहोमं द्विशतं दीपाः स्युर्गीतबलिनर्तनैः | कुर्यात् पूर्वानुसारेण तत् स्यादुत्तममध्यमम् || ८-८७ || पञ्चद्रोणैश्चतुष्कालं निवेद्यं पूजनं तथा | अष्टोत्तरशतं दीपैर्गीतवाद्यबलिक्रियाः || ८-८८ || अग्निकार्यं च कुर्वीत स्यादेवं तूत्तमाधमम् | सचतुर्द्रोणनैवेद्यं चतुष्कालोचितार्चनम् || ८-८९ || गीताद्यं बलिहोमौ च प्रदीपाः स्युश्च सप्ततिः | मध्यमोत्तममेवं स्यान्मध्यमध्येमथोच्यते || ८-९० || भारार्धतण्डुलैः प्राग्वन्नैवेद्यं चार्चनादिकम् | मध्याह्न एव होमः स्याद् द्विकालं नर्तनादिकम् || ८-९१ || चत्वारिंशत् प्रदीपाः स्युर्मध्यमध्ये बलिस्तथा | खारितण्डुलनैवेद्यं चतुष्कालार्चना बलिः || ८-९२ || होमो द्वादश दीपाः स्युर्गीताद्यं मध्यमाधमम् | सायंप्रातस्त्वाढकाभ्यां शिवं तन्मध्याह्ने स्यादह्नि वेदप्रदीपाः | रात्रावष्टौ स्युस्त्रिकालं च पूजा पञ्चातोद्यैः स्यात् कनिष्ठोत्तमाख्ये || ८-९३ || प्रातः पात्रं सायमप्यत्र पात्रं स्यान्मध्याह्ने त्वाढकं चाह्नि दीपौ | तत्वारो वै रात्रिदीपास्त्रिकालं पूजेत्युक्तं मध्यमं यत् कनिष्ठे || ८-९४ || सायंप्रातः प्रतिप्रस्थद्वयनैवेद्यमर्चनम् || ८-९५ || दीपोऽह्नि निशि दीपावित्युक्तं स्यादधमाधमम् | नित्यनैवेद्यप्रकरणम् | अष्टद्रोणं समारभ्य यावद् द्वादशभारकम् || ८-९६ || नैमित्तिकं स्यानैवेद्यं नवधात्रापि पूर्ववत् | उत्तमोत्तमपूर्वं तु पूजां चैवं समूहयेत् || ८-९७ || स्यात् काम्यमपि नैवेद्यं यावद् वा प्रार्थितं भवेत् | न कालनियमस्तत्र साङ्गं पूजा प्रशस्यते || ८-९८ || नैमित्तिककाम्यविधिः | क्षीरं त्रिभागं भागस्तु तण्डुलाः पायसस्य तु | क्षीराज्यतण्डुलतिलाः समाः स्युः कृसरान्नके || ८-९९ || भिन्नमुद्गैः शुभास्तण्डुलाः स्युः समास्तस्य चार्धं घृतं स्याद् घृतार्धं गुलम् | तण्डुलेभ्यस्तथा योपयः षड्गुणं स्याद् गुलान्नं तु तद् युक्तरम्भाफलम् || ८-१०० || धौतदन्ता द्विजाः स्नातशुक्लाम्बरा वज्रपूतैर्जलैर्मौनिनस्तण्डुलान् | क्षालयेयुस्तथा सप्तकृत्वोऽङ्गकैर्ज्वालयेयुस्तथाग्निं धवित्रादिना || ८-१०१ || ध्यात्वा चुल्लिं शक्तिमग्निं च रुद्रं वह्नेर्बीजात् तारकाद् वाभिपूज्य | तस्मिन्नग्नौ तद्धविः साधयेयुरोङ्काराज्यं चाभिधार्याहरेयुः || ८-१०२ || बृहत्यः कदल्यस्तथा कुण्डहाल्यः सकूश्माण्डमुक्तं भवेत् कर्करी च | तथा कारवेल्लं च चूतार्द्रकाख्ये बृहन्मुद्गमुद्गास्तथा नालिकेरम् || ८-१०३ || सशिम्बाश्च माषास्तथा चिद्भटाख्यः कुलस्थाश्च शस्ताः प्रकृष्टोपदंशाः | कदल्यादिपक्वैः सिताप्योषलोणैर्युतः स्याद् यवानीदधिक्वाथसूपः || ८-१०४ || तथा मोदकांश्चोपदंशांश्च कुर्याद् घृतव्योषलोणैर्यवानीष्टपिष्टैः | ततः पात्रवर्गं बहिः शोधयित्वा सशङ्खध्वजच्छत्रमुत्थापयेच्च || ८-१०५ || हिरण्याद्यमन्त्रं हृदा धौतमद्भिः कदल्यादिपत्राणि वात्राभिघार्य | हविस्तत्र दत्त्वा युतं चोपदंशैः कदल्यादिपक्वैः फलैर्मोदकैश्च || ८-१०६ || सिताक्षौद्रदुग्धेऽथ दध्ना तु गव्यं घृतं चारुगन्धं नवं रागभागम् | निवेद्यात् प्रदेयं तु पुष्पार्पितेऽस्मिंस्ततो धेनुमुद्रामृतैः प्लावयित्वा || ८-१०७ || सम्प्रोक्ष्य मूलमन्त्रेण दत्त्वाम्भोऽग्निप्रियान्तिकम् | सपुष्पदक्षिणकरो हविः स्पृष्ट्वा निवेदयेत् || ८-१०८ || ध्यायेत् तन्मनसा दिव्यमन्नाज्यं तृप्तिकारकम् | पानीयं च निवेद्यास्मै हृद्यं शीतं सुगन्धि च || ८-१०९ || बहिर्निर्गत्य तच्छेषमन्नं हुत्वानलेऽपि च | मूलाङ्गादिविधानेन तत्तन्मन्त्रेण साधकः || ८-११० || तत्र किञ्चिद् बलिं दत्त्वा वह्निं भक्त्या क्षमापयेत् | प्रदक्षिणनमस्कारस्तुतिभिः संप्रसादयेत् || ८-१११ || प्रक्षाल्य चरणौ सम्यगाचान्तोऽन्तः प्रविश्य तु | सुतृप्तं दैवतं स्मृत्वा दद्यादाचमनीयकम् || ८-११२ || ततो लवङ्ककर्पूरतक्कोलक्रमुकान्वितम् | निवेदयेच्च ताम्बूलं गन्धपुष्पार्चितं ततः || ८-११३ || धूपयित्वा नमस्कृत्य जपेन्मूलं तु शक्तितः || नैवेद्याधिकारः | अङ्गानि चैव परिवारगणांश्च सर्वान् पञ्चोपचारविधिना तु यथोपपत्त्या | संपूजयेदनुपपन्नमिहार्चनेयं तत्कल्पयेच्च मनसैव समहितात्मा || ८-११४ || अत्रोपचारभेदेन पूजाभेदांस्तथापरे || ८-११५ || वदन्ति तांश्च वक्ष्यामः किञ्चिद्भेदात् पुरोदितात् | दशोपचाराः कथिता निवेद्यान्ते तु पूजने || ८-११६ || होमान्तके तु कथिता ह्युपचारास्तु षोडश | बल्यन्ते चापि ते ख्याताः पञ्चविंशतिसंख्यया || ८-११७ || नृत्तान्ते चापि षट्त्रिंशदुपचाराः प्रकीर्तिताः | उत्तमोत्तमपूजायामुत्तमे वा भवन्त्युत || ८-११८ || आसनावाहनार्घ्याणि पाद्यमाचमनीयकम् | साङ्गं स्नानं तथा वस्त्रमुपवीतं च भूषणम् || ८-११९ || अञ्जनं गन्धपुष्पे च धूपो दीपश्च दर्पणम् | नीराजनं च नैवेद्यमग्निकार्यं प्रदक्षिणम् || ८-१२० || नमस्कारः स्तुतिर्वाद्यगीते नित्यबलिस्तथा | पूजासमर्पणं चेति पञ्चविंशतिचोदिता || ८-१२१ || अथासनादयः पञ्च पञ्चगव्याभिषेचनम् | दुग्धेन दध्ना चाज्येन मधुनक्षुरसन च || ८-१२२ || अभिषेकस्तु तत्स्नानं चक्रवर्त्युपचारतः | वस्त्रोपवीताभरणान्यञ्जनं गन्धपुष्पके || ८-१२३ || धूपदीपौ च मुकुरं नीराजनविधिस्ततः | मुद्राणां दर्शनं तद्वन्नैवेद्यं पुस्तकार्चनम् || ८-१२४ || होमकर्म च ताम्बुलं पादुके चामरध्वजौ | छत्रं च नित्ययात्रा च बलिदानमतः परम् || ८-१२५ || प्रदक्षिणनमस्कारस्तोत्राण्यातोद्यमेव च | गीतं नृत्तं च पूजादेः समर्पणमतः परम् || ८-१२६ || षट्त्रिंशदुपचाराः स्युरेवमुक्ताः क्रमात् क्वचित् | व्यत्यस्तक्रमतो वा स्युस्तत्तत्तन्त्रोदितास्त्वमी || ८-१२७ || त्रिविधोपचाराधिकारः | बलियात्रोत्सवाः शस्ताः स्थिरलिङ्गादिपूजने | न चलस्थण्डिलविधौ मण्डलक्षणिकादिषु || ८-१२८ || इति निगदितमार्गास्तूपचाराः प्रदिष्टाः पृथगिह परिपाट्या तन्त्रभेदेषु दृष्टाः | विविधमनुसुराणां ये च सामान्यकल्पाः स्वभिमतफलसिद्धिः साधकानां यथा स्यात् || ८-१२९ || इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे उपचारपटलोऽष्टमः || अथ नवमः पटलः अथोच्यते नैत्यकमत्र कर्म सामान्यतः सिद्धिकरं मनूनाम् | समस्तवर्णाश्रमलिङ्गभाजामावश्यकं यत् करणीयमेकम् || ९-१ || प्रभावतीष्वेव हि तारकासु कौलं तु सूर्योदयदर्शनात् प्राक् | वदन्ति सन्ध्यां मुनयः प्रभातां तस्यां विनिद्रः शयनं च जह्यात् || ९-२ || अत्र पितामहः: - नक्षत्रज्योतिरारभ्य आ सूर्योदयदर्शनात् | प्रातःसन्ध्येति तां प्राहुर्मुनयो वेदपारगाः || इति | स्मरन् हृदम्भोरुहकोटरस्थं शैवं परं ज्योतिरथात्मसंज्ञम् | व्रजेत् समुत्थाय दिशं विशुद्धामम्भः प्रभूतं सुलभं च यस्याम् || ९-३ || अत्र स्मृतिः: - निवीतं दक्षिणे कर्णे समासज्याम्बरेण तु | अवकुण्ठ्य शिरो मौनी मलोत्सर्गमथाचरेत् || इति | विदूरतो मार्गजलाशयादेश्छन्ने तृणैर्भूमितले निवीती | उदङ्मुखो याम्यमुखोऽह्नि रात्रौ त्यक्त्वा मलं चाथ गृहीतशिश्नः || ९-४ || जलान्तिकं प्राप्य मृदं विशुद्धामादय चाष्टाङ्गुलखातलब्धाम् | निधाय तां दक्षिणतो धृताभिरद्भिस्तु शौचं विधिवत् प्रकुर्यात् || ९-५ || एकैव लिङ्गे करयोस्तु तिस्रस्तथा गुदे पञ्च मृदः प्रयोज्याः | वामे करे सप्त दशैव पाण्योः कनिष्ठकल्पं खलु शौचमेतत् || ९-६ || द्वे चापि लिङ्गे करयोश्चतस्रो गुदे दश स्युर्दश वामपाणौ | हस्तद्वये द्वादश चेति मृत्स्नाः शौचेष्वयं मध्यविधिः प्रदिष्टः || ९-७ || तिस्रोऽथ लिङ्गे करयोश्च पञ्च त्रिपञ्चसंख्यास्तु गुदे मृदः स्युः | वामे करे द्वादश तत्प्रसंख्याः पाण्योरयं शौचविधिर्हि मुख्यः || ९-८ || उत्थाय वासः परिधाय सम्यगाजानुसन्धेश्चरणौ करौ च | प्रक्षाल्य मृत्स्नासलिलैर्विशुद्धैर्वक्त्रं च गण्डूषजलैर्विशोध्य || ९-९ || प्लक्षाम्रजम्बूककुभाश्वकर्णमालूरकाशोकलवङ्कजाद्यम् | वैकङकतोदुम्बरचम्पकं वा शस्तं बुभुक्षोः खलु दन्तकाष्ठम् || ९-१० || स्वैरङ्गुलैर्द्वादशभिर्मितं तत्कनिष्ठिकानाहसमं सवल्कम् | पूर्वामुखोऽद्यादुपविश्य मौनी प्रदक्षिणं वामरदादधः प्राक् || ९-११ || मोक्षार्थिनां कण्टकिनस्तु शस्तास्तद्वच्छिरीषार्जुननक्तमालः | शस्तो ह्यपामार्ग इतीह तेषामष्टाङ्गुलं दन्तविशोधनं तत् || ९-१२ || प्. ८२) सनिम्बधात्रीधवशेलुशिग्रुवानीरकैरण्डतृणैः कुशैर्वा | स्थितः प्रजल्पन् शयितोऽथवाद्यात् तैलावसिक्तोऽपि न दन्तकाष्ठम् || ९-१३ || नोपोषितः पारणपूर्वकालं न जन्मभे पर्वणि नासिताहे | नाप्यष्टमीश्राद्धदिनेषु दन्तान् प्रधावयेदङ्गुलिभिर्नखैर्वा || ९-१४ || अपिच सार्धत्रिशतिकायामत्र कालोत्तरे - प्रतिपत्पर्वषष्ठीषु नवम्यामपि वा गुह! | दन्तानां काष्ठसंयोगे महान् दोषोऽभिधीयते || इत् | तद्वत् तु जिह्वामपि मार्जयित्वा तद्दन्तकाष्ठादि विसृज्य दूरे | गण्डूषकद्वादशकेन पश्चादाचम्य तु स्नानमुपक्रमेत् || ९-१५ || सरित्सु गङ्गादिषु मुख्यमुख्यं तीर्थेषु चान्यासु नदीषु मुख्यम् | सरस्तटाकादिषु मध्यमं स्यात् स्नानं तु कूपेषु गृहेषु नीचम् || ९-१६ || स्नायात् तु कूपादिषु शुद्धपात्रैः स्नातैर्द्विजैरेव समाहृताद्भिः | स्नायात् तु नोष्णाम्भसि कर्मयोग्यं नैतद् यतो रोगिषु सम्मतं तत् || ९-१७ || भुवमष्टाङ्गुलां खात्वा त्यक्त्वाधो मृदमस्नतः | खातां मृदं समादाय तत् खातं परिपूर्य च || ९-१८ || शिरसा पयसस्तीरे धौते संस्थाप्य तां पुनः | शिखया शोधयित्वा तु वर्मणा विभजेत् त्रिधा || ९-१९ || लिप्त्वैकभागमा नाभेः प्रक्षाल्याचम्य वाग्यतः | द्वितीयेनास्नयुक्तेन दीप्तेनाङ्गानि लेपयेत् || ९-२० || द्विजश्चेदुद्धृतासीति मन्त्रेण प्रार्थयेद् भुवम् | इतरो वक्ष्यमाणेन * * * * * * * * || ९-२१ || धारणं पोषणं त्वत्तो भूतानां देवि! सर्वदा! || तेन सत्येन मां पापं पापान्मोचय धारिणि! || इत् | * * * * * * * * ततोऽक्षाणि निरुध्य तु | प्राणानायम्य सलिले निमज्ज्यास्नमनुस्मरन् || ९-२२ || कालानलप्रतीकाशमथोपतटमम्भसि | उपविष्टो ह्यनुदिते सूर्ये सन्ध्यां भजेद् द्विजः || ९-२३ || ब्राह्मीं पूर्वं ततोऽस्त्राख्यां मन्त्रसन्ध्यां तथेतरः | उपास्योर्ध्वं जलं क्षिप्त्वा विधिस्नानं समाचरेत् || ९-२४ || स्वमन्त्रसन्नद्धतनुः स्मृत्वात्मानं हृदम्बुजे | तृतीयं पूर्वमृद्भागमादायानाभि वारिणि || ९-२५ || स्थित्वा वामकरे कृत्वा त्रिधा तां विभजेत् पुनः | दक्षिणं भागमस्त्रेण प्राक् स्वमूलेन तूत्तरम् || ९-२६ || अङ्गमन्त्रेणाभिमन्त्र्य गृहीत्वास्त्रेण दक्षिणम् | हुंफडन्तेन रक्षायै दशदिक्षु क्षिपेत् सुधीः || ९-२७ || मूलाभ्यस्तेन पूर्वेण जले दक्षिणपाणिना | निक्षिप्य भ्रामयेद् वारि शिवतीर्थमनुस्मरन् || ९-२८ || अङ्गाभ्यस्तार्कदीप्तेन शिष्टभागेन विग्रहम् | सर्वमालिप्य तत्तीर्थं स्वनाम्नावाह्य पूजयेत् || ९-२९ || गन्धपुष्पैर्यथालाभं मनसा वा समाहितः | मुख्यनद्यब्धितीर्थेषु नान्यतीर्थानि कीर्तयेत् || ९-३० || कीर्तनान्निष्फलं तत् स्यात् क्रुध्येच्चातो न कीर्तयेत् | केवलाम्भस्सु गङ्गादितीर्थानां कीर्तनं स्मृतम् || ९-३१ || तत्तत्फलप्रदं तस्मात् तत्र तीर्थानि कीर्तयेत् | ततः प्राणान् समायम्य त्रिर्निमज्ज्य समाहितः || ९-३२ || निमग्न एव साङ्गं स्वं मूलं शक्त्या जपेद्धृदा | अपिच द्विजश्चेत् - हिरण्यशृङ्गं वरुणं प्रपद्य इत्यथादितः सूक्तमुदीरयन् हृदा | निमग्न एवाम्भसि शक्तितोऽखिलान् हरत्यघौघानघमर्षणे स्थितः || ९-३३ || यथा जलौघे लवणस्य सञ्चयः प्रयाति सद्यो विलयं महानपि | तथा महानप्यघमर्षणेंऽहसां चयोऽपि नाशं व्रजतीति निश्चयः || ९-३४ || ततः स्थितो वारिणि वामदक्षिणौ करौ शशाङ्कार्कशिवद्वयात्मकौ | विभाव्य मूलेन च कुम्भमुद्रया शिरस्यथाङ्गैरपि वाभिषेचयेत् || ९-३५ || द्विजस्तु सूक्तैः पवमानपूरुषश्रियां यथाशक्त्यभिषिच्य तज्जलात् | तटं गतः स्वे परिधाय वाससी विशुद्धशुक्ले क्षतिदोषवर्जिते || ९-३६ || स्नातो नाङ्गानि निर्मृज्यात् पाणिना वार्द्रवाससा || ९-३७ || तथा नेक्षेत पाषण्डिपातकिश्वान्त्यजाशुचीन् | चितिं च चितिकाष्ठं च यूपं चण्डालमेव च || ९-३८ || स्पृष्ट्वा देवलकं चापि सचेलो जलमाविशेत् | नैमित्तिकेषु कृत्येषु ग्रहणेन्दुक्षयादिषु || ९-३९ || अयनद्वयतीर्थादौ सचेलः स्नातुमर्हति | सन्ध्यासु वमने शुक्लविण्मूत्रोच्छिष्टकुष्ठिनाम् || ९-४० || संपर्के वपने चाब्धेः स्पर्शने चाप्यपर्वणि | वृषलप्रतिलोमानां मार्जारस्पर्शनेऽपि च || ९-४१ || श्मश्रुकर्मणि चोत्तीर्य नदीं वारुणमाचरेत् | दानादौ स्नानजप्यादौ तर्पणे हवनेऽपि वा || ९-४२ || सर्वत्र सपवित्रः स्यादन्यथा स्यात् तदासुरम् | यद्वा मुक्तशिखो नग्नः प्रलपन् वावकुण्ठितः || ९-४३ || करोति कृत्यं दैवाद्यं सर्वं विद्यात् तदासुरम् | पादप्रक्षालने मृत् स्यात् सकृत् पाण्योश्च सर्वदा || ९-४४ || स्नानादिसर्वकृत्यादौ भोजनादौ च संविशेत् | मूत्रादिशौचस्यान्ते च हस्तपादौ प्रधावयेत् || ९-४५ || अथाचमनकल्पोऽत्र सामान्यस्मृतिचोदितः | कथ्यते वैदिकी सन्ध्या तथास्त्राख्या च तान्त्रिकी || ९-४६ || अङ्गुल्यग्रे दैवमङ्गुष्ठमूले ब्राह्मं तीर्थं पर्वसन्धिष्वथार्षम् | प्राजापत्यं स्यात् कनिष्ठामथोऽथ पित्र्यं तर्जामूलदेशे द्विजानाम् || ९-४७ || हस्ते तूक्तं दक्षिणे तत्तले स्यादाग्नेयाख्यं तीर्थमन्यत्र सौम्यम् | दैवाद्यं यत् कर्म कुर्यात् स्वतीर्थादाचामेत् तु ब्रह्मतीर्थेन तोयैः || ९-४८ || ज्येष्ठाग्रेऽग्निस्तर्जनीमूर्ध्नि वायुर्मध्याग्रेऽर्कोऽनामिकाग्रे सुरेन्द्रः | प्रजापत्या स्यात् कनिष्ठेति देवैरङ्गुल्यः स्युर्दर्क्षिणे विप्रपाणौ || ९-४९ || प्राग्वक्त्रो वोदङ्मुखः सोपवीतो बद्ध्वा चूडां जानुमध्यस्थवाहुः | तोयोत्क्षेपी सूपविष्टोऽथ मौनी स्यादाप्रह्वस्त्वेकधीराचमिष्यन् || ९-५० || अदुष्टरसगन्धाद्यैरकीटाफेनबुद्बुदैः | अनुष्णैरम्बुभिः शुद्धैराचामेदभिवीक्षितैः || ९-५१ || हृत्कण्ठास्यगताः पुनन्ति विधिनैवापो द्विजातीन् क्रमात् त्रिः पीता वृषलस्त्रियावपि तथा कुण्डानुलोमादिकान् | आचम्य त्रिरपस्त्रिवेदपुरुषान् प्रीणाति निर्मार्ष्टि यद् द्विः साथर्वषडङ्गयज्ञपुरुषाः प्रीताः स्युरप्यग्नयः || ९-५२ || प्रीणात्यर्कमनामिकानयनयोः स्पर्शात् तथाङ्गुष्ठयुक् साङ्गुष्ठा त्वथ तर्जनीसममिता घ्राणद्वये मारुतान् | अङ्गुष्ठेन कनिष्ठिकाश्रवणयोराशाश्च नाभेर्वसू- नात्मानं तु हृदोंऽसयोर्दिवमृषीन् मूर्ध्नः समस्ताङ्गुलैः || ९-५३ || आचम्येत्थं द्विर्विशुध्येत सर्वेषूच्छिष्टेषु क्षालने पादयोश्च | कक्ष्यामोक्षे वा शिखाबन्धमोक्षे निष्ठीव्याथो जृम्भिकायां क्षुते च || ९-५४ || आत्मविद्याशिवैस्तत्त्वैरीश्वरायनमोन्तकैः | अपः पिबेत् त्रिरभ्यस्तास्तच्छैवाचमनं स्मृतम् || ९-५५ || ओष्ठावस्त्रेण संसृज्य खानि सर्वात्मना स्पृशेत् | एवं सन्ध्याप्रसङ्गेन वारुणस्नानमीरितम् || ९-५६ || वारुणस्नानाचमनाधिकारः | आग्नेयादीनि चान्यानि कुर्यात् स्नानानि संभवे || ९-५७ || आग्नेयं भस्मना स्नानं निखिलाघनिबहर्णम् | स्वतेजः संभवेनैव येन स्नातः स्वयं शिवः || ९-५८ || स्नानं प्राग् वारुणं कृत्वा पश्चादाग्नेयमाचरेत् | आपद्यपि तथा शक्तौ देहस्याग्नेयमेव वा || ९-५९ || सन्ध्यात्रये च जप्यादौ चर्या पूर्वावसानयोः | भुक्त्वा सुप्त्वाम्बु पीत्वा वा कृत्वाप्यावश्यकादिकम् || ९-६० || स्त्रियं वाप्यनुलोमादीन् स्पृष्ट्वा वा मूषिकाशुचीन् | आचरेत् स्नानमाग्नेयं यथैवाथर्वचोदितम् || ९-६१ || देवाग्निगुरु(विद्या? वृद्धा)नां समीपेऽन्त्यजदर्शने | अशुद्धभूमौ मार्गे वा स्थितो नोद्धूलयेद् बुधः || ९-६२ || कल्पानुकल्पोपकल्पभेदात् तद्वदकल्पकम् | चतुर्धा भस्म शैवोक्तं पूर्वं पूर्वं गुणाधिकम् || ९-६३ || अरोगायाः सवत्साया भूमावपतितं तु गोः | गोमयं पद्मपालाशपत्राद्यन्यतमेन तु || ९-६४ || गृहीत्वा तु विशुद्धात्मा गायत्र्या तु द्विजोऽपरः | साङ्गमूलेन शैवाग्नौ कल्पं तद्भस्म कीर्तितम् || ९-६५ || आरण्यगोमयं दूरे ग्रामादेः पूतमाहरेत् | प्राग्वच्छिवाग्निना दग्धं यत्तत् स्यादनुकल्पकम् || ९-६६ || अग्निदग्धेष्वरण्येषु गृहीत्वा भस्म तत् पुनः | गोमूत्राबद्धपिण्डं तु विशोध्याथ शिवानले || ९-६७ || दग्धं भस्मोपकल्पं स्यादकल्पकमथोच्यते | विशिष्टविप्रगोवाटजातं वा देवतालयात् || ९-६८ || गृहीत्वा साधितं प्राग्वत् तद् भस्म स्यादकल्पकम् | चतुर्विधं च तद् भस्म जातिसङ्करवर्जितम् || ९-६९ || अपरिग्रहमन्येषां कर्मस्पर्शाद्यदूषितम् | श्लक्ष्णं पूतमरोगं च पात्रस्थं भसितं सितम् || ९-७० || आग्नेयस्नानयोग्यं स्याद् यथोक्तं ब्रह्मशम्भुना | तद्भस्म शिवमन्त्रेण शक्त्याभ्यस्तं सुरक्षितम् || ९-७१ || आदाय हस्तेनाधाराद् दक्षिणेनाभिमन्त्र्य तु | विशोध्य धारणाभिस्तु भूतशुद्धिविधानतः || ९-७२ || षडङ्गेनाभिमन्त्र्यादौ कृत्वा वामकरे पुनः | कृत्वास्त्रेण मलस्नानं मस्तकप्रभृति क्रमात् || ९-७३ || ततस्त्वीशानपुरुषाघोरवामैः ससद्यकैः | क्रमान्मूर्धास्यहृद्गुह्यजङ्घान्ताशेषविग्रहम् || ९-७४ || उद्धूलयेद् द्विजोऽन्ये तु ललाटांसहृदादिषु | धारयेयुस्त्रिपुण्ड्राणि तथैव ब्राह्मणादयः || ९-७५ || त्रियायुषं धारयेयुर्वेदप्रामाण्यदर्शनात् | त्रियायुषं जमदग्नेः कश्यपस्यागस्त्यस्य त्रियायुषमृषीणां त्र्यायुषं यद् देवानां त्रियायुषं तन्मेऽस्तु त्रियायुषं शिवो नामासीऽऽ ति स्रुतेः || आग्नेयस्नानाधिकारः | अनभ्रे प्रतपत्यर्के वृष्टिं दृष्ट्वोर्ध्वबाहुना || ९-७६ || माहेन्द्रस्नानमीशानात् कार्यं सप्तपदावधि | गवां खुरपुटोत्खातरेणुभिः पवनोपगैः || ९-७७ || गोमध्यगस्तत्पुरुषं गोसूक्तं वा जपन् द्विजः | अन्यस्तु गोस्तुतिं गोभ्यो नमो वेत्यभ्युदीरयन् || ९-७८ || वायव्यमाचरेत् स्नानमखिलाघनिबर्हणम् | स्नानानामिह सर्वेषां मूलं श्रेष्ठं च वारुणम् || ९-७९ || तस्मात् प्राग् वारुणं कृत्वा ततः स्नानान्तरं व्रजेत् | आपोहिष्ठादिभिर्मन्त्रैर्मन्त्रस्नानं हि वैदिकम् || ९-८० || संप्रोक्षणविधानेन स्वाङ्गमूलैस्तु तान्त्रिकम् | इत्थमुत्थानकावश्यशौचदन्तविशोधनैः || ९-८१ || स्नानेन च विशुद्धस्य सन्ध्योपासनमिष्यते | द्विजः प्राग् वैदिकीं सन्ध्यामुपासीताथ तान्त्रिकीम् || ९-८२ || क्षत्रवैश्यावपि तथैवान्ये केवलतान्त्रिकीम् | उपासीरन्नतः पूर्वं वैदिकी लिख्यतेऽधुना || ९-८३ || पितामहादिस्मृत्युक्ता तान्त्रिकी चागमोदिता | स्नातसूक्तप्रकारेण क्षालिताङ्घ्रिकरद्वयः || ९-८४ || स्वाचान्तः सपवित्रस्तन्मन्त्रवत् प्रोक्षयेद् द्विजः | मन्त्राणां तदृषिच्छन्दोदेवताविनियोगवत् || ९-८५ || अनुष्ठानं फलाय स्यादन्यथा चेत् तदासुरम् | दधिक्राविण्ण इत्यादेर्वामदेवो ह्यृषिः स्मृतः || ९-८६ || छन्दोऽनुष्टुप् तथैवापो विश्वेदेवाश्च दैवतम् | अनया प्रोक्षयित्वाथ मन्त्रिताम्भः पिबेद् द्विजः || ९-८७ || सूर्यश्चेत्यादिमन्त्रस्यच्छन्दो गायत्रमेव हि | सविता देवतागस्त्यो ह्यृषिरग्निर्भवेदपि || ९-८८ || तेन पीत्वाप आचम्य प्रोक्षयेदाप्यदैवतैः | दधिक्राविण्ण- आद्येनाप्यापोहिष्ठादिभिस्तथा || ९-८९ || आपोहिष्ठादिकानां तु सिन्धुद्वीप ऋषिः स्मृतः | आपो वै देवता छन्दो गायत्रं प्रोक्षणे विधिः || ९-९० || ततोऽञ्जलिं समापूर्य तोयैः प्राग्वदनः स्थितः | ध्यायेज्ज्योतिः परं ब्रह्म सर्वलोकहृदि स्थितम् || ९-९१ || आदित्यमण्डलान्तस्थं विद्याद् देहात्मकं पुरम् | तारव्याहृतिसावित्र्या क्षिपेदूर्ध्वं यथाश्रुति || ९-९२ || ता आपो घ्नन्ति रक्षांसि वज्रीभूताः क्षणेन तु | ततः प्रदक्षिणीकृत्य समाचम्य तु तां जपेत् || ९-९३ || शुद्धायां भुवि वाग्यतस्त्वभिमुखः सूर्यं कुशेसु स्थितो गायत्रीं दशतारकां सशिरसं सव्याहृतिं त्रिः पठन् | प्राणायामपरो भवेज्जपविधेरादौ यथाशक्तित- स्तेन स्यात् परिशुद्धकल्मषतनुर्योग्यश्च जप्यादिषु || ९-९४ || प्रणवस्य मुनिर्ब्रह्मा छन्दो गायत्रमेव च | ध्यानकाले परं ब्रह्म होमकाले हुताशनः || ९-९५ || जपकाले त्रयी देवो विश्वेऽन्यत्र तु दैवतम् | विनियोगस्तु वेदादौ वाचामुद्घात एव च || ९-९६ || गायत्र्युष्णिगनुष्टुभश्च बृहतीं पङ्क्तिं सत्रिष्टुब्जग- त्याख्या व्याहृतिसप्तकस्य तु पुनश्छन्दांसि तासामृषीन् | अत्रिं चैव भृगुं च कुत्समपरं प्राहुर्वसिष्ठं तत- स्तद्वद् गौतमकाश्यपावपि पुनस्तत्राङ्गिराः सप्तमः || ९-९७ || अग्निर्वायुः सूर्यवागीश्वराभ्यां यादोनाथो वासवश्चाथ विश्वे | सप्त ख्याता देवता व्याहृतीनां स्थानान्याहुः सप्त भूरादिलोकान् || ९-९८ || विश्वामित्रस्त्वृषिर्देवः सविता भगवान् स्वयम् | छन्दस्तथैव गायत्रं सावित्र्यास्तत्त्रयं स्मरेत् || ९-९९ || सेयं चतुर्विंशतिवर्णवेद्या त्रिपाज्जपेऽष्टार्णविभागतः स्यात् | होमे च पूजाविषये चतुष्पात् स्ववर्णषट्कप्रविभक्तपादा || ९-१०० || ओमापोज्योतिरित्यादेर्गायत्रीशिरसो मुनिः | ब्रह्मानुष्टुब् भवेच्छन्दः परमात्माधिदैवतम् || ९-१०१ || प्रजापतिस्तथा दैवं शिरसोऽन्तस्य वा भवेत् | आयात्वादेर्वामदेवो मुनिः स्याच्छन्दोऽनुष्टुब् दैवतं सैव देवी | गायत्रीत्थं सम्यगावाह्य विद्वान् मन्त्रेणातो दर्भपाणिर्जपेत् ताम् || ९-१०२ || षट्कुक्षिं त्रिपदां च पञ्चशिरसं शुक्लां सरोजेक्षणां वह्न्युद्द्योतशिखां च वेदजननीं भूपादपीठामपि | शक्रप्रेतपनीरपार्थदहरित्स्वोर्ध्वाधराशोदरां क्रोडीभूतजगत्त्रयामभिमुखां पौराणनाभिं स्मरेत् || ९-१०३ || शीक्षा कल्पो ज्योतिषं शब्दशास्त्रं मूर्धानोऽस्याः स्युर्निरुक्तं च पञ्च | वायुः प्राणो विष्णुरात्मा ललाटं ब्रह्मा रुद्रस्तच्छिखा वाक् च जिह्वा || ९-१०४ || छन्दसां तु विचितिस्तनयुग्मां धर्मशास्त्रहृदयां घनकेशीम् | न्यायविस्तरमुजामनलास्यां चन्द्रसूर्यनयनामुडुहाराम् || ९-१०५ || मीमांसा (चा)थर्ववेदश्च चेष्टा वेदान्तः स्यान्मानसं योगसांख्ये | श्रोत्रे घ्राणं चापि मन्त्रास्तु यज्ञाः सर्वे चास्याः स्वाङ्गकान्तिप्रकर्षः || ९-१०६ || एवंरूपां सर्वदा सर्वसिद्ध्यै ध्यात्वा देवीं साधयेत् तां जपाद्यैः | सन्ध्याभेदाद् ध्येयभेदां विशषात् संलिख्यन्ते जप्यसंसिद्धिहेतोः || ९-१०७ || हंसारूढां सिताब्जे त्वरुणमणिलसद्भूषणां साष्टनेत्रां वेदास्यामक्षमालां स्रुचमथ कलशं दण्डमप्यादधानाम् | ध्यायेद् दोर्भिश्चतुर्भिस्त्रिभुवनजननीं पूर्वसन्ध्याभिवन्द्यां सावित्रीमृक्सवित्रीमभिनववयसं मण्डले चण्डरश्मेः || ९-१०८ || तार्क्ष्यारूढाम्बुजाक्षी शतमखमणिभा शङ्खचक्रे दधाना | दोर्भिर्युक्ता चतुर्भिः स्थितिरिह जगतां या यजूंष्युद्गिरन्ती | व्यालोलानेकहारद्युतिरुचिरुचिरा वैष्णवी मध्यमेऽह्नः सावित्री ध्येयरूपा विलसति सवितुर्मण्डले पीतवस्रा || ९-१०९ || पञ्चास्यां पिङ्गविद्युत्ततिरुचिरजटामण्डलां चन्द्रमौलिं रङ्गद्भूषाभुजङ्गस्फुटमणिकिरणव्यक्तभस्माङ्गरागाम् | ध्यायेत् खट्वाङ्गशूले भयहरवरदे व्याघ्रचर्माम्बराढ्यां सावित्रीं सत्रिनेत्रां परिणतवयसं सामसूतिं दधानाम् || ९-११० || ऋषभवाहनामपरसन्ध्यायां ध्यायेदिति यावत् इत्थं सन्ध्यात्रये त्रेधा सावित्री ध्येयविग्रहा || ९-१११ || अथास्याः प्रतिवर्णं तु दैवतानि भवन्ति हि | अग्निः प्रजापतिः सोम ईशानः सूर्य एव च || ९-११२ || वृहस्पतिस्तथैवेन्द्रो भगश्चैवार्यमा तथा | साविता च ततस्त्वष्टा पूषाथेन्द्रानलौ मरुत् || ९-११३ || ईश्वरो मित्रावरुणौ स्कन्दो विश्वेऽथ चक्रभृत् | वसवो मरुतोऽर्थेशश्चाश्विनौ चा पितामहः || ९-११४ || प्. ९१) तत्काराद्यक्षराणां तु देवताः क्रमशो मताः | पुरैव सामान्यतयात्र तारकः प्रकाशितो व्याहृतिसप्तकक्रमात् | यथार्थसङ्गो विधिवन्निरुच्यते सभूर्भुवःस्वर्महसां जनस्तपः || ९-११५ || तदेव सत्यं सवितुर्हि मण्डले स्थितं तु तेजः खलु भूर्हि सत्तया | भुवश्च तत्कारणकार्यसत्तया सुवो जगत्स्वीरितमात्मवत्तया || ९-११६ || महः प्रकाशात्मतया महत्तया जनस्तथा सर्वजनान्तरात्मता | तमोहरं यत् तपतीत्यतस्तपः परं हि तत् सत्यमनन्तमुच्यते || ९-११७ || प्रणवेनाथ संबन्धो व्याहृतीनामिहोच्यते || ९-११८ || भुः स्यादकारस्तु भुवो ह्युकारः स्वः स्यान्मकारोऽपि महोऽथ बिन्दुः | नादो जनः स्यात् तप एव शक्तिर्नादान्तसंज्ञं पदमत्र सत्यम् || ९-११९ || अथार्थप्रतिपत्त्यर्थं सावित्र्यास्तन्निरुच्यते | तदिति स्याद् द्वितीयैकवचनं ब्रह्मवाचकम् || ९-१२० || सूर्यमण्डलगं तेजस्तद् ब्रह्म परमं हि यत् | षष्ठ्यन्तः सवितुःशब्दो धातोः प्रसववाचकात् || ९-१२१ || वृष्टेश्च प्राणिजातानां साक्षात् प्रसवितुर्विभोः | वरेण्यं वरणीयत्वाच्चतुर्वर्गफलार्थिभिः || ९-१२२ || प्रथमाष्टाक्षरस्यास्य व्याप्या भूर्व्याहृतिः स्मृता | भक्तिगम्यं भवेद् भर्गः पापभञ्जनतोऽपि वा || ९-१२३ || देवस्येति च षष्ठ्यन्तं वृष्ट्यादेर्दातुरीशितुः | दीव्यमानस्य वा दीप्त्या स्वप्रकाशतयाथवा || ९-१२४ || तद् धीमहि ध्यैचिन्तायांघातोः सिद्धं हि यत् पदम् | तेजः सूर्यात्मकं ज्ञेयं चिन्तयामः शिवात्मकम् || ९-१२५ || द्वितीयाष्टाक्षरस्यास्य व्याप्या स्याद् व्याहृतिर्भुवः | धियो बुद्धीर्मनोरस्य च्छान्दसत्वमुदीरितम् || ९-१२६ || कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङ्गुपग्रहात् | य इत्यत्र तु यत् तेजो नः षष्ठी युष्मदस्मदोः || ९-१२७ || तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् | तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरिति स्मृता || ९-१२८ || इत्थं जगत्प्रसवितुर्वरणीयमर्थं पापप्रभञ्जनकरं यदभीष्टदस्य | तेजस्तदेकममलं प्रविचिन्तयामः प्रज्ञां प्रयच्छतु स नो भगवान् महेशः || ९-१२९ || इत्युक्तोऽर्थोऽत्र सावित्र्यास्तच्छिरः कथ्यतेऽधुना | आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते || ९-१३० || तत्तेजो ह्यमृतं ब्रह्म सूर्य आत्मेति चोदना | एवं ज्ञात्वार्थतस्त्वेतान् न्यस्येद् देहे यथाक्रमम् || ९-१३१ || शिरोभ्रूमध्यनयनवक्त्रकण्ठेष्वथो हृदि | नाभौ च गुह्यजान्वङ्घ्रिद्वये चास्याः पदैर्न्यसेत् || ९-१३२ || ब्रह्मा विष्णुश्च रुद्रश्चापीश्वरोऽपि सदाशिवः | एते सर्वात्मने जातियुक्ताङ्गमनवः क्रमात् || ९-१३३ || इत्थं विन्यस्य गायत्रीमृष्यादीनभिवन्द्य च | जपेदायम्य तु प्राणाननन्तफलभाग् भवेत् || ९-१३४ || प्रणवान्तरितं सप्तव्याहृतिप्रणवं पुनः | सावित्रीं शिरसा युक्तां जपेच्छतगुणं फलम् || ९-१३५ || अष्टोत्तरसहस्रं तु जपेदेवमनन्यधीः | तदशक्तौ शतं वापि दशमात्रमथापि वा || ९-१३६ || पूर्वः पूर्वोऽत्र मुख्यः स्याज्जपशक्तिं न हापयेत् | अथोद्वासनमन्त्रस्य तूत्तमेशिखरेत्यृचः || ९-१३७ || सावित्री देवतानुष्टुब् वामदेव ऋषिर्मतः | मित्रस्येत्याद्युपस्थानमन्त्राणां कौशिकस्त्त्वृषिः || ९-१३८ || मित्रस्तु देवता छन्दो गायत्रं चाप्यनुष्टुभात् | प्रदक्षिणं परिक्रम्य दिशोऽथ सदिगीश्वराः || ९-१३९ || अभिवन्द्य ततः पञ्च सन्ध्याद्या देवताः क्रमात् | सहस्ररश्मिमुद्यन्तमुपतिष्ठेद् दिवाकरम् || ९-१४० || आत्मानं परमात्मानं ध्यात्वा पादाभिवादनम् | कृत्वाथ देवपूजां च होमजप्यं समाचरेत् || ९-१४१ || अथातो विनियोगाद्यं सावित्र्याः कथ्यतेऽधुना | प्रत्याहारः शस्तदेशे तु लक्षं तिष्ठन् युक्तात्मा सूर्यबिम्बं जपित्वा | पश्यन् गव्याक्तैस्तावदग्नौ तिलैः स्याद्धुत्वा भक्तश्चेन्मन्त्रसिद्धो महात्मा || ९-१४२ || अयुतं तु जले स्थितो जपित्वा ननु पापानि निहन्ति नाभिमात्रे | प्रयुतादुपपातकानि लक्षादखिलान्येव हि पातकानि हन्यात् || ९-१४३ || दशलक्षजपेन कण्ठमात्रे सुमहापातकिनोऽप्सु यान्ति शुद्धिम् | त्रिसहस्रजपादभोज्यदोषात् परिशुध्येदपि वाङ्मनःकृताघैः || ९-१४४ || अपहन्त्यपमृत्युरोगदुःखान्ययुतानां त्रितयं तिलाज्यहोमात् | मधुरत्रयसिक्तदौर्वलक्षत्रयहोमादपहन्ति कालमृत्युम् || ९-१४५ || पुत्रं शालिहुतेन बिल्वकमलैर्लक्ष्मीं पलाशैः पशू- नन्नाद्यं सघृतान्नतस्तु कुमुदैर्वासांसि चैवोत्पलैः | वृष्टिं वेतसजैः सगोमयशिलामालेयगोरोचना- कप्तं? लोकवशीकरं तु लिलकं स्पृष्टं सहस्रत्रयम् || ९-१४६ || पादपांसुकृतपुत्तलिहोमान्मारयेत् परमतीत्य तु विप्रम् | द्वेषयेच्च कलिवृक्षसमिद्भिश्चाटयेत् तदनले कलिपत्रैः || ९-१४७ || कुन्दपुष्पहवनेन कुमारीं विन्दतेऽथ करवीरहुतात् स्युः | सिद्धयः स खलु कोटिजपात् स्यात् खेचरः सुरमुनीन्द्रसमेतः || ९-१४८ || जुहुयात् पायसेनाज्यतिलदूर्वाङ्कुरैरपि || ९-१४९ || चतुः क्षीरसमिद्भिश्च प्रत्येकं त्रिसहस्रकम् | यत्तदुद्दिश्य तत् सर्वमचिरेणैव सिध्यति || ९-१५० || जुहुयात् पायसाज्याभ्यां तिलदूर्वाङ्कुरैरपि | प्रत्यक्षरसहस्रं तु दीर्घमायुरवामुयात् || ९-१५१ || मधुरत्रयसिक्तरक्तपद्मैरयुतं यो जुहुयाच्छ्रियं स विन्देत् | सघृतान्नहुतादथान्नवान् स्याद् विधिवद्वह्निमुखादिकं च कृत्वा || ९-१५२ || आधाय वह्निं विधिवत् सूर्यमावाह्य तन्मुखे | तमप्याराध्य विधिवत् सावित्रीं तद्धृतम्बुजे || ९-१५३ || समावाह्य तु मन्त्रेण ध्यायेत् सन्ध्योक्तलक्षणाम् | सपूज्य गन्धपुष्पाद्यैर्द्वादशान्तामृताप्लुताम् || ९-१५४ || स्वकृत्यं चापि सङ्कल्प्य जुह्वन् स लभते फलम् | अथ माध्यन्दिनं कर्म स्नानपूर्वं समाचरेत् || ९-१५५ || स्नानं प्राग्वद् विशेषोऽत्र वैदिकः कथ्यतेऽधुना | प्रातःस्नानमृतेऽन्यत्र स्नास्यन् दन्तान् न धावयेत् || ९-१५६ || हिरण्यशृङ्गमित्यादि पुनन्तु पुनरन्ततः | जपेन्निमज्ज्याथाचम्य गृहीत्वाञ्जलिना जलम् || ९-१५७ || सुमित्राद्येन सन्त्वन्तं जपित्वारिदिशं प्रति | दुर्मित्राद्येन द्विष्मोऽन्तं प्रक्षिप्याचम्य वाग्यतः || ९-१५८ || यदपांक्रूरमित्यादि गच्छतादन्तमम्भसि | त्रिरावर्त्य करेणाथ निमज्ज्याम्भस्तटं गतः || ९-१५९ || उपविश्य तथाचम्य पाणिस्थाम्भोऽभिमन्त्र्य तु | आपः पुनन्त्वित्याद्येन स्वाहान्तं तत् पिबेत् पुनः || ९-१६० || आचामेदस्य चर्षिः स्याद् ब्रह्मणस्पतिसंज्ञितः | देवताप्याप एव स्याच्छन्दोऽनुष्टुप् प्रकीर्तिता || ९-१६१ || आपोहिष्ठादितिसृभिः प्रोक्षयेद् दर्भपाणिना | हिरण्यवर्णाः शुचयः पवमानः सुवर्जनः || ९-१६२ || इत्यादिमन्त्रैः संप्रोक्ष्य ततोऽम्भोमग्नविग्रहः | ऋतं च सत्यं चेत्यादिखरित्यन्तमृचां त्रयम् || ९-१६३ || प्राणानायम्य मनसा जपेत् त्रिरघमर्षणम् | शक्तः स चेदिमाग्/स्तदापोवरुणपूर्वकैः || ९-१६४ || सुवानो-इन्दुरित्यन्तमन्त्रैः कृत्वाघमर्षणम् | उत्तीर्य वासो निष्पीड्याथाम्बरे शुचिनिर्मले || ९-१६५ || परिधायाथ संक्षाल्य पादावाचम्य वाग्यतः | सन्तर्प्य पूर्वसन्ध्यावत् सावित्रीं शक्तितो जपेत् || ९-१६६ || तिष्ठंश्चेदीक्षमाणोऽर्कमासीनः प्राङ्मुखो जपेत् | ततः पुष्पाञ्जलिं दद्याद् भानवे केवलाम्बु वा || ९-१६७ || अथोर्ध्वबाहुरादित्यमुपतिष्ठेदिमां जपन् | उद्वयादिमुदुत्यादिं चित्रंतच्चक्षुरादितः || ९-१६८ || हिरण्ययूपनामा स्यादृषिरासां प्रकीर्तितः | उदुत्यादिद्वयेच्छन्दस्त्रिष्टुप् स्याद् दैवतं रविः || ९-१६९ || गायत्री स्यात् तृतीयायाश्चतुर्थ्या जगती मता | उष्णिक् तच्चक्षुराद्यस्य मन्त्रस्य सविता विधिः || ९-१७० || ब्रह्मयज्ञं ततः कुर्यात् स्वाध्यायः स उदीरितः | ब्रह्मयज्ञोत्तरं कालं तर्पणस्याश्वलायनः || ९-१७१ || प्राहेतरेषां तु मतं तूपस्थानादनन्तरम् | साङ्गमूलादिभिर्मन्त्रैः स्वागमोक्तविधानतः || ९-१७२ || देवान् ऋषीन् पितॄंश्चान्यान् तर्पयेयुर्हि दीक्षिताः | स्नानकालेऽम्भसः क्षोभं न कुर्याच्चरणादिभिः || ९-१७३ || अन्तर्मलापनयनं वस्त्रनिर्णेजनादि वा | यदि कुर्यात् प्रमादेन प्रायश्चित्तमिहोच्यते || ९-१७४ || नमोऽग्नयेऽप्सुमते नमोद्ब्योन्तं जपेद् द्विजः | उअपतिष्ठेद् द्विजातिश्चेदितरोऽद्ब्यो नमो वदेत् || ९-१७५ || ततोऽनुज्ञां गृहीत्वाद्ब्यिस्तार्थानुद्वास्य दैवतैः | ऋषीन् पितॄनप्युद्वास्य ततो यागगृहं व्रजेत् || ९-१७६ || तत्रेष्टां देवतामिष्ट्वा स्वागमाचार्यदर्शनात् | तत्तन्मन्त्रं जपेद्धोमवैश्वदेवबलिक्रियाः || ९-१७७ || समाप्यातिथिपोष्यादीन् भोजयित्वा स्वशक्तितः | स्वयं भुञ्जीत पुत्राद्यैः सहितोऽन्नमकुत्सयन् || ९-१७८ || भुक्त्वान्नगन्धलेपाद्यमपनीय च शोधयेत् | दन्तानथ समाचम्य मुखवासं भजेदपि || ९-१७९ || ततो विद्याविनोदाद्यैर्दिनशेषं सुखं नयेत् | अथार्धास्तमिते भानौ सन्ध्यामासाद्य पश्चिमाम् || ९-१८० || उपासीत यथापूर्वं दन्तधावनवर्जितम् | स्नात्वाचम्याथ सम्प्रोक्ष्य पीत्वाम्भोऽग्निश्चमन्त्रतः || ९-१८१ || ऊर्ध्वं त्वापस्तथा क्षिप्त्वा गायत्रीं शक्तितो जपेत् | इमंमेवरुणाद्याभिरुपस्थायाथ पूर्ववत् || ९-१८२ || गन्धाद्यैर्देवतामिष्ट्वा यथापूर्वं स्वशक्तितः | जपित्वाथ नमस्कृत्य वैश्वदेवबलिक्रियाः || ९-१८३ || समाप्यातिथिभूत्याद्यैः सह भुञ्जीत चेद् गृही | शयीत शयने शुद्धे स्वास्तीर्णे शुक्लवाससा || ९-१८४ || गोविप्रदेववह्नीनां नोपरिष्टान्न सङ्कटे | नानुवंशं शयीतासौ नोत्तरापरदिक्शिराः || ९-१८५ || न नग्नो नार्द्रपाण्यङ्घ्रिर्न तैलाक्तो न चाशुचिः | वितानदीपकलशैः शोभिते विभवे सति || ९-१८६ || मन्त्रसन्नद्धदेहस्तु रक्षागन्धाद्यलङ्कृतः | स्वपत्नीं साधुशीलाढ्यां स्वनुरक्तां स्वलङ्कृताम् || ९-१८७ || अपर्वस्वभिगच्छेत् तु गृही सन्तानकारणात् | सन्ध्योपास्तिप्रसङ्गादिति विधिविहितं नैत्यकं कर्मचक्रं श्रौतस्मार्तेषु तन्त्रोदितमपि कथितं वर्णिनां यत् समासात् | दृष्टादृष्टेष्टसिद्धिप्रदमिह मुनिभिः सेवितं चेति सन्तः स्वीकुर्वन्तु स्वकीयं धनमिव सुहृदः सत्पथे वर्तयन्तः || ९-१८८ १/२ || इति श्रीमदीशानगुरुदेवपद्धतौ तन्त्रसारे नित्यकर्मविधिर्नाम नवमः पटलः || अथ दशमः पटलः प्रणम्य शम्भुं शशिखण्डशेखरं भवं भवच्छेदकरं समासतः | सभूतशुद्धिक्रममात्मशोधनं निगद्यते योगजपादिसिद्धये || १०-१०-१ || स्नातो यथावत् समुपास्य सन्ध्यां यागालयं प्राप्य कृताङ्घ्रिशौचः | आचम्य चान्तर्विधिवत् प्रविष्टः शस्तासने वाग्यमवान् निविष्टः || १०-१०-२ || आमस्तकाङ्घ्रिद्वयमात्मदेहे ध्यायन् सुसूक्ष्मं सुषिरं तदन्तः | बाह्ये तु विन्यस्य तु शक्तिमच्छां व्योमत्विषं तामथ देहमध्ये || १०-१०-३ || हुङ्कारबीजं रुचिमद् विचिन्त्य प्राणान् नियम्याथ निवेश्य चित्तम् | तद्रेचकान्तोऽत्र फडन्तमस्त्राद् ग्रन्थिप्रभेदं क्रमशो विदध्यात् || १०-४ || ये ग्रन्थयः पञ्च तमोमलिष्ठा हृत्कण्ठतालुस्थितयः प्रसिद्धाः | भ्रूमध्यतो मूर्धनि चेति तेषां भेदात् तु नाडीसरणिः प्रसिध्येत् || १०-५ || वायुं निवर्त्यात्मनि पूरकान्तं चैतन्यसान्तात्मकजीवरूपम् | तं बिन्दुभूतं च निरामयं स्वे हृत्पङ्कजे कुम्भकतो विभाव्यम् || १०-६ || तत्रोर्ध्ववायोः प्रसरेण जीवं सौषुम्नमार्गान्निहितं स्वमूर्ध्नि | उद्धातमात्रेण तु बीजवृत्त्या तं द्वादशान्तस्थशिवं नयेत् || १०-७ || कादङ्गुलद्वादशके त्वसौम्यं शुक्लं सहस्रच्छदपुण्डरीकम् | व्योमामृतव्याप्तमधोमुखं तन्मध्यं शिवाध्यासितमभ्युपेयम् || १०-८ || लीनः शिवेऽङ्गैरभिरक्षितात्मा साधोमुखं देहतरुं विभाव्य | तत्त्वानि षट्त्रिंशदथो विलोमान्नीत्वा लयं स्वेष्विह कारणेषु || १०-९ || भूम्यम्बुतेजोमरुदम्बरैः स्याद् गन्धो रसश्चाप्यथ रूपमुक्तम् | स्पर्शाख्यशब्दौ कथितावुपस्थं पायवङ्घ्रिपाण्योऽपि च वाक् च नासा || १०-१० || जिह्वाक्षिचर्मश्रवणैर्मनः स्यात् साहङ्कृतिर्बुद्धिरपि प्रधानम् | पुमांश्च रागो नियतिस्त्वशुद्धा विद्या कला कालयुता च माया || १०-११ || संशुद्धविद्या च तथेश्वराख्यः सादाह्वयः शक्तिरथो शिवः स्यात् | षट्त्रिंशदित्थं प्रतिलोमतः स्युस्तत्त्वानि तत्तत्परकारणानि || १०-१२ || पञ्चाथ भूतानि परस्परान्तः शोध्यानि खादीनि विलोममार्गात् | ईशानपूर्वैः समधिष्ठितैस्तैरक्षैश्च बिम्बार्णकलाधिदैवैः || १०-१३ || भूमण्डलं यच्चतुरश्रपीतं वज्राङ्कितं गन्धगुणं ससद्यम् | घ्राणेन्द्रियं तत्कलया निवृत्त्या युक्तं च दैवेन चतुर्मुखेन || १०-१४ || ह्लांबीजतः पूरककुम्भकाभ्यां व्याप्तं तदा पादतलं शिरस्तः | शोध्यं तदुद्धातकपञ्चकात् स्याद् वायौ प्रविष्टं परिभावयेच्च || १०-१५ || अब्बिम्बमर्धेन्दुसिताब्जचिह्नं शुक्लं रसाढ्यं रसनेन्द्रियं च | वामास्थितं विष्णुसमन्वितं स्याद् युक्तं प्रतिष्ठाकलया विशोध्यम् || १०-१६ || ह्री/बीजमुद्धातचतुष्टयान्तं तच्चाणिभूतं प्रविशन्त्यपश्चात् | वह्नेस्त्रिकोणारुणमण्डलं स्याद् विद्यातलं स्वस्तिकलाञ्छनं च || १०-१७ || दृगिन्द्रियं रूपगुणं सरुद्रं ह्रूंबीजतोऽघोरयुतं विशोध्यम् | त्र्युद्धाततस्तत्सलिले प्रविष्टं विचिन्तयेद् व्याप्तसमस्तदेहम् || १०-१८ || षड्बिन्दुचिह्नं त्वथ वायुबिम्बं कृष्णं षडश्रं पुरुषास्थितं तत् | त्वक्स्पर्शशान्त्यन्वितमीश्वरेण ह्यैंयुक्तमुद्धातयुगात् कुभूतम् || १०-१९ || वृत्तं स्वबिम्बं स्फटिकावदातं सश्रोत्रशब्दं च सबिन्दुशक्ति | ईशानसादेशयुतं त्वतीतं चोद्धातशोध्यं खलु हुंफडन्तात् || १०-२० || तद्द्वादशान्तःस्थितमूलमन्त्राच्चन्द्रामृतासारजलैः समस्तम् | आप्लाव्य निर्वर्तितभूतशुद्धिः संपाद्य तत्त्वानि यथाक्रमेण || १०-२१ || शिवेच्छयोत्पादितशुद्धदेहो हृद्यासनं तु प्रणवेन दत्त्वा | तद्व्यापिनीं न्यस्य शिवां तु शक्तिं स्वबीजजीवं निहितं शिवाख्ये || १०-२२ || तद्द्वादशान्तादथ पूरकेण त्वानीय नाड्या हृदयाब्जमध्ये | संस्थाप्य मूलामृतवारिपूरैराप्लाव्य पूजादिकमारभेत् || १०-२३ || भूतशुद्ध्यधिकारः अत्रोच्यतेऽन्या स्फुटमात्मशुद्धिर्या शोषणादिक्रमशोध्यदेहा | निश्शेषदोषक्षयशुद्धिदानाद् रोगान् जरां मृत्युमपि क्षिणोति || १०-२४ || प्राग्वत् स्वदेहे सुषिरं तु चिन्त्य तद्व्यापिनीं चान्तरबाह्यशक्तिम् | हुङ्कारमध्यस्थितचित्तजीवः प्राणान् नियम्याहृतपूरकेण || १०-२५ || १०- ग्रन्थीन् विदार्याहृतरेचकान्तं चास्त्रेण वायुं विनिवर्त्य पूरात् | चैतन्यमाहृत्य ससान्तजीवं हृत्संपुटं ज्योतिरनामयाख्यम् || १०-२६ || तत्कुम्भकोद्धातवशात् तदूर्ध्वं त्वाकृष्य सौषुम्नपथा स्वकान्तम् | तद्द्वादशान्तस्थशिवे नियुज्य तत्त्वानि नीत्वा विलयं विलोमात् || १०-२७ || वर्णान् विलोमात् क्षहसक्रमोक्तं नीत्वा लयं शब्दततिं च शक्तौ | शून्यं तु देहं मलपापमात्रं विचिन्त्य कृष्णं त्वथ नाभिचक्रे || १०-२८ || बिम्बे तु वायोरतिधूम्रवर्णं यङ्कारमुद्भाव्य तु चण्डवायुम् | ध्यायेदधःशाखमथोर्ध्वमूलं संसारवृक्षात्मकमात्मदेहम् || १०-२९ || अत्र ब्रह्मशम्भुः - देहात्माधोमुखस्तत्र ध्यातव्यो भवपादपः इति | तं शोषयेन्नाभिविनिर्गतेन ध्यात्वानिलेनाघमले च शोष्ये | उद्धातकैः पञ्चभिरस्य शोषं वायोर्निरोधेन विधाय पश्चात् || १०-३० || हृत्पङ्कजेऽन्त्यं विषवह्निवायुं सानुग्रहार्धेन्दुयुतं सनादम् | बीजं तु चिन्तामणिसंज्ञमेतद् बिम्बे हुताशस्य तु वह्निरूपम् || १०-३१ || विन्यस्य षट्कोणलसत्त्रिशूलज्वालासहस्रप्रसरैरघौघम् | सम्यग् दहन्तं तु कलेबराख्यं तद्भस्मसाद्भूतमपीह चिन्त्यम् || १०-३२ || दहेत् पाशुपतास्त्रेण इति पराख्यपौष्करयोरुक्तत्वात् पाशुपतास्त्रेण वा तद् दहेत् | प्रोत्सार्य चण्डानिलवायुबीजात् तद् भस्म सर्वं तु दिशो विकीर्य | शून्यं खतुल्यं परिभाव्य देहं शुद्धं तु तत् केवलपुण्यशेषम् || १०-३३ || अत्र ब्रह्मशम्भुः - कुम्भकेनाग्निना शुष्कं निर्दग्ध च विचिन्तयेत् | रेचकेनाथ वायव्याद् भस्मीभूतं दिशो दश || प्रलीनमन्त्यया शुद्धं निर्मलं व्योम भावयेत् || १०-इति कलेबरं दहेद् धीमन् भस्मकूटव्यवस्थितम् || इति श्रीकालोत्तरे - व्योमाम्बुजान्तस्थशिवस्य शक्तेरिच्छाक्रियाज्ञानवशात् सिसृक्षोः | शक्तेर्यथावल्लिपिवर्णपूगैस्तत्त्वानि चोत्पाद्य तु तैः शरीरम् || १०-३४ || सृष्ट्वा तदण्डात्मकविश्वलोकं संभाव्य शुद्धं गतपाशबन्धम् | प्राग्द्वादशान्ताहितबीजजीवं त्वाकृष्य तत्पूरकवायुमिश्रम् || १०-३५ || तद्ब्रह्मरन्ध्रेण निवेश्य मार्गाद्धृदब्जमध्ये शिवमात्मरूपम् | व्योमाब्जमध्येन्दुकलास्वराढ्यं द्व्यष्टच्छदाधारसुधाकलाभिः || १०-३६ || सौषुम्नमार्गेण पृथग् यथावदापूरयेद् व्युत्क्रमतः स्वराणाम् | सामृता मानसी तुष्टिपुष्टी तथा प्रीतिरुक्ता रतिः श्रीश्च शान्तिः स्वधा | कान्त्यथ ज्योत्स्नया हैमवत्या प्रभा पूरणी वामया स्यादमा षोडशी || १०-३७ || दक्षिणाङ्गुष्ठतो गुल्फजानू कटिश्चोदरं पाणिसन्धिर्भुजो दक्षिणः | मूर्ध्नि चार्धं क्रमाद् वामभागेऽपि च स्थानमुक्त कलास्तद्विलोमान्न्यसेत् || अः अमायै नमः | अं वामायै नमः | औं पूरण्यै नमः | इत्यङ्गुष्ठादिमूर्धान्तं षोडशकला विन्यस्य तदमृतैः क्रमादापूरयेदित्युपदेशः | तोयमर्धेन्दुमत्पूर्णचन्द्रप्रभं स्वाम्बुजे भावयेत् तत्कलार्तस्वरम् | शङ्खकुन्देन्दुगोक्षीरगौरामृतैर्ब्रह्मनीडापथापूर्य देहं स्वकम् || १०-३९ || अत्र ब्रह्मशम्भुः - तत्सुधाधवलापूरसिक्तं कृत्वा निरन्तरम् | इति | श्रीकालोत्तरे च - चन्द्रबिम्बं स्मरेत् तत्र श्वेतपद्मोपरि स्थितम् | स्रवन्तममृतं दिव्यं शरीरोत्पत्तिकारणम् || १०- इति | द्व्यष्टवर्षाकृतिं शुद्धविद्यातनुं तत् सुधापूरणप्लाव्यमानाकृतिम् | पुण्यपूगार्जितं शुद्धमित्थं धिया यः स्मरेदेकदाप्येष योगी भवेत् || १०-४० || इत्थमभ्यासतः शुद्धसत्त्वः स्वयं शक्तिपातं लभेतेश्वरानुग्रहात् | जप्यपूजादिभिश्चेष्टसिद्धिं तदा सुप्रसन्ना मुखान्निस्सरेद् भारती || १०-४१ || नहि सलिलविशेषैः केवलं क्षालनाद्यैः प्रभवति परिशुद्धं यन्मलिष्ठं शरीरम् | द्विविधमितिह सद्भिः सान्तरङ्गात्मशुद्धिः सविधिकमुपदिष्टां तां भजे नित्यशोऽपि || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे भूतशुद्ध्यादिपटलो दशमः || अथैकादशः पटलः | अथोच्यते सिद्धिकरी मनूनां दीक्षा यथा सा च चतुष्प्रकारा | तथाहि मन्त्री प्रथमाथ शैवी शाक्तेयिकाख्या त्वथ वैष्णवी च || ११-१ || ददाति यस्मादिह दिव्यभावं मायामले कर्म च संक्षिणोति | फलं चतुर्वर्गमयं च यस्यास्तस्मात् तु दीक्षेत्यभिधानमस्याः || ११-२ || सामान्यभूता खलु मान्त्रिकी स्याद् दीक्षा स्मृता मन्त्रगणेषु तद्वत् | वर्णेषु चापि द्विजपूर्वकेषु स्याच्छैवशाक्तेष्वपि वैष्णवेषु || ११-३ || कौबेरदिग्भागगते दिनेशे पुण्यर्क्षयोगे सुतिथौ सुलग्ने | पक्षे तु पूर्वे विदधीत दीक्षामाचार्यशिष्याभ्युदयप्रदे च || ११-४ || दीक्षासु देवालयमण्डपानां वेश्मादिकृत्येऽपि च विघ्नशान्तौ | वास्त्वीशपूजां प्रथमं विदध्यात् संवर्तयेत् सर्वसमीहितानाम् || ११-५ || वास्त्वीशनामा ह्यसुरोऽतिकायो देवैः पुरा दत्तवरोऽतिपूज्यः | शेते स्म भूम्यां प्रविसार्य पादौ हस्तौ तथाधोवदनः सदैवः || ११-६ || तद्देहसंस्थाः खलु देवतास्ता द्वात्रिंशदन्ये प्रकृतिप्रसंख्याः | पूज्याश्चतुःषष्टिपदेषु विप्रैरेकोत्तराशीतिपदे नृपाद्यैः || ११-७ || उद्दिष्टदेशे नवगोमयाम्भःसेकोपलिप्ते चतुरश्रमादौ | कृत्वाष्टधा तद् विभजेदथैवमुक्तं चतुष्षष्टिपदं तु तत् स्यात् || ११-८ || तस्मिन् विभक्ते नवधा तु सूत्राण्यास्फाल्य संमिश्रितपिष्टचूर्णम् | एकोत्तराशीतिपदं तदुक्तं देवालयानामपि भूमिपानाम् || ११-९ || कृत्वा चतुष्षष्टिपदं तु तस्मिन् कोणेषु सूत्रेऽपि निवेश्य तत्र | मध्ये पदानां हि चतुष्टये स्याद् ब्रह्मादिपूज्यस्तदनन्तरश्च || ११-१० || पूर्वादिदिक्कोष्ठयुगेषु तद्वच्चार्यो विवस्वानथ मित्रनामा | महीधराख्यश्च तदन्तराले कोणार्धयुग्मेषु वदामि देवान् || ११-११ || सावित्रः सविता च वह्निदिशि तत् स्यातां पदार्धे गता- विन्द्रश्चेन्द्रजयश्च राक्षसदिशि (ख्या?स्या)तामथो मारुते | रुद्रो रुद्रजयस्तथेशदिशि चाप्यापापवत्साह्वयौ बाह्ये कोणचतुष्टयेऽपि च पुनर्वक्ष्यामि देवाष्टकम् || ११-१२ || शर्वस्कन्दो यमाह्नश्च जम्भकः पिलिपिञ्जकः | चरकी च विदारी च पूतना पापराक्षसी || ११-१३ || अथ प्रान्तचतुष्पङ्क्तिद्वात्रिंशत्कोष्ठदेवताः | प्रागादिक्रमशो ज्ञेयाश्चतुर्धैव चतुर्दिशम् || ११-१४ || प्राअच्यामीशानपर्जन्यजयन्तेन्द्रार्कसत्यकाः | भृशान्तरिक्षावित्यष्टौ देवताः स्युः प्रतिक्षणः || ११-१५ || अग्निः पूषाध वितथो यमश्च गृहरक्षकः | गन्धर्वभृङ्गराजौ च मृगाख्योऽपि च दक्षिणे || ११-१६ || निर्-ऋतिर्दौवारिकश्च सुग्रीववरुणावपि | पुष्पदन्तासुरौ शोषः पापयक्ष्मा च पश्चिमे || ११-१७ || मारुतो नागमुख्यौ च भल्लाटश्च निशाकरः | अर्गलश्च दितिस्तद्वददितिश्चोत्तरस्थिताः || ११-१८ || ईशानस्य शिरो निवेशितमभूद् वास्तोष्पतेर्मारुते वह्नौ चापि करद्वयं पदयुगं नक्तञ्चरे स्थापितम् | पर्जन्यो नयने दितिश्च वदने स्यादापवत्सो गले कर्णौ चाप्यदितिस्तथार्गलयुतावंसौ जयन्ताश्रितौ || ११-१९ || शक्रश्चाथ निशाकरश्च भुजयोः पृष्ठे तु रुद्रः स्थितः सावित्रः सविता च रोगसहिताः होषश्च पाण्योः स्थिताः | नाभौ स्याच्चतुराननोऽस्य कुचयोर्भूभृत् तथैवार्यमा मित्रश्चापि विवस्वता तदुदरे गुह्येन्द्रकश्चापरः || ११-२० || ईशानपूजा तु घृताक्षताद्भिः पर्जन्यकस्योत्पलगन्धतोयैः | पीता जयन्तस्य भवेत् पताका रक्तान्नदीपैश्च यजेन्महेन्द्रम् || ११-२१ || सूर्यस्य पीतान्नवितानकाभ्यां सत्यस्य साज्येन तथौदनेन | गोधूमकान्नेन भृशस्य पूजा कार्यान्तरिक्षस्य तु माषमांसैः || ११-२२ || अग्निं स्रुचाभ्यर्च्य तथैव लाजैः पूषाणमिष्ट्वा वितथं च हेम्ना | मध्वोदनाभ्यां गृहरक्षकं च मांसौदनाभ्यां यममर्चयेच्च || ११-२३ || गन्धर्वमिष्ट्वा कुसुमैः सगन्धैः स्यात् पक्षिजिह्वा त्वथ भृङ्गराजे | पूजा मृगस्यापि तिलैर्यवैः स्या पित्र्यं निर्-ऋत्यै कृसरं यथावत् || ११-२४ || दौवारिकं शोभनदन्तकाष्ठैः सुग्रीवमिष्ट्वा तु यवैः सधूपैः | स्तम्बैः कुशानामपि पुष्पदन्तं तद्वज्जलेशं सितपुण्डरीकैः || ११-२५ || मध्वक्षताभ्यामसुराय पूजा शोषाय चान्नं घृतमिश्रितं स्यात् | नीवारकान्नं त्वथ पापयक्ष्मण्याज्येन वायोरपि मण्डकानि || ११-२६ || नागप्रसूनैरपि नागपूजां कुर्यात् तु मुख्याय तु मोदकैश्च | भल्लाटसंज्ञस्य समुद्गमन्नं सोमाय राज्ञे मधुपायसाज्यम् || ११-२७ || शाल्यक्षतैरर्गलमर्चयित्वा संरक्तशाल्यन्नघृतैर्दितिं च | माषान्नभक्ष्यैरदितिं यथावद् द्वात्रिंशदित्थं क्रमशोऽर्चयित्वा || ११-२८ || आपस्तु दुग्धेन तथापवत्सः पूज्यस्तु दध्ना घृतलड्डुकैश्च | सावित्रमिष्ट्वाथ कुशार्गलान्नैस्तथा सवित्रे यजनं विदध्यात् || ११-२९ || हारिद्रमन्नं सघृतं तथेन्द्रे शुद्धान्नमेवेन्द्रजयाय शस्तम् | रुद्राय मांसं विहितं तु पक्वं मांसं तथा रुद्रजये त्वपक्वम् || ११-३० || अ(त्रा)भिपूज्याः समरीचकाद्यास्ते लड्डुकालोहितशुक्लभक्तैः | तथैव भाषैः सघृतैर्यथावत् स्वे स्वे पदे स्युश्चतुरः क्रमेण || ११-३१ || ब्रह्माणमाज्याक्षतपञ्चगव्यैः पुष्पैः सगन्धैश्चरुणा तिलैश्च | संपूज्य तु प्राग् घृतपायसेन शर्वाह्वयं स्कन्दमथो यजेत् || ११-३२ || याम्येऽर्यम्णे समांसाज्यं ततः पीतस्रगामिषे | जम्भकाय तु वारुण्यां पिलिपिञ्जाय चोत्तरे || ११-३३ || सान्द्रलोहितपुष्पान्नैर्बलिमित्थं प्रदापयेत् | मांसौदनघृतापूपैरैशान्यां चरकीबलिः || ११-३४ || बाह्ये पित्तेन मांसेन विदार्यै बह्निदिग्बलिः | पूतनायास्तु राक्षस्यां दधिरक्तौदनैर्दिशि || ११-३५ || क्षीरपित्तास्थिरक्तान्नैर्वायव्यां पापराक्षसीम् | यजेत् सर्वान् स्वनाम्नैव नमोन्तं सोपचारकम् || ११-३६ || बाह्ये त्वष्टविधेभ्योऽथ भूतेभ्यो बलिमाहरेत् | प्रत्येकमुक्तद्रव्याणामलाभे कुसुमाक्षतैः || ११-३७ || सुगन्दधूपदीपैश्च शुद्धान्नेन स्मृतो बलिः | स्वैर्नामभिस्तु प्रणवादियुक्तैर्नमोन्तकैरर्चनमेषु कृत्वा | पञ्चोपचारैर्निशि शुक्लवासा विशुद्धभावस्तु बलिं विदध्यात् || ११-३८ || इत्थं वास्तुशरीरस्था देवताः सम्यगर्चिताः | तत्तत्कर्मसु संसिद्धिं प्रयच्छन्ति च शान्तिकम् || ११-३९ || एकाशीतिपदेषु पूर्ववदमुं विन्यस्य वास्तोष्पतिं मध्ये तस्य तु वेधसं नवपदेष्वभ्यर्च्य तद्बाह्यतः | कोणेष्वत्र पदद्वयेष्वघ्निगताः सावित्रपूर्वाः सुरा- स्तन्मध्ये समरीचपूर्वकसुराश्चत्वार उक्ताः क्रमात् || ११-४० || पूर्वाद्यासु दिशासु बाह्यवृतिगा एकैककोष्ठस्थिता द्वात्रिंशत् पृथगीशपूर्वकसुराः पूज्याः पुरोवत् क्रमात् | बाह्येऽन्याः पदवर्जितास्तु चरकी चैशे विदार्यानले कोणे रक्षसि पूतनाथ पवनस्याशागता राक्षसी || ११-४१ || शर्वस्कन्दादिचत्वारः पदवर्जं बहिः स्थिताः | प्राग्याम्यवारुणाशासु कौबेर्यां च क्रमाद् यजेत् || ११-४२ || अनयोर्मार्गयोरेकमाश्रित्यावाह्य वास्तुपम् | तदङ्गपदगाश्चापि देवताः क्रमशोऽर्चयेत् || ११-४३ || वास्तुविन्यासपूजाधिकारः एवं समाराध्य तु वास्तुदेवान् द्विजातयश्चेदथ वास्तुहोमम् | कुर्युर्यथा वास्तुपतिः प्रशाम्येद् यथैव बोधायनदृष्टमार्गात् || ११-४४ || नवं गृहाद्यं प्रविविक्षुरग्रे तत् साध्वलङ्कृत्य तु तोरणाद्यैः | प्रकल्प्य कर्तुः शयनप्रदेशं तारेण संशोध्य गणेशमिष्ट्वा || ११-४५ || तद्वास्तुमध्यं च विधाय तस्मात् पूर्वोत्तरस्यां दिशि गोमयेन | गोचर्ममात्रं चतुरश्रबिम्बं त्वालिप्य चोल्लेखनकादि कृत्वा || ११-४६ || तस्मिन् स्वगृह्योक्तविधानतोऽग्निमाधाय तत्राग्निमुखं विधाय | गोक्षीरसिद्धं चरुमाज्यसिक्तं मन्त्रैर्यथावत् क्रमशो जुहोति || ११-४७ || वास्तोष्पते प्रतिजानीह्यस्मानित्यादिमुक्त्वा तु पुरोनुवाक्याम् | वास्तोष्पते शं मया संसदा तेत्याद्यां तु याज्यां जुहुयादुदीर्य || ११-४८ || वास्तोष्पते ध्रुवा स्थूणां सत्त्वमित्यादिमन्त्रतः | गृह्यं भयं यदित्याद्यमक्षिस्पन्देति चादिना || ११-४९ || दुःस्वप्ने पापस्वप्ने च यत् स्वप्नाशन-आदिना | वास्तोष्पते प्रतरणो न एधीत्यादिनापि च || ११-५० || अमीवहा वास्तोष्पतेत्यादिना च जुहोति वै | एभिस्तु वैदिकैर्मन्त्रैर्हुत्वाज्येन स्रुवेण तु || ११-५१ || ततः स्विष्टकृतं कुर्यादाधेनुवरदानतः | अथाग्नेः पुरतो दर्भानास्तीर्य हुतशेषितम् || ११-५२ || नमो रुद्राय वास्तोष्पत इत्यादिना निक्षिपेत् | अनेनैव तु मन्त्रेण स्थालीं सङ्क्षाल्य तज्जलम् || ११-५३ || पात्रे प्रक्षिप्य कस्मिंश्चिच्छेषाज्यं शेषमम्बु च | एकीकृत्य तु मन्त्रेण शाखयोदुम्बरस्य वा || ११-५४ || पालाशशाखया वाथ दर्भमुष्ट्याथवा पुनः | प्रासादभवनादौ तत् सर्वत्र त्रिः प्रदक्षिणम् || ११-५५ || पर्युक्षन्नथ पर्येति ततः संपूज्य वै द्विजान् | त्वं विप्रस्त्वं क्विरिति मन्त्रेणानेन भोजयेत् || ११-५६ || आशिषो वाचयित्या तु शिवं वास्त्विति वाचयेत् | वास्तुहोमाधिकारः | प्रसादं भवनं प्रपादिकमथो यद्वापि यागालयं कृत्वा तक्षकरात् प्रगृह्य तु ततः सूत्रत्रयावेष्टितान् | कौश्या चापि च मालया तु परितः संवेष्ट्य धान्याक्षतैः सर्वत्र प्रविकीर्य पूर्णकलशं दीपं च मध्ये न्यसेत् || ११-५८ || ततः कृणुष्वादिकमत्र सूक्तं त्वर्धर्चशोऽन्ते तु दहाशसाद्यम् | ऋचोऽर्धमायोज्य जपेदशेषं रक्षोघ्नमेवं तु जपादिषु स्यात् || ११-५९ || कृत्वा पुनः स्थण्डिलमग्निभागे तत्राग्निमाधाय यथाविधानम् | हुत्वा पुरैवाग्निमुखं जुहोतु रक्षोहणं वाजिनमुत्युभाभ्याम् || ११-६० || पुनः कृणुष्वादिभिरत्र मन्त्रैराज्येन हुत्वा तु यथाक्रमेण | तद्वद् विभिन्नैरथ पञ्चभिश्च वेदादिमन्त्रैर्जुहुयाच्चतुर्भिः || ११-६१ || इषे त्वेत्यादिना तद्वदग्निमीले तु चादिना | अग्न-आयाहिपूर्वेण शन्नोदेवीरथादिना || ११-६२ || ततस्तु पञ्चदुर्गाभिर्वेदोक्ताभिर्जुहोति च | जातवेदस इत्याद्या ऋग् दुर्गा प्रथमा भवेत् || ११-६३ || तामग्निवर्णामित्याद्या द्वितीया ऋगुदीरिता | अग्नेत्वंपारयानव्यो-अस्मानाद्यं तृतीयकम् || ११-६४ || विश्वानिनोदुर्गहाद्यश्चतुर्थो मन्त्र ईरितः | पृतनाजितमित्यादिः पञ्चमो मन्त्र उच्यते || ११-६५ || एताभिः पञ्चदुर्गाभिराज्येन जुहुयात् पृथक् | ततो व्याहृतिभिस्तद्वदघोरास्त्रेण वै पुनः || ११-६६ || पश्चादपामार्गसमिद्घृताभ्यामन्नेन साज्येन शतं जुहोतु | अष्टोत्तरं स्विष्टकृतं च पश्चाच्छिष्टाज्यमादाय तथाम्बुशेषम् || ११-६७ || आदाय तद् भस्म च मिश्रयित्वा पात्रे त्वपामार्गरसेन युक्तम् | तेनाखिलं तद्भवनं प्रमार्ज्य सम्प्रोक्षयेत् तत्परितस्तु दर्भैः || ११-६८ || तमग्निमादाय तथेशकोणे संस्थाप्य पश्चात् तु चतुष्पथे वा | विसर्जयेदुक्तजलान्नपिण्डैर्दत्त्वा बलिं दिक्षु समाप्य चैवम् || ११-६९ || एवं तु रक्षोहणशान्तिरुक्ता रोगापमृत्युग्रहदोषहन्त्री | रक्षाकरी श्रीविजयायुषां स्याद् वृद्धिप्रदैषा विधिवत् प्रयुक्ता || ११-७० || दीक्षाप्रसङ्गादिति वास्तुपूजा बलिश्च होमोऽपि च तन्त्रसिद्धः | रक्षोघ्नशान्तिश्च यथावदुक्तो बौधायनाचार्यमतं विदित्वा || ११-७१ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे वास्तुविद्यापटल एकादशः || अथ द्वादशः पटलः | उत्सवेषु विविधेष्वपि दीक्षास्थापनादिषु पवित्रविधौ च | मङ्गलाङ्कुरविरोपणपूर्वं मङ्गलं भवति कर्म कृतं तत् || १२-१ || शस्तयागदिवसात् तु पुरस्तात् सप्तमेऽहनि शुभे नवमे वा | पञ्चमेऽपि सुदिने सुमुहूर्ते मङ्गलाङ्कुरविधिं विदधीत || १२-२ || पात्रमत्र विहितं त्रिविधं तत् पालिका च घटिका च शरावम् | विष्णुपद्मभवशङ्करदैवं तत्त्रयं पृथगनुक्रमशः स्यात् || १२-३ || अङ्गुलैः कृतिमितैः स्फुटमुच्चा पालिकावदनविस्तरतोऽपि | उत्तमा च यरयाङ्गुलसंख्ये मध्यमाधमविधौ कथिते वै || १२-४ || पादविस्तृतिरथोर्ध्वमिता स्यात् तत्त्रिभागमितकण्ठबिलं च | दण्डवद् भवति शिष्टमशेषं कण्ठतुल्यं परिणाहमनोज्ञम् || १२-५ || व्याससोच्छ्रयसमा घटिकाख्या तालमात्रमिह पञ्चमुखी स्यात् | दिक्षु तन्मुखचतुष्टयमेकं मध्यमं तु समवर्तितभागम् || १२-६ || तालविस्तृतमुखं तु शरावं तत्समोच्छ्रयमतोऽर्धमिताङ्घ्रि | दण्डकस्य चतुरङ्गुलनाहं कण्ठमस्य बिलवर्ज्यमुदग्रम् || १२-७ || सम्भवे कनकरूप्यकताम्रैर्मार्तिकान्यभिनवान्यथ वा स्युः | क्षालितानि सलिलेन निजास्त्रात् सूत्रवेष्टितगलानि निदध्यात् || १२-८ || शुद्धमृत्सिकतगोमयचूर्णैः पूरितानि कुशकूर्चयुतानि | मङ्गलाङ्कुरगृहे सविताने पात्रकाणि निदधातु मनोज्ञे || १२-९ || गोमयाद्भिरुपलिप्य तु भूमिं स्वाङ्गमूलमनुयुक्तजलास्त्रात् | प्रोक्ष्य पिष्टपरिरूषितसूत्रैरुक्तलक्ष्मविहिते चतुरश्रे || १२-१० || विघ्ननाथमभिपूज्य पुरस्तात् पुण्यकाहमपि वेदविशिष्टैः | वाचयेदधिकमेकमशीते स्यात् पदं तु विहितं चतुरश्रे || १२-११ || मध्यतो नवपदैरथं शुक्लं कर्णिकाष्टदलकेसरशोभि | आलिखेत् सरसिजं तु रजोभिः शालिभिः सुविहितोच्छ्रितमध्यम् || १२-१२ || तत्र सूत्रविनिवेष्टितकुम्भं धूपितं तु विनिधाय कुशेषु | द्वादशान्तगलितामृततोयैः पूरयेत् सकुशकूर्चहिरण्यम् || १२-१३ || पिप्पलाम्रनवपल्लवगन्धैर्माल्यदामकुसुमाक्षतवस्त्रैः | शालितण्डुलफलाढ्यविधानं वस्त्रयुग्मकुसुमैरभिरामम् || १२-१४ || मातृकाम्बुजगतं तु कलाभिः षोडशस्वरयुताभिरुपेतम् | तं विभाव्य शिशिरांशुमुदंशुं तारकेशमुडुचक्रसमेतम् || १२-१५ || पूजयेत् तदुपचारविशेषैः पायसं चरुघृतं विनिवेद्य | शोभितेषु रजसाथ पदेषु स्थापयेत् तु पृथगङ्कुरपात्रम् || १२-१६ || आदित्ये समरीचे च विवस्वति यमे तथा | जलाधिपे च मित्रे च सोमे च पृथिवीधरे || १२-१७ || एषां पदेषु घटिकाः स्थापयेदष्ट वै क्रमात् | अग्नौ पूषणि चित्राख्ये दौवारे रोगनागयोः || १२-१८ || अदितावपि चैशाने शरावाण्यष्ट विन्यसेत् | एषां मध्यपदेष्वष्टौ दिग्विदिक्क्रमयोगतः || १२-१९ || स्थानानि पालिकानां तु कथितान्यष्ट विन्यसेत् | पदान्यादौ विलिख्यैषु शुक्लचूर्णेन पूरयेत् || १२-२० || पृथक् शाल्याढकं क्षिप्त्वा दर्भविष्टरके पृथक् | संस्थाप्य घटिकादीनि तेषु बीजानि वापयेत् || १२-२१ || माषमुद्गकुलस्थानि निष्पावतिलशालयः | सर्षपो मार्गगोधूमश्यामाकव्रीहयो यवाः || १२-२२ || प्रियङ्गवस्तथाढक्यो वैणवश्चेत्यनुक्रमात् | त्रिपञ्चवर्गबीजानि कथितान्युत्तमाङ्कुरे || १२-२३ || वर्गद्वयं मध्यमे स्यादधमे बीजपञ्चकम् | बीजानि क्षालयित्वाद्भिः क्षीरेण तदनन्तरम् || १२-२४ || वस्त्रखण्डे दृढं बद्ध्वा दिनमात्रं जले स्थितम् | उद्धृत्य यामद्वितये समतीते तु वापयेत् || १२-२५ || बीजानां दैवतं सोमः स रात्रौ कान्तिमान् यतः | तस्माद् बुभुक्षुर्बीजानि निशायामेव वापयेत् || १२-२६ || अभिमन्त्र्य हृदा पूर्वं मन्त्रेणानेन वापयेत् | ओं त्र्यम्बकाय शर्वाय शङ्कराय शिवाय च || १२-२७ || सर्वलोकप्रधानाय शाश्वताय नमो नमः | अनेनैव तु मन्त्रेण सिञ्चेद् हारिद्रवारिणा || १२-२८ || पञ्चोपचारैरभ्यर्च्य चाच्छाद्य वसनैः सितैः | सप्तरात्रं बलिं दद्याद् वक्ष्यमाणक्रमेण तु || १२-२९ || ब्रह्मभूतेन्द्रगन्धर्वयक्षरक्षः पिशाचकाः | गणा बलिभुजः सप्त क्रमात् तन्नामलक्षिताः || १२-३० || सान्नपुष्पकुशं ब्रह्मरात्रे तु प्रथमे बलिः | अन्नं दधि निशाचूर्णं लाजाः सक्तुतिलास्तथा || १२-३१ || भूतक्रूरमिति ख्यातं भूतरात्रे प्रदापयेत् | इन्द्रवल्लीरसोन्मिश्रमन्नं सक्तुपयोदधि || १२-३२ || इन्द्ररात्रे तृतीये तु बलिं दद्यात् तु देशिकः | वैणवान्नं पयोयुक्तं गान्धर्वे स्याच्चतुर्थके || १२-३३ || पञ्चमे यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्बलिः | रक्तान्नं सतुषं मृत्स्नायुक्तं षष्ठे तु राक्षसे || १२-३४ || सप्तमे त्वथ पैशाचे माषान्नं कृसरं मधु | हारिद्रचूर्णं तैलाढ्यं सामिषं तु प्रदापयेत् || १२-३५ || अन्यथा केचिदाचार्याः प्राहुर्वै गुणसप्तकम् | तच्चात्र कथ्यते भूताः पितरोऽपि च गुह्यकाः || १२-३६ || नागा ब्रह्मा शिवो विष्णुर्देवताः सर्वरात्रिषु | प्रणवादिनमोन्तैः स्वैर्नामभिर्दापयेद् बलिम् || १२-३७ || प्रथमे भूतरात्रे तु भूतक्रूरेण दापयेत् | तिलैस्तण्डुलमिश्रैस्तु पितृरात्रे द्वितीयके || १२-३८ || तृतीये नालिकेराम्भः शाल्यन्नैर्यक्षरात्रके | सक्षीरपिष्टसक्त्वद्भिर्नागरात्रे चतुर्थके || १२-३९ || सपद्माक्षान्नमाज्यं च ब्रह्मरात्रे तु पञ्चमे | सापूपान्नेन साज्येन षष्ठे शैवे तु दापयेत् || १२-४० || शुद्धौदनेन साज्येन सप्तमे वैष्णवे बलिः | यदा नव स्युर्दिवसाः पायसं कृसरं क्रमात् || १२-४१ || उद्दिष्टदैवतगणमुद्दिष्टबलिनार्चयेत् | न कश्चिदङ्कुराण्यन्यो निरीक्षेत कदाचन || १२-४२ || आचार्य एव प्रविशेत् तच्छिष्यो वा तदाज्ञया | प्ररूढैरङ्कुरैः कर्तुर्निर्दिशेत् तु शुभाशुभम् || १२-४३ || श्यामैः कृष्णैरङ्कुरैरर्थहानिं तिर्यग्रूढैर्व्याधिमालोहितैश्च | कुब्जैर्दुःखं च प्ररूढैर्मृतिं च ब्रूयाद् भग्नैः स्थानदेशेष्टहानिम् || १२-४४ || शुक्लैः पीतैः संप्ररूढैश्च पूर्णैः शीघ्रोत्पन्नैश्चारुभिर्व्यायतैश्च | लक्ष्मीं पुष्टिं चेष्टसिद्धिं समग्रां कर्ता विन्देताङ्कुरैर्मङ्गलं च || १२-४५ || आचार्यस्तत्राङ्कुरेष्वप्रशस्तेष्वालक्ष्यास्मिंश्छान्तिकं कर्मं कुर्यात् | मूलेनाङ्गैर्ब्रह्मभिश्चाथ हुत्वा व्याहृत्यन्तं स्यात् तिलैराज्यमिश्रैः || १२-४६ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अङ्कुरार्पणविधिर्नाम द्वादशः पटलः || अथ त्रयोदशः पटलः अथो यागगेहं चतुर्द्वारकोणं चतुस्तोरणाङ्कं वितानध्वजाढ्यम् | सगोगोमयाद्भिर्विलिप्तं समन्तात् स्रगालम्बितं तत्सुगन्धं च धूपैः || १३-१ || प्रदीपाङ्कुराढ्यैस्तथा पूर्णकुम्भैरलङ्कृत्य कुण्डं च कृत्वेन्द्रभागे | यथालक्षणाढ्यं चतुष्कोणमस्मिन् निधायाग्निमग्नेर्मुखं चात्र हुत्वा || १३-२ || ततो दक्षिणस्यां यजेद् विघ्नराजं समभ्यर्च्य गन्धैश्च भक्ष्यैश्च भोज्यैः | गृहे मध्यतस्तत् स्थलं शोधयित्वा चतुष्कोणमस्मिन् विधायोक्तसूत्रैः || १३-३ || पुनर्द्व्यष्टधा तद् विभज्यात्र च स्युः पदानां शते द्वे च पञ्चाशता षट् | लिखेन्मध्यतोऽब्जं पदैर्द्व्यष्टसंख्यैर्बहिर्वर्तुलानां त्रयं दर्भसंख्यैः || १३-४ || अशीत्या पदानां भवेद् राशिचक्रं प्रियायज्ञसंख्यैः पदैरत्र शिष्टैः | लिखेद् द्वारशोभाः प्रशोभाः सकोणाः पदैः षट्चतुर्भिश्च वेदर्तुसंख्यैः || १३-५ || लिखेद् वर्तुलं तत्तु वीथ्योस्तु मध्ये भवेत् सूत्रकाणां चतुष्कं दिशासु | अरा द्वादशैवं तु ते राशयः स्युः समा मातुलुङ्गैस्तु चेन्दीवराभाः || १३-६ || बहिर्वीथिकायां तु कल्पद्रुमाः स्युर्लताजालपत्रैः फलैः पक्षिभिश्च | यथास्थानशोभं तु पद्मोत्पलाद्यैः समं कोरकैश्चाथ पुष्पैश्च गुच्छैः || १३-७ || चतुर्धा तु पद्मस्थलं भ्रामयित्वा समं कर्णिकार्थं च तत्केसराणाम् | तथा सन्धयः स्युर्दलाग्राणि चैवं समान्यष्टपत्राण्यथो वर्तयेत || १३-८ || सितं शालिपिष्टं तु चूर्णं सुपीतं हरिद्रोद्भवं चाथ रक्तं कुसुम्भम् | भवेच्छ्यामवर्णैः पलाशैस्तु तादृक् सुनीलं विदग्धैस्तथा व्रीहिभिः स्यात् || १३-९ || भवेत् कर्णिका तस्य पीताथ सूक्ष्मा तथा केसराश्चादितः स्थूलमध्याः | पिशङ्गास्तदग्रे तु पीतास्तदन्ते सिताः स्युर्दलेष्वेषु ते युग्मशः स्युः || १३-१० || सिताः सर्वरेखास्त्वनामासमानाश्छदान्यच्छचूर्णैश्च रक्तानि च स्युः | दलानां तु सन्धिर्भवेच्छ्यामवर्णस्त्रिवृत्तानि शुक्लारुणानीलभाञ्जि || १३-११ || तथा श्यामला वारुणा राशयः स्युः सुपीताश्च वीथ्यां तु तत्सन्धयः स्युः | यथाशोभवर्णं तु कल्पद्रुमाः स्युर्विचित्राश्च चक्षुर्मनोज्ञा विधेयाः || १३-१२ || लिखेद् द्वारदेशांश्च शुक्लांस्तु शोभाः कुसुम्भारुणाः स्युश्च पीतोपशोभाः | सुनीलेषु शङ्खास्तु कोणेषु शुक्लान् लिखेत् स्वस्तिकान् वा यथेष्टं मनोज्ञान् || १३-१३ || सशिष्यो गुरुः प्रागुपोष्यैकरात्रं कृतस्नाननित्यक्रियः क्षालिताङ्घ्रिः | समाचम्य शुक्लोत्तरासङ्गवासाः कृतद्वारपूजाविधिः प्रेरितास्त्रः || १३-१४ || पदा पार्ष्णिघातत्रयं चात्र दत्त्वा पदा देहलीं चास्पृशन् दक्षिणेन | प्रविश्योत्तरां त्वन्तराश्रित्य शाखां ततो वास्तुनाथं विधिं चार्चयित्वा || १३-१५ || विधायास्त्रवप्रं तु रक्षां समन्ताद् यथोक्तासने तूपविष्टोऽथ मौनी | चरेद् भूतशुद्धिं मरुत्संयमोत्थां गजास्यं तु याम्ये गुरुं चैश इष्ट्वा || १३-१६ || ततो मन्त्रनद्धस्वदेहः शिवात्मा हृदम्भोरुहस्थं शिवं ज्योतिरेकम् | मनःसाधितैस्तूपचारैस्तथेष्ट्वा यजेन्नाभिकुण्डेऽनलं मानसेन || १३-१७ || समापूर्य चार्घ्यं समूलाङ्गमिष्ट्वा शिरः स्वं समुक्षेच्च कूर्चार्घ्यतोयैः | तथा तैरथोक्ष्यार्चनद्रव्यजातं तथा यागभूमिं च तैः प्रोक्षयित्वा || १३-१८ || ततः स्थानशुद्धिं तु तालत्रयास्त्रात् प्लुतान्तं पठन् निष्कलान्तं च मन्त्रम् | समुच्चार्य स्वाब्जादथेन्दोः स्रुताद्भिः समाप्लाव्य बेरं तथास्त्राम्बु शोध्यम् || १३-१९ || न्यसेद् वर्धनीं चोत्तरेणाम्बुपूर्णां तथा गन्धपुष्पाक्षतं दक्षिणस्याम् | तदर्घ्याम्बुबिन्दुं सगन्धं च पुष्पं क्षिपेन्मूलमन्त्रं जपेद् द्रव्यचक्रे || १३-२० || यथाशक्ति दीपानपि ज्वालयित्वा मनोज्ञान् विशुद्धान् यथोक्तप्रकारान् | सुगन्धाक्षताद्यैर्यथोक्तैः पृथग् वा यजेद् वक्ष्यमाणक्रमान्मण्डलं तत् || १३-२१ || तथाधारशक्तिं न्यसेल्लोकधात्रीं मृणालाङ्कुराभां भुवोऽधो यजेत् ताम् | ततोऽनन्तमुर्वीमनन्तासनाख्यं चतुष्कोणपीठं तु तद्योगसंज्ञम् || १३-२२ || वृषाकाररक्तं तु धर्माख्यमग्नौ यजेद् ज्ञानसिंहं तु कृष्णाक्षपादे | सुपीतं विरागं तथैश्वर्यमच्छं यजेन्मारुतैशस्थभूतद्विपाभौ || १३-२३ || रजः कन्दमुक्तं तमस्तत्र नालं भवेत् सात्त्विकाख्यं सुशुक्लं सरोजम् | ततः सूर्यसोमाग्निबिम्बानि वेधोहरीशात्मयुक्तच्छदादीनि विद्यात् || १३-२४ || तथैवात्मविद्या शिवाख्यानि तत्त्वान्यथो मातृकाब्जं यजेत् तद् यथावत् | समभ्यर्च्य कुम्भं तु हैमादिकं तं सुधौतं त्रिसूत्र्या समं वेष्टयित्वा || १३-२५ || अवाग् धूपगर्भं न्यसेत् कर्णिकायां सधान्यं सदर्भं सबोधिच्छदायाम् | निधायाधरास्यां कलासंख्यगर्भैर्निदध्यात् तु कूर्चं ततः कुम्भपृष्ठे || १३-२६ || निरूप्याथ तस्मिन् स्फुरच्छक्तिमाद्यां प्रपञ्चप्रसूतिं च तत्त्वैरशेषैः | तमुत्तानयित्वा घटं तत्र कूर्चं तदाधाय शक्तिं जपेन् तारगर्भाम् || १३-२७ || विलोमेन तूक्तैस्ततो मातृकार्णैः स्वपद्मेन्दुबिम्बामृतासारमिश्रैः | समं तीर्थतोयैः समापूर्य पूर्वं सवर्णौषधीनां जलेनापि गन्धैः || १३-२८ || अलाभे त्वथासां तु सर्वौषधीनां चतुःक्षीरवृक्षत्वचामम्बुभिर्वा | क्षिपेदष्टगन्धान् सुपिष्टान् यथावत् सुगन्धीनि तद्वत् सुपुष्पाणि चैवम् || १३-२९ || शुभं पद्मरागं प्रवालं च वज्रं हरिद्रत्नमुक्तास्तथा पुष्यरागम् | विडूरोद्भवं चेन्द्रनीलं विशुद्धं क्षिपेच्चन्द्रकान्तं च कुम्भाधिराजे || १३-३० || नवैर्माल्यपुष्पैरलङ्कृत्य चौतैस्तथाश्वत्थबिल्वैर्दलैः पानसैश्च | विशुद्धैर्नवैश्चोन्मुखैः शक्रवल्ल्यां निबध्य स्मरेत् तं तरुं पारिजातम् || १३-३१ || सुपूर्णं तु पात्रं सितैस्तण्डुलैस्तत्सताम्बूलपूगं निधायास्य वक्त्रे | सुसूक्ष्माब्मराभ्यां सिताभ्यां नवाभ्यामलङ्कृत्य माल्यैश्च गन्धाक्षताभ्याम् || १३-३२ || समावाह्य शक्तिं प्रपञ्चप्रसूतिं विशुद्धां च विद्यां चितिं सूक्ष्मरूपाम् | पृथङ् मातृकार्णैस्तु तारान्तरस्थैः शतार्धं कलाश्चापि तारप्रसूताः || १३-३३ || कलास्त्रिंशदष्टौ च पूर्वोदिता याः क्रमात् सन्नियुज्यात् तु शक्तौ घटेऽस्मिन् | तथेच्छाक्रियाख्ये पुनर्ज्ञानशक्तिं स्वतन्त्रप्रबोधावभिव्यञ्जयेच्च || १३-३४ || तथा शक्तिशान्तौ च हंसाख्यजीवं नियुञ्जीत तस्मिन् निजाङ्गैश्च मूलम् | प्रतिष्ठां च जीवस्य मन्त्रेण कृत्वा समस्तेन्द्रियाणां स्मरेत् सन्निधानम् || १३-३५ || ऋचः पञ्च याश्च द्विजस्तारकोक्ता नियुञ्जीत हंसः शुचीत्यादिरेका | प्रतद्विष्णुरन्या त्वनुष्टुप् तथा तत्पदाद्या च विष्णोर्नुकं चेति पूर्वा || १३-३६ || तथैवाङ्गमन्त्रैश्च मूलेन युक्त्या नियुञ्जीत तस्मिंस्तु साकारभावम् | यथोक्तोपचारैः समभ्यर्च्य सम्यक् स्मरेच्छक्तिमिष्टप्रदां चारुरूपाम् | जपापाटलाभां तु दृष्टार्थसिद्ध्यै सपाशाङ्कुशां चेष्टदाभीतिहस्ताम् | विचित्राम्बरस्रक्पिशङ्गानुलेपां लसच्चञ्चलीकप्रभाकेशपाशाम् || १३-३८ || स्फुटद्रत्नभूषाकिरीटप्रभाभिः पृथक् छत्रचापश्रियं बिभ्रतीं खे | प्रपञ्चप्रसूतिं प्रपञ्चात्मिकां तां विचिन्त्यार्चयित्वा हृदम्भोरुहे स्यात् || १३-३९ || समावाह्य शिष्.येष्टमन्त्रानुकूलां स्मरन् देवतां चेष्टरूपादिवर्णाम् | विदिक्ष्वङ्गमन्त्रैश्चतुर्भिस्तदस्रं न्यसेद् दिक्षु नेत्रं तु मध्येऽर्चयीत || १३-४० || तदब्जच्छदाग्रस्थशक्तिस्तदुक्ता यजेल्लोकपालांश्च दिक्ष्वस्त्रदेवान् | क्रमात् पिङ्गपीता सिता धूम्रशुक्ला मधुच्छायपाण्डुच्छवी शुक्लरक्तौ || १३-४१ || सरोजप्रभश्चेति लोकाधिपाः स्युर्दशेन्द्रादयश्चाब्जभूशेषयुक्ताः | सुपीतं च वज्रं तु शक्तिः सुरक्ता सिताभस्तु दण्डः खड्गवर्णस्तु खड्गः || १३-४२ || तडित्कल्प उक्तश्च पाशाङ्कुशः स्यात् सिताभा गदाप्यग्निकल्पं त्रिशूलम् | दिनेशाभमब्जं तु चक्रं च तद्वत् क्रमादित्थमुक्तं यथास्त्राग्निवर्णैः || १३-४३ || गणं वीरभद्रं तथा सप्तमातॄर्भजेद् दक्षिणस्यां पिशङ्गं गजास्यम् | सुनीलं तु भद्रं तथा सप्त मातॄः स्वदेवोपमास्ताः सवाहायुधाद्यैः || १३-४४ || कुबेरात् तु पूर्वप्रदेशे तु चण्डं तथा क्षेत्रपालं स्ववाहं च पूर्वे | सतारस्वनाम्ना नमोन्तं यथावत् क्रमेणोपपत्त्योपचारैरिमेऽर्च्याः || १३-४५ || ततो मण्डलाग्रे न्यसेत् पालिकाद्याः प्ररूढाङ्कुराढ्या यजेद् दिक्षु चैताः | नवं गव्यमाज्यं चरु चाथ कृष्णांस्तिलाञ् शालिसक्तूंश्च सिद्धार्थयुक्तान् || १३-४६ || सतारान् लिपेश्चाक्षराञ्छक्तिहंसौ ठयुग्मान्तमुक्त्वा तु तत्तज्जुहोति | स्वमन्त्रेण चाङ्गैरभीष्टेन हुत्वा महाव्याहृतीश्चेद् द्विजो व्याहृतीश्च || १३-४७ || चतुष्कर्मबन्धप्रहाणाय मन्त्रं पठन् वक्ष्यमाणं तिलाज्यं जुहोति | बकोक्तिः सवामाक्षिरग्निः सझण्टीणकारस्तृतीयायुतः प्राणशब्दः || १३-४८ || जाटटा स्वप्नेण लुप्तेण मनसा वाचा कर्मणा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत् सर्वं ब्रह्मार्पणं भवतु ठ ठ || अनेनाष्टयुक्तं शतं तत्र हुत्वा बलिं चोत्तरेणाथ पूर्णाहुतिं च | तिथीनामुडूनां च राशिग्रहाणां स्वनाम्ना नमोन्तं बलिं तत्र दत्त्वा || १३-४९ || ततस्तत्र शिष्यं विधिस्नानशुद्धं समाचान्तमस्मिन् निवेश्याथ पीठे | शिरस्यस्य दूर्वाश्च कूर्चाक्षताद्यं निधायैनमिष्ट्वा सुगन्धैश्च पुष्पैः || १३-५० || पशोरस्य बन्धच्युतिं चेष्टसिद्धिं प्रसीदेति नत्वाथ तद्देवतायाः | अवाप्याभ्यनुज्ञां तु बिम्बस्थदेवान् समायोज्य कुम्भे स्वयं देशिकस्तम् || १३-५१ || कराभ्यां तु बिभ्रत् तमुद्धृत्य तिष्ठन् कुशाग्रेषु शिष्यं निषिञ्चेत् तदद्भिः | सुषुम्नापथा तत्क्रमाच्छिष्यदेहे स्रवद्वारिधारासुधामिश्रमन्त्रैः || १३-५२ || स्फुरच्छक्तिदीप्त्याथ तद्देवतायाः प्रवेशो हृदब्जेऽथ तस्याभिचिन्त्यः | त्रिवाश्यालिमोक्षं तथास्त्रेण कुर्याच्छिवत्वं च नाड्या समापाद्य तस्मिन् || १३-५३ || समुत्थाय शिष्यस्तु शुक्लं विशुद्धं दधद् वस्त्रयुग्मं पुनः क्षालिताङ्घ्रिः | समाचम्य दत्त्वा तु सूर्याय चार्घ्यं नमस्कृत्य गत्वाथ तद्द्वारदेशम् || १३-५४ || कुशेषूपविष्टो निबद्धाञ्जलिः सन् गुरोराज्ञया तूत्तराशामुखः स्यात् | गुरुः प्राङ्मुखस्तूपविश्यार्घ्यतोयैः शिरः प्रोक्षयेच्चास्त्रतस्तस्य दर्भैः || १३-५५ || शिरस्यस्य भूत्या त्रिराराध्य देहं ततः शोषणाद्यैस्त्रिधा शोधयित्वा | पुनर्भूतशुद्धिं च शिष्यस्य देहे स्वयं चित्तवृत्त्या समापाअद्य पात्रे || १३-५६ || विशेषार्घ्यमिष्ट्वाथ तत्कूर्चतोयैः पुनः प्रोक्ष्य तस्मिन् न्यसेन्मातृकार्णान् | ततः साध्यमन्त्रं च तस्याङ्गमन्त्रान् न्यसेन्मूर्तिमत्तां समापाद्य तस्मिन् || १३-५७ || पुनश्चावकुण्ठ्याथ तं वर्मणाथो स्वमूलाङ्गयुक्तं नवं श्क्लवस्त्रम् | समादाय नेत्रेऽस्य वद्ध्वाथ बिम्बे पुरैवेष्टदेवे समभ्यर्च्य तस्मिन् || १३-५८ || ततः क्षेपयेत् तस्य पुष्पाञ्जलिं तं स यस्यां तु मूर्तौ पतेद् बाङ्गमन्त्रे | तदुक्तं हि नाम्नास्य मन्त्रं च तस्मै प्रदद्यात् त्रिवारं पठेत् सोऽपि मन्त्रम् || १३-५९ || ततस्तारपीठे तु दर्भासनस्थः समालोक्य शिष्यं तु मूलाङ्गजापी | स्वहस्तं शिरस्यस्य विन्यस्य मन्त्रं निधायाङ्गमूलैः स्पृशेत् सर्वमङ्गम् || १३-६० || ततो दर्भमूलं तु शिष्यस्य हस्ते प्रदायोपविष्टः पुराग्नेस्तदग्रम् | स्वजङ्घान्तरस्थं निपीड्यात्मनोऽस्मिन् क्रमाज्जीवनाड्योश्च सन्धिं विदध्यात् || १३-६१ || इडापिङ्गलाख्यस्वनाड्योः स्वनस्तः सुषुम्नापथा(चा?च्चा)पि मूर्ध्नः प्रसूतम् | त्रिधा युत्तु तेजस्तथा शिष्यदेहेऽप्यविच्छिन्नसन्धिं तु जीवं विभाव्यात् || १३-६२ || समानीय शिष्यात्मनोरेकभावं घृतेन त्रिवारं तु मूलेन हुत्वा | तथा शिष्यजीवं तथात्मप्रविष्टं पुनर्निर्गतं चास्य देहं प्रविष्टम् || १३-६३ || भवेदात्मजन्मैवमुद्भाव्य शिष्यः स्फुटं शक्तिपातात् स्वतुल्यः शिवः स्यात् | हरित्कीटकं यन्मृदावेष्ट्य नादं बिकुर्वन् षड्ङ्घ्रिः स्वजातिं करोति || १३-६४ || तथा प्राकृतं शिष्यमाचार्यवर्यः क्रियादीक्षया मन्त्रमूर्तिं करोति | ततोऽष्टौ शतं चापि मूलेन हुत्वा दशांशेन चाङ्गैर्घृतेनैव पञ्च || १३-६५ || द्विजश्चेज्जयादिं जुहोतीह पूर्णां समूलाङ्गमन्त्रैः समस्तैर्जुहोतु | समित्क्षीरलाजैश्च सिद्धार्थगव्यैस्तिलैः सर्पिषाङ्गैश्च मूलेन हुत्वा || १३-६६ || द्विजः श्रौतमन्त्रैः स्वसूत्रोक्तमार्गाज्जुहोतीह सर्पिर्यथा निष्कृतिः स्यात् | प्रायश्चित्तं मूलतस्त्वद्विजानां हुत्वा चाष्टौ विंशतिं चापि मन्त्री || १३-६७ || जातिं तस्याथोद्धरेद् वक्ष्यमाणैर्मन्त्रैराज्यस्याहुतीनां त्रयेण | तारः शक्तिं मूलमन्त्रो निजायां भवन्नस्यात्मनो योनिर्बीजाहारभावदेशशुद्धौ द्विजो भवतु मन्त्रदेहः ठ ठ | तस्मादूर्ध्वं व्याहृतीभिश्च हुत्वा || १३-६८ || भगवन्नस्यात्मा मन्त्रात्मको भवतु ठ ठ | हुत्वानेनाप्याहुतीस्तत्र तिस्रो भूयो हुत्वा व्याहृतीरत्र पश्चात् | अस्त्रेणैनं प्रोक्ष्य सन्ताड्य सद्यो रेचादन्तः संप्रविश्यास्य पाशान् || १३-६९ || विश्लेष्यास्माच्छेदयेदप्यथास्त्रान् मुद्रां बद्ध्वा त्वङ्कुशाख्यां पुनश्च | यच्चैतन्यं शिष्यदेहस्थमस्मादाकृष्येन्दौ द्वादशान्ते नियोज्य || १३-७० || इष्टेऽम्भोजे हृद्गते पूरके तु स्वात्मन्येतद् योजयेत् कुम्भकेन | समरसं तु नयेदथ रेचकान्मनुजभावमपास्य शिवात्मकम् || १३-७१ || स्मरतु हंसजपादभिपूज्य तत् पुनरुदस्य तु शिष्यहृदं नयेत् | नाडीमार्गाच्छिष्यहृत्पङ्कजे तच्चैतन्यं तु स्थापयित्वा स्वपद्मात् || १३-७२ || सूतैरिन्दोः सौधधाराम्बुपूरैराप्लाव्यैनं मन्त्रदेहं विभाव्य | अनामयं शिष्यमलुप्तशक्तिं विचिन्त्य विन्यस्य तु मातृकार्णान् || १३-७३ || तदिष्टमूलाङ्गनिविष्टदेहं विधाय तं बालतनुं तनूजम् | जातकर्मादिकं तस्य कुर्यात् ततो मूलतस्तत् क्रमात् स्यात् त्रिवारं पृथक् | साङ्गमूलं जपंश्चोपवीतेन तं योजयेत् तद्व्रतैश्चोदितैर्मूलतः || १३-७४ || मूलतस्तर्पयेत् पावकं शक्तितस्तत्र पूर्णां पुनश्चापि हुत्वा गुरुः | सामयाचारिकान् धर्मसेतूनमुं श्रावयेत् तान् यथा पालयेत् साधकः || १३-७५ || १३- इत्थमाचार्यतो मन्त्रदीक्षामसौ सप्तजन्मांहसां शोधनीमिष्टदाम् | जप्यहोमार्चनामन्त्रसिद्धिप्रदां प्राप्य सद्यः सुधीः स्यात् कृतार्थश्चिरम् || १३-७६ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रदीक्षापटलस्त्रयोदशः || अथ चतुर्दशः पटलः | अथाग्नेयास्तु कथ्यन्ते कल्पाः सङ्कल्पितार्थदाः | वैदिकः प्रथमः कल्पः शैवो वैष्णव एव च || १४-१ || काम्यश्चेति चतुर्धाग्नेः कल्पाः स्युस्तन्त्रचोदिताः | नित्यं नैमित्तिकं काम्यं साध्यं यत् कर्म वैदिकैः || १४-२ || द्विजैस्तु वैदिकैर्मन्त्रैस्तत् सिध्येद् वैदिकाग्निना | शैवागमोदितं कर्मं शैवैर्मन्त्रैरथापि यत् || १४-३ || कृतं पाशुपताद्यैश्च शैवोऽग्निस्तत् प्रसाधयेत् | वैष्णवं कर्म तन्मन्त्रैः साधयेद् वैष्णवाग्निना || १४-४ || पुरुषार्थचतुष्कं यत् काम्यकर्माणि यानि षट् | तानि संसाधयेदग्निर्मन्त्रैर्वैदिकतान्त्रिकैः || १४-५ || द्वात्रिंशद्भेदभिन्नोऽग्निर्द्वात्रिंशत्कर्मभेदितः | इत्थमाथर्वणविदां ख्यातमङ्गिरसां मतम् || १४-६ || लौकिकः पावकोऽग्निः स्यान्मरुत्तो गर्भधारणे | पवमानः पुंसवने सीमन्ते मङ्गलाह्वयः || १४-७ || तुङ्गे तु शोभनो नाम प्रबलो जातकर्मणि | पार्थिवो नामकरणे भद्रो निष्क्रमणे मतः || १४-८ || शुचिरन्नाशने प्रोक्तः सभ्यश्चौले समीरितः | जातवेदा ह्युपनये संभवः स्याद् व्रतत्रये || १४-९ || गोदाने नामतः सूर्यः सौम्यो व्रतसमर्पणे | आवसथ्यो विवाहे स्यादन्वाहार्ये महेश्वरः || १४-१० || विष्णुराहवनीये तु ब्रह्मा स्याद् गार्हपत्यके | प्रायश्चित्ते वीतिहोत्रः पूर्णाहुत्यां मृडाह्वयः || १४-११ || क्रव्यादः शवदाहे तु समुद्रे वडवामुखः | वर्धनो वनदाहे तु क्षये संवर्तको मतः || १४-१२ || वरदः शान्तिके प्रोक्तः पौष्टिके बलवर्धनः | उत्सादोच्चाटयोर्धूम्रः कृष्णो विद्वेषणे मतः || १४-१३ || वश्ये तु कामदो नाम मारणे शोषणाह्वयः | पिङ्गलः स्तम्भने नाम्ना जठरे जाठरो मतः || १४-१४ || द्वात्रिंशदग्निभेदाधिकारः शुचौ देशे तु कुण्डे वा स्थण्डिले वा यथोदिते | गोमयालेपिते हेमरूप्यताम्रमयादिना || १४-१५ || शकलेनोद्धृतां भूमिं प्रोक्षयित्वाथ वालुकाः | प्राक्षिप्यारत्निमात्रं तु चतुरश्रं विधाय तु || १४-१६ || उल्लिखेत् त्रिरथो रेखाः प्राचीनास्त्रिरुदङ्मुखाः | न शर्करातृणः काष्ठैर्न लोष्टेन नखेन वा || १४-१७ || नाङ्गारेणापि वा तूष्णीं तत्र ब्रह्माधिदैवतम् | ब्रह्मजज्ञानमन्त्रेण प्राचीनं मध्यतो लिखेत् || १४-१८ || नाकेसुपर्णात् प्राचीनं दक्षिणे तूत्तरे पुनः | आप्यायस्वेति पूर्वाग्रं यो रुद्रेत्युदगायतम् || १४-१९ || इदं विष्णुस्तथा पश्चादिन्द्रं वो विश्वतस्परि | इति प्राच्यामुदीचीनभवोक्ष्य शकलं त्यजेत् || १४-२० || स्पृष्ट्वाम्भः पात्रगं वह्निं व्याहृतीभिर्निरूप्य तु | मध्ये प्रणवतः क्षिप्त्वा समाच्छाद्य सदिन्धनैः || १४-२१ || ज्वालयित्वा तु तारेण सदर्भारचिताञ्जलिः | जुष्टो दमूना इत्यादि पठन् परिसमूह्य तु || १४-२२ || परिषिच्याम्भसा दर्भैः परिस्तीर्य यथोदितैः | देवस्य त्वेति वै प्राच्यां व्याहृतीभिस्तु दक्षिणे || १४-२३ || उद्वयं तमसः पश्चादग्न आयाहि चोत्तरे | दक्षिणानुत्तरान् कुर्यादुत्तरानधरानपि || १४-२४ || उत्तरेणाग्निमास्तीर्य दर्भान् पात्राणि सादयेत् | द्वन्द्वशस्त्वाज्यपात्रं च स्रुवं च प्रोक्षणीः स्रुचम् || १४-२५ || प्रणीतापात्रमिध्मं च चरुस्थालीं च मेक्षणम् | बर्हिषः सह कूर्चैरप्यन्यद्धोमोपयोगि यत् || १४-२६ || ब्रीहिनिर्वापपक्षे तु मुसलोलूखले तथा | शूर्पं कृष्णाजिनं चापि स्यात् सर्वं तदधोमुखम् || १४-२७ || तिर्यक् पवित्रं प्रोक्षण्यामादायापूर्य चाम्भसा | अङ्गुष्ठानामिकाभ्यां तत् पाणिभ्यां परिगृह्य तु || १४-२८ || विच्छिद्य तिः समुत्पूय पात्राण्यद्भिरवोक्ष्य तु | उत्तानयित्वा त्रिः प्रोक्ष्य विस्रस्येध्मादिकं पुनः || १४-२९ || प्रादेशसंमितैर्दर्भैरविच्छिन्नाग्रकैरपि | ब्रह्मासनं दक्षिणतः प्रणीतासनमुत्तरे || १४-३० || आज्यस्थाल्यासनं पश्चात् सङ्कल्प्य ब्राह्मणं शुचिम् | ब्रह्मार्थमुपवेश्यास्मिन् कूर्चं वा ब्राह्मणो न चेत् || १४-३१ || तारव्याहृतिभिर्ब्रह्मन्नादिनावाह्य चार्चयेत् | प्रोक्षणीवत् प्रणीतार्थं पात्रमापूर्य चाम्भसा || १४-३२ || दर्भस्थं दर्भसञ्छन्नमुद्धत्य घ्राणसम्मितम् | ब्रह्मणा समनुज्ञातः स्थापयेत् तत्तदासने || १४-३३ || वरुणोऽसीत्यथाराध्य व्रीहीन् वा तण्डुलानपि | स्रुचा स्थाल्याथवा तृष्णीमन्तर्धायाथ याज्यया || १४-३४ || अमुष्या इति निर्दिश्य देवतायै तु निर्वपेत् | ब्रीहीश्चेदवहन्त्येष प्रोक्ष्य त्रिः क्षालयेच्च तान् || १४-३५ || पात्रेषु पातयेत् पश्चादस्मिन्नग्नौ चरुं पुनः | श्रपयित्वा यथोद्दिष्टमभिधार्यावतार्य तु || १४-३६ || उत्तरेणाग्निमासाद्य स्थाल्यामाज्यं विनिक्षिपेत् | निरूह्योत्तरतोऽङ्गारानधिश्रित्याज्यमासने || १४-३७ || दर्भाभ्यां तदभिद्योत्य चरुं चाम्भः स्पृशेत् पुनः | त्रिरभिद्योत्य चाज्येऽथ दर्भाग्रे तु विनिक्षिपेत् || १४-३८ || सह पर्यग्निकृत्वाग्नौ दर्भाङ्गारान् विनिक्षिपेत् | मध्यग्रन्थिपवित्रेण त्रिरुत्पूयाज्यबिन्दुभिः || १४-३९ || अग्नौ प्रहृत्य प्रक्षाल्य विस्रस्य क्षालितं क्षिपेत् | अग्नावथ चतुर्दर्भान् स्रुक्स्रुवौ चोच्छ्रिताननौ || १४-४० || गृहीत्वाग्नौ विनिष्टप्य त्रिस्तैः संमार्जयेत् पुनः | आवेष्ट्य चाङ्गुलीस्तैस्तु पृथक् स्रुक्स्रुवयोः पुनः || १४-४१ || अग्रं दर्भाग्रतो मध्यं मध्यतो मूलमादितः | परिमृज्यानले दर्भान् क्षिपेत् प्रक्षाल्य तौ पुनः || १४-४२ || दर्भासने दक्षिणतो निधायाधोमुखौ यजेत् | आधाय परिधिं स्थूलं पश्चिमेऽथ कृशं पुनः || १४-४३ || दीर्घे दक्षिणतो न्यस्य ह्रस्वं सूक्ष्मं तथोत्तरे | तथोर्ध्वसमिधौ न्यस्य दक्षिणोत्तरपूर्वयोः || १४-४४ || रक्षसामपहत्यै स्यादिति सञ्चिन्त्य वै द्विजः | अदितेत्यादिना याम्ये प्राचीनं परिषिच्य तु || १४-४५ || पश्चिमेऽनुमतेऽप्येवमुदीचीनमथोत्तरे | सरस्वतेत्यादिनाथ समन्ताद् देवपूर्वकम् || १४-४६ || सवितः प्रसवेत्युक्त्वा परिषिच्य विचक्षणः | ध्यायेदथानलं देवं शक्तिस्वस्तिकपाणिनम् || १४-४७ || त्रिणेत्रं कुङ्कमाभासं दिव्याभरणवाससम् | प्रसन्नवदनं चारुजटामकुटधारिणम् || १४-४८ || हेममालापरिक्षिप्तं वरदाभयसंयुतम् | काली कराली च मनोजवा चैव सुलोहिता || १४-४९ || सुधूम्राविष्फुलिङ्गिन्यौ जिह्वा विश्वरुचिस्ततः | दिक्सप्तकस्थिता ह्येताः क्रमात् पूर्वादितः पुनः || १४-५० || ऐशान्यां वसुधाराख्या ह्युपजिह्वा हविर्भुजः | काल्यां शुद्रस्य कृत्यानि कराल्यामाभिचारकम् || १४-५१ || भूतग्रहादिरोगाणां शान्तिं कुर्यान्मनोजवा | सुलोहितायामपि च शान्तिं कुर्याद् विचक्षणः || १४-५२ || अम्भोवृष्ट्यादि धूम्रायां द्वेषोच्चाटे स्फुलिङ्गिनी | सर्वार्थसाधनी देवी जिह्वा विश्वरुचिर्मता || १४-५३ || जुहोतु वसुधारायां श्रीकामः पौष्टिकाय वा | एवं तु सप्त जिह्वाः स्युर्वसुधारा तथाष्टमी || १४-५४ || जिह्वाभेदमविज्ञाय होमः स्यान्निष्फलो यतः | ज्ञात्वा हविर्भुजो जिह्वाः स्यात् फलाप्तिर्हुतादिह || १४-५५ || ततः सिद्त्वा घृतेनेष्मं स्वाहेत् जुहुयात् समम् | स्रुवेणाज्यमुपादाय परिध्योः सन्धिमुत्तरम् || १४-५६ || स्पृष्ट्वा चापातयेद् वह्नावृजुधारां प्रजापतेः | तथा दक्षिणसन्धिं तु स्पृष्ट्वेन्द्रायेति मन्त्रतः || १४-५७ || अथाज्यभागौ जुहुयाद् याम्योदक्पूर्वभागयोः | अग्नये चैव सोमाय स्यातामस्याक्षिणी तु ते || १४-५८ || यथोपदेशं तु समं पूर्वेणाग्नेर्मुखे ततः | युक्तो वहान्दिनाज्येन चतस्रस्त्वादिना तथा || १४-५९ || आनो भद्राद् विरूपाक्षाद् विरूपाक्षादिना पुनः | यातिरश्चीनिपूर्वेण संराधन्यादिना पुनः || १४-६० || प्रसाधन्या व्याहृतिभिर्हुत्वेत्यग्निमुखं भवेत् | चरुं तमभिघार्याथ पूर्वार्धाच्चापरार्धतः || १४-६१ || अवदानद्वयं कृत्वा त्वभिधार्य स्रुचं न्यसेत् | अथाभिधार्य जुहुयाद् यथाम्नायं पृथक् पृथक् || १४-६२ || अथाग्नये स्विष्टकृतेत्युत्तरार्धात् सकृच्चरोः | अवदानं जुहोत्यग्नावभिधार्य स्रुचैव तु || १४-६३ || पूर्वोत्तरार्धे तद्धुत्वा हविरुत्क्षिप्य मेक्षणम् | संस्रावेणाभिहुत्वाथ दर्व्यामानीय तज्जलम् || १४-६४ || अन्तःपरिधि साध्यांस्तानाम्नातांस्तु पितॄन् स्रुचा | निनीयान्तःपरिधि वै निर्णिज्याग्नौ प्रताप्य तु || १४-६५ || पूरयित्वाद्भिरेनां तु बहिःपरिधि सेचयेत् | प्रहृत्य समिधं तां च या पूर्वं परिशेषिता || १४-६६ || तथैव चेध्मसंनाहं प्रहरेदुक्षितं ततः | जयादिं जुहुयात् पश्चात् चित्तंचादित्रयोदश || १४-६७ || मन्त्रास्ततोऽग्निर्भूतानां मादयोऽष्टादश क्रमात् | क्वचित् समावत्वन्तं तु जुहुयादविशेषिते || १४-६८ || विशेषितेषु कृत्येषु जुहोत्यधिपतिः समाः | अवत्वस्मिनदाद् ब्रह्मन्नस्मिन्क्षत्रेत्युदीर्य तु || १४-६९ || अस्यामान्ते तु शिष्यस्यांपुरोधायांपदं ततः | अस्मिन्कर्मन्वदस्यान्ते देवहूत्यां (च) ठद्वयम् || १४-७० || समासीकृत्य जुहुयात् क्रमादष्टादशाहुतीः | ऋताषाडादिभिर्मन्त्रैर्हुत्वा द्वादशभिस्ततः || १४-७१ || तथामात्याहुतीर्गुत्वा यद्देवा देवहेडनम् | इत्यादिभिस्त्वमग्नेन्तं जुहुयान्मन्त्रविंशतिम् || १४-७२ || प्रजापते न त्वदाज्यादिध्मं प्रव्रश्चनं क्षिपेत् | मनोज्योतिरयाश्चाग्नेर्यदस्मिन् कर्मणीति च || १४-७३ || स्वस्ति नस्त्वादिकेनाथ यन्म आत्मन इत्यपि | पुनरन्यादिना हुत्वा व्याहृतीभिस्तथा पुनः || १४-७४ || आभिर्गीर्भिरनाज्ञातं तद्वत् पुरुषसंमितः | प्रत् पाकत्रा यदस्यति हुत्वा स्विष्टकृतं ततः || १४-७५ || संमृज्य परिधीन् दर्भान् प्रस्तरेभ्योऽवलुम्पतु | अग्रमध्यममूलानि त्वाज्यस्थाल्यां निमज्ज्य तु || १४-७६ || अग्रादारभ्य चोर्ध्वाग्रमामूलमथ दाहयेत् | नधूनयेन्न बाह्येऽग्नेः प्रक्षिपेद् विकिरेत् वा || १४-७७ || प्. १२४) एकीकृत्य शनैः प्रास्येत् पृथक्कृततृणं तथा | शम्याश्चेन्न परित्याज्याः परिधिं मध्यमं क्षिपेत् || १४-७८ || इतरौ युगपत् प्रास्येद्धुत्वोर्ध्वसमिधावपि | संस्रावमपि हुत्वाग्नौ परिषेकं विसृज्य तु || १४-७९ || प्रणीताम्भः प्रतिदिशं तूष्णीं संसेचयेत् तथा | प्राच्यां दिश्यादिभिर्मन्त्रैः सेचयेद् वा यथाक्रमम् || १४-८० || भूमौ शिष्टाः परासिञ्चेद् ब्रह्मणे गां च दक्षिणाम् | सत्यां दद्यान्नचेद् विप्रान् भोजयेद् वापि शक्तितः || १४-८१ || प्राश्नीयाद्धुतशेषं वोदरमायुरिति स्पृशेत् | आचम्य यत् इन्द्रादिमुत्तरां च जपेत् ततः || १४-८२ || शेषं दद्याच्छ्रोत्रियायेत्याह बोधायनो विभुः | वैदिकाग्निकल्पाधिकारः | अथ शैवोऽग्निकल्पोअत्र कथ्यते प्रोक्तलक्षणम् || १४-८३ || कुण्डं वा स्थण्डिलं वापि समाक्रामन् प्रदक्षिणम् | शिवमन्त्रं जपन् होमद्रव्याण्यालोकथन् दृशा || १४-८४ || गत्वा कुण्डान्तिकं कुण्डयोनिं वीक्ष्योत्तरामुखः | आसीत हौं शिवायेति प्रणवादिनमोन्तकम् || १४-८५ || जपन् निरीक्ष्य तत् कुण्डं खात्वास्त्रेण तु देशिकः | शिवाङ्गान्यत्र दृश्यन्ते वक्ष्यमाणक्रियाप्तये || १४-८६ || ओं हां शिवाय नमो हृदयाय नमः | ओं हीं शिवाय नमः शिरसे स्वाहा | ओं हूं शिवाय नमः शिखायै वषट् | ओं हैं शिवाय नमः कवचाय हुम् | ओं हौं शिवाय नमो नेत्रत्रयाय वौषट् | ओं हः शिवाय नमः अस्त्राय फट् | अस्त्रेण खातमुद्धृत्य हृदयेनाभिपूर्य तु | तेनैव तु समीकृत्य चाभ्युक्ष्य कवचेन तु || १४-८७ || शराणुना कोट्टयित्वा संमार्ज्यालिप्य तेन तु | ओं हौं शान्त्यतीतायै नमः | ओं हैं शान्त्यै नमः | ओं हूं विद्यायै नमः | ओं हीं प्रतिष्ठायै नमः | ओं हां निवृत्त्यै नमः | इति मध्येन्द्रयाम्याप्यकौबेर्यासु यजेत् कलाः || १४-८८ || ओं हां कलामयाय कुण्डाय नमः | साकल्येन कलात्मानं कुण्डं ध्यात्वाभिपूज्य तु | त्रिसूत्र्यावेष्ट्य तत् कुण्डं ततोऽस्त्रेण कुशेन तु || १४-८९ || आत्मविद्याशिवैस्तत्त्वैः प्राचीनं त्रिः समुल्लिखेत् | उदीचीनं सकृन्मध्ये समिदग्रेण मूलतः || १४-९० || ब्रह्मा विष्णुश्च रुद्रश्च शिवस्त्वासां तु दैवतम् | त्रिभिर्दर्भैरथास्त्रेण वज्रीकृत्य पुनर्हृदा || १४-९१ || पूर्वोत्तराग्रदर्भाभ्यां कुण्डे कृत्वा चतुष्पथम् | इत्यष्टादशसंस्कारैः शुद्धे कुण्डे कुशैः पुनः || १४-९२ || पटं कुण्डस्य सङ्कल्प्य ओं हां वागीश्वरीवागीश्वरासनायः नम | इति दर्भासनं न्यसेत् | ओं हां वागीश्वरीमावाहयामि | श्यामामलङ्कृतां देवी सर्वाभरणभूषिताम् || १४-९३ || ध्यात्वावाह्य त्वनेनैनामृतुस्नातां समर्चयेत् | ततो वागीश्वरं त्वनेनैनामृतुस्नातां रागिणम् || १४-९४ || संपूज्याग्निं यथोद्दिष्टज्वालाधूमेन्धनैर्विना | शरावादिस्थमानीय क्रव्यादांशं त्यजेत् ततः || १४-९५ || मूलेनावोक्ष्य चास्त्रेण प्रेक्ष्यास्त्रेणाथ वर्मणा | अवकुण्ठ्याभिरक्ष्यास्त्राज्ज्योतिराकारवत् स्मरन् || १४-९६ || ओं हों रौं हां इत्यादाय ललाटाक्षान्नेत्राग्निं तेन योजयेत् | पतत्पतङ्गसङ्काशं नाभिकुण्डोत्थितानलम् || १४-९७ || रेचकात् पिङ्गलामार्गान्निस्सार्याग्नौ नियोजयेत् | भौतिकं दैवतं चेत्थं जाठरं चानलत्रयम् || १४-९८ || एकीकृत्य षडङ्गेन ओं रां हृदयाय नमः | ओं रीं शिरसे स्वाहा | ओं रूं शिखायै वषट् | ओं रं नेत्रत्रयाय नमः | ओं रः अस्त्राय फट् | तारं हौं शक्तये वषट् | इति धेन्वामृतीकृत्य कवचेनावकुण्ठ्य तु || १४-९९ || संरक्ष्यास्त्राद्धृदाभ्यर्च्य तमुद्यम्य करद्वयात् | स्थित्वा जानुद्वयेनाथ कुण्डस्योपरि देशिकः || १४-१०० || क्षोभार्थे त्रिः परिभ्राम्य देवी देवौ निरम्बरौ | ध्यात्वेशानशिरस्कौ तौ ओं हां शिवबीजाय नमः | शिवबीजमिति स्मरन् || १४-१०१ || आत्माभिमुखमग्निं तं देव्या गर्भपथा क्षिपेत् | विकीर्णमेकीकृत्यास्त्रान्नाभौ तत्संपुटं नयेत् || १४-१०२ || ओं हां वागीश्वर्यै नमः | परिधाप्येति वस्त्रे तु शौचाचमनकेऽपि च | क्वचेनेन्धनैश्छन्नं धवित्राज्ज्वालयेदमुम् || १४-१०३ || ओं हां हां गर्भाग्नये नमः | इत्यभ्यर्च्याथ संशुद्धं कुशकङ्कणकं करे | दक्षिणे तु निबध्नीयाद् वागीश्वर्यास्तु कौतुकम् || १४-१०४ || ओं सद्योजाताय नमः | इति सद्यं समावाह्य स्वाहान्तं हृदयेन तु | पञ्चाहुतीस्तिलैर्हुत्वा गर्भाधानं समापयेत् || १४-१०५ || ओं हीं वामदेवाय नमः | तमावाह्येति शिरसा हुत्वा पुंसवनं भवेत् | ओं हुं अघोराय नमः | ओं हां पुर्यष्टकदेहाय नमः | जलबिन्दुं कुशास्त्रेण देहप्राणकृते क्षिपेत् | शिखयार्घ्यादिति यावत् | सद्यादिभिस्तिलैर्हुत्वा वक्त्राङ्गानि च कल्पयेत् || १४-१०७ || वक्त्रनिष्कृतिनिष्पत्त्यै पुनः पञ्चाहुतीस्तथा | हुत्वा प्रसूतां वागीशीं शिशुमग्निं च संस्मरेत् || १४-१०८ || ओं हें तत्पुरुषाय नमः | आवाह्य पुरुषं त्वेवं वर्मणाहुतिपञ्चकम् | हुत्वास्त्रेणार्घ्यतोयेन बहिरन्तरवोक्ष्य तु || १४-१०९ || दर्भकङ्कणकं त्यक्त्वा सूतकस्य निवृत्तये | स्नातां विभूषितां देवीं देवं चास्त्राम्बुसेकतः || १४-११० || वस्त्रभूषणगन्धाद्यैरलङ्कृत्याथ तौ धिया | ततः शूलापनोदाय जुहोत्यस्त्रात् पलाशजाः || १४-१११ || वितस्तिमात्राः पञ्चाग्रसमिधो घृतसेचिताः | उत्तरेण तु दर्भेषु पात्रद्रव्याणि सादयेत् || १४-११२ || परिस्तरणमप्यत्र कृत्वा वेण्या कुशैरपि | दर्भासनानि विन्यस्य प्रोक्षण्यै ब्रह्मणे तथा || १४-११३ || प्रणीतानां च परिधीन् विन्यस्य परिषेचयेत् | तिरः पवित्रेणापूर्य प्रोक्षणीं सलिलेन तु || १४-११४ || निवृत्त्यादिकलाभिस्तु परिषिच्य यथाक्रमम् | दर्भेण शिवगायत्र्या तथा परिसमुह्य तु || १४-११५ || ओं हां ब्रह्मणे यज्ञध्यक्षाय नमः | इति ब्रह्माणमावाह्य द्विजं वा कूर्चमर्चयेत् | पवित्रेण प्रणीतार्थमापूर्याद्भिर्जलेश्वरम् || १४-११६ || विभाव्यानासमुद्धृत्य तस्याभ्यर्च्य स्वविष्टरे | ओं हां विष्णवे यज्ञारिसूदनाय नमः | इति कूर्चाहितं विष्णुं प्रणीतायां प्रपूजयेत् || १४-११७ || ततः परिधिदर्भस्थान् ब्रह्माणं शङ्करं हरिम् | अनन्तं च चतुर्दिक्षु तारं हांनामतोऽर्चयेत् || १४-११८ || लोकेशानपि रक्षार्थं स्वदिक्ष्वाराध्य तु क्रमात् | तदस्त्राणि च तद्दिक्षु शिवाज्ञां श्रावयेत् ततः || १४-११९ || भो भो ब्रह्मेन्द्रविष्ण्वाद्या देवाः सास्त्राः शिवाज्ञया | स्वस्यां स्वस्यां दिशि स्थित्वा रक्षध्वं वह्निबासकम् || १४-१२० || स्रुक्स्रुवावपि चादाय निरीक्ष्य सुकुशौ हृदा | प्रताप्यास्त्रेण संक्षाल्य शिरसोर्ध्वमुखौ हृदा || १४-१२१ || प्रताप्य क्षालयित्वाथ मूलमध्याग्रतः कुशैः | ओं हां आत्मतत्त्वाधिपतये ब्रह्मणे नमः | ओं हीं विद्यातत्त्वाधिपतये विष्णवे नमः | ओं हुं शिवतत्त्वाधिपतये रुद्राय नमः | इति क्रमेण स्ंमृज्य संक्षाल्याभ्यर्च्य तत्त्रयम् || १४-१२२ || ओं हौं शक्तये नमः | इति स्रुचं समाराध्य ओं हां शिवाय नमः | स्रुवं चानेन पूजयेत् | त्रिसूत्र्यावेष्टितग्रीवो नो चेद् दर्भेण दक्षिणे || १४-१२३ || कुशासने तौ संस्थाप्य ततो गव्यं नवं शुभम् | आज्यं निरीक्षणाद्युक्तचतुस्संस्कारसंस्कृतम् || १४-१२४ || ब्राह्मीं स्वमूर्तिं सञ्चिन्त्य कुण्डोर्ध्वानलकोणके | प्रताप्यानेन जुहुयात् ओं हां ब्रह्मणे स्वाहा | पुनरैशे प्रप्ताप्य तु || १४-१२५ || जुहुयाद् विष्णवे चेति विष्णुमूर्तिः स्वयं ततः | इति हुत्वा कुशाग्रेण घृतबिन्दुं प्रताप्य च || १४-१२६ || ततो रुद्रतनुर्वह्निं त्रिः परिभ्राम्य तद् घृतम् | ओं हां रुद्राय ठठ | हुत्वानेन कुशाग्रेण योन्यां दर्भेषु विन्यसेत् || १४-१२७ || कुशद्वयाग्रं प्रज्वाल्य घृते प्रक्षिप्य तं हृदा | पुनरग्नौ क्षिपेद् दर्भं पवित्रीकरणं तु तत् || १४-१२८ || कवचेन घृतं वीक्ष्य शिष्टं दर्भोल्मुकं क्षिपेत् | अग्नौ तद्रञ्जनं हस्तौ प्रक्षाल्यादाय वै कुशम् || १४-१२९ || प्रज्वाल्यज्ये समावर्त्य क्षिप्त्वाभिद्योतनं भवेत् | स्वदक्षिणोत्तरौ हस्तौ पक्षौ शुक्लेतरौ स्मरन् || १४-१३० || स्वाङ्गुष्ठानामिकाभ्यां तु प्रोत्तानाभ्यां पवित्रकम् | प्राचीनमाज्ये प्रक्षिप्य दक्षिणोत्तरभागयोः || १४-१३१ || आज्ये पूर्वापरौ पक्षौ सोमाप्यापचयान् स्मरन् (?) | पिङ्गलां भावयेच्चेडां सुषुम्नां मध्यतस्तथा || १४-१३२ || ओं हां अग्नये ठठ | अनेन दक्षिणाज्यांशात् स्रुवेणाक्षिणि दक्षिणे | हुत्वा चामन्त्र्य भगेन ओं हां सोमाय ठठ | वह्नेर्वामविलोचने || १४-१३३ || ओं हां अग्नीषोमाभ्यां ठठ | इति मध्वाज्यभागेन हुत्वा लालाटनेत्रके | ओं हां अग्नये स्विष्टकृते ठठ | इत्याज्यभागत्रितयाद्धुत्वाग्नेर्मुखकल्पना || १४-१३४ || क्रमोऽयं पूर्वपक्षे स्याद् विशेषोऽस्त्यसिते यथा | ओं हां अग्नये ठठ | ओं हां सूर्याय ठठ | ओं हां अग्नीषोमाभ्यां ठठ | ओं ओं हां अग्नये स्विष्टकृते ठठ | एवं नेत्रत्रयं चाग्नेः स्याद् वक्त्रोद्धाटनं तथा || १४-१३५ || आज्ये नाडित्रयाधानं पक्षयोरपि कल्पना | अथाङ्गैरभिमन्त्र्याज्यम् ओं हौं शक्तये वौषट् | अनेनाप्यभिमन्त्र्य तु || १४-१३६ || अमृतीकृत्य तद्धेनुमुद्रया वर्मणा पुनः | अवकुण्ठ्यास्त्रतो रक्षेदित्युक्ताज्यस्य संस्कृतिः || १४-१३७ || संस्कृताज्यस्य यद् बिन्दुं क्षिपेदन्यघृतादिषु | संस्कृतान्येव तानि स्युर्हृदयेनाभिमन्त्रणात् || १४-१३८ || अथ सद्यादिपञ्चास्यं प्रतिवक्त्रं त्रिलोचनम् | शिवाग्निं संस्मरेत् सौम्यं सप्तजिह्वान्विताननम् || १४-१३९ || अत्र पौष्करे - चतुर्मुखेषु चतस्रो जिह्वास्तिस्रो मध्यमे | ताश्च दीक्षाप्रतिष्ठादिषु सात्त्विक्यः क्षुद्रेषु तामस्यः काम्येषु राजस्यः | (इति |) ताः पूर्वमेवोक्ताः | अभयं स्वस्तिकं शक्तिं वरदं दधतं भुजैः | शुक्लमाल्याम्बरालेपं दिव्याभरणभूषितम् || १४-१४० || इष्ट्वार्घ्यं गन्धपुष्पाद्यैरुपचारैर्यथाविधि | ओं हां सद्योजातमूर्तये ठठ | ओं हां वामदेवगुह्याय ठठ | ओं हां अघोरहृदयाय ठठ | ओं हां तत्पुषवक्त्राय ठठ | ओं हां ईशानमूर्धाय ठठ | एवं वक्त्राभिधारः स्याद्धुत्वा तत्तन्मुखे पृथक् || १४-१४१ || ओं हां सद्योजातमूर्तये वामदेवगुह्याय ठठ | ओं हां वामदेवगुह्यायाघोरहृदयाय ठठ | ओं हां अघोराय हृदयाय तत्पुरुषवक्त्राय ठठ | ओं हां तत्पुरुषवक्त्रायेशानमूर्धाय ठठ | इति वक्त्राणि सन्धाय जुहुयाद् द्वन्द्वशो घृतम् | ओं हौं हें हुं हिं हं ईशानतत्पुरुषाघोरवामदेवसद्योजातेभ्यः ठठ | इत्यग्निकोणाद् वायवन्तं वायोर्नक्तञ्चरान्तकम् || १४-१४२ || राक्षसादीशकोणान्तं स्रुवेणाज्यैकधारय || हुत्वा नित्येषु मुख्यत्वात् सद्यस्य वदनस्य तु || १४-१४३ || कुण्डप्रमाणं तद्वक्त्रं ध्यात्वान्येषां तु सद्यके | अनुप्रवेशाद् वक्त्राणां वक्त्रैकीकरणं स्मरेत् || १४-१४४ || तथाचोक्तं संहितायां नित्यकर्मणि सद्यके | मुख्यमूर्ध्वं स्मृतं वक्त्रं गुणत्वमितरस्य तु || १४-१४५ || इति | अपि च- नैमित्तिके च काम्ये च यस्य वक्त्रस्य मुख्यता | यत्र यत्र समुद्दिष्टं तस्यैकीकरणं परैः || १४-१४६ || तथा मुमुक्षोर्दीक्षाया मुख्यं ह्यूर्ध्वमुखं स्मृतम् | दृष्टसिद्ध्याप्तये पूर्वं दक्षिणं क्षुद्रकर्मसु || १४-१४७ || उत्तरं वामदेवाख्यं शान्तिके पौष्टिकेष्टदम् | नित्यकर्मसु सद्याख्यं संहितायामितीरितम् || १४-१४८ || एतत्पर्यन्तमुद्दिष्टं जातकर्मसमापनम् | ओं हां ईशानाय नमः | इतीशानं समावाह्य तिलास्त्राहुतिपञ्चकम् || १४-१४९ || हुत्वा नामास्य कुर्वीत ओं हां शिवाग्निगुताशस्त्वम् | इयुक्त्वाराध्य चानलम् | ओं हां वागीश्वरीवागीश्वराभ्यां ठठ | अनेनोद्वास्य पितरौ | ओं हौं शिवाय वौषट् | पूर्णे हुत्वा त्वनेन तु || १४-१५० || अनाहितशिवे वह्नौ पञ्चसंस्कारसंस्कृते | पात्याश्चरुपुरोडाशा धूपाद्यर्थं च रक्षिते || १४-१५१ || यथोक्तं संहितायां - पात्याश्चरुपुरोडाशाः पञ्चसंस्कारसंस्कृते | अनावाहितदैवेऽग्नौ होमस्त्वावाहिते भवेत् || इति | अथैकादशसंस्कारानुपनिष्क्रामणादिकान् | मूलेन वौषडन्ते कुत्यात् त्रिस्त्रिर्घृताद्धुतात् || १४-१५२ || तद्यथा - उपनिष्क्रामणान्नप्राशनचौलोपनयनोपाकर्मव्रतसंग्रहणव्रतोत्- सर्जनगोदानसमावर्तनविवाहाग्न्याधानानीति यावत् | स्रुच्याज्यपूर्णायां चाथ विन्यस्याधोमुखं स्रुवम् | स्रुगग्रे पुष्पमाधाय पाणिभ्यां शङ्खमुद्रया || १४-१५३ || श्लिष्टदण्डौ तौ गृहीत्वा समपादतथा स्थितः | स्रुगग्रे दत्तदृष्टिः सन् मूलेन हृदयादिना || १४-१५४ || बौषडन्तेनाज्यधारां यवमात्रामखण्डिताम् | मन्त्रान्ते पातयेदग्नावित्थं पूर्णाहुतिर्भवेत् || १४-१५५ || अनन्तरं भोः शिवाग्रे! त्वदीये हृदयाम्बुजे | यागेऽस्मिन् शिवमावाह्य स्वनुज्ञाता यजामहे || १४-१५६ || इति लब्धाभ्यनुज्ञोऽथ स्वासनाङ्गस्वमूर्तिभिः | वह्नौ शिवं समावाह्य शिवसन्धानमाचरेत् || १४-१५७ || बह्निस्थशिवनासाग्रनिष्ठ्यूताच्छिन्नतेजसा | लिङ्गस्थशिवनासाग्रनिर्गतज्योतिषा सह || १४-१५८ || सन्धानं पिङ्गलानाड्या त्वायागान्तं विभावयेत् | अभ्यर्च्याज्यादिभिः प्रोक्तैर्हविर्भिस्तर्पयेछिवम् || १४-१५९ || विध्युक्तानलजिह्वायां हूयमानं तु यद्धविः | अग्नेः सौषुम्नमार्गेण शिवमूर्ध्नि सुषुम्नया || १४-१६० || सन्धायामृतधाराभिर्गवीरूपाभिरीश्वरम् | तर्पयेत् यथा स स्यात् प्रसन्नः स्वेष्टदः शिवः || १४-१६१ || नाडीसन्धानाधिकारः | अथाज्यं च तिलाश्चान्नं साज्यं नित्ये हुतं स्मृतम् | वैशेषिकेषु कृत्येषु द्रव्यैरुक्तैर्जुहोतु च || १४-१६२ || शिवाद् दशांशमूर्तीनामङ्गानां हविषा हुतम् | पर्वसु द्विगुणं नित्याद्धोमतुल्योऽस्तु वा जपः || १४-१६३ || ओं हौं शिवाय स्वाहेति स्ववदानत्रयं चरोः | अभिघार्य स्रुचा हुत्वा मूर्त्यङ्गानां सकृत् सकृत् || १४-१६४ || आचामं प्रोक्षणीतोयैर्दत्त्वार्घ्यं चास्त्रमन्त्रतः | गन्धैः पुष्पैर्धूपदीपैस्ताम्बूलेनापि तं यजेत् || १४-१६५ || कृत्वाग्निं भस्म चालभ्य नाडीसन्धिं विसृज्य तु | बीजादिभिर्व्याहृतीभिर्मूर्त्याङ्गैश्च सकृत् सकृत् || १४-१६६ || हुत्वाज्यमुद्धृत्यास्त्रेण मूर्त्याङ्गानि यथास्थिति | शिवे नियोज्य वह्निस्थं शिवं चाग्नेर्हृदम्बुजे || १४-१६७ || सन्निरुध्याथवा रक्षेत् प्रत्यहं विसृजेत् तु वा | ओं हौं हैं हूं हीं हां शिवमूर्तये नमः | इत्यग्नेः शिवमूर्तिं तां सङ्गृह्य कुसुमाञ्जलौ || १४-१६८ || ओं हौं, ओं हों, ओं हें, ओं हुं, ओं हिं शिवाय नमः | अनेन लिङ्गस्थशिवे योजयेद् वा हृदम्बुजे | प्रागेव नाडीसन्धानं सति लिङ्गे तु तच्छिवे || १४-१६९ || अलिङे स्वहृदम्भोजे शिवात् तन्नासिकाग्रतः | सन्धानमाचरेत् तद्वदूह्योद्वासनकल्पना || १४-१७० || नैमित्तिकेषु कृत्येषु द्विजातिश्चेज्जयादिभिः | अमात्यनिष्कृतीश्चैव हुत्वा स्विष्टकृतं तथा || १४-१७१ || ओं हां अग्नये ठठ | ओं हां सोमाय ठठ | ओं हां अग्नीषोमाभ्यां ठठ | ओं हां अग्नये स्विष्टकृते ठठ | मन्त्रैरेभिश्च जुहुयादेभिरेवाद्विजातिषु | आग्नये वा पुरो वाग्नेः कृत्वा मण्डलकद्वयम् || १४-१७२ || बलिं क्षिपेन्नमोन्तैः स्वैस्तारहृत्पूर्वनामभिः | चरुशेषेण गन्धाद्यैर्दिग्विदिक्क्रमयोगतः || १४-१७३ || रुद्रमातृगणानां च यक्षग्रहसुरद्विषाम् | रक्षसामपि नागानां प्रागीशानादिकं क्रमात् || १४-१७४ || नक्षत्राणां च तन्मध्ये चैतेषां मध्यतः पुनः | राशिभ्यं पुनरीशान्ते वह्नौ विश्वेभ्य इत्यपि || १४-१७५ || नैरृत्यां क्षेत्रपाया दुर्गायै वायुगोचरे | एवमन्तर्बलिं क्षिप्त्वा द्वितीये मण्डले पुनः || १४-१७६ || इन्द्रादिभो यथापूर्वं दशदिक्षु बलिं क्षिपेत् | विसृज्यैतान् पुनर्बाह्ये मण्डलादेवलिं क्षिपेत् || १४-१७७ || सर्वतो विकिरन् दिक्षु वायसादिभ्यः समयभेदिभ्यः ठठ | बलिमन्त्रानथो हरेत् | पुनः प्राङ्कणभागान्ते मण्डले तु बलिं क्षिपेत् || १४-१७८ || ये रुद्रा रौद्रकर्माणो रौद्रस्थाननिवासिनः | सौमयाश्चैव तु ये केचित् सौम्यस्थाननिवासिनः || १४-१७९ || मातरो रौद्ररूपाश्च गणानामधिपाश्च ये | सर्वे सुप्रीतमनसः प्रतिहृह्णन्त्विमं बलिम् || १४-१८० || सिद्धिं यच्छन्तु मे क्षिप्रं भयेभ्यः पान्तु मां सदा | सर्वेभ्यो भूतेभ्यो नम इति बलिं क्षिप्त्वा पुनश्च योगिन्यो भीषणा रौद्रा वेताला ब्रह्मराक्षसाः || १४-१८१ || आगत्य प्रतिगृह्णन्तु शिवेच्छानुविधायिनः | मया दत्तं बलिं क्षिप्रं भयेभ्यः पान्तु मां सदा || १४-१८२ || ओं हां हः हुं फट् | अनेन च बलिं क्षिपेत् | दत्त्वा बलिं ततः पादौ प्रक्षाल्याचम्य वाग्यतः | नमस्कृत्य महादेवं कर्म कुर्याद् यथोत्तरम् || १४-१८३ || शैवाग्निकल्पाधिकारः | अथ वैष्णवकल्पोऽग्निः कथ्यते तन्त्रचोदितः | स्नातो धौताङ्घ्रिराचान्तः प्राणानायम्य वाग्यतः || १४-१८४ || रेखास्तिस्रोऽथ पूर्वाग्रास्तिस्रश्चोदङ्मुखा लिखेत् | द्वादशाक्षरविद्यां तु जपित्वा तु यथाक्रमम् || १४-१८५ || निरस्य शकलं धौतपाणिः सम्प्रोक्ष्य विद्यया | करदेहाङ्गविन्यासान् कृत्वा तारमनुस्मरन् || १४-१८६ || तत्रावाह्य परां शक्तिं लक्ष्मीमृतुमतीं स्मरन् | स्नातामलङ्कृतां विष्णुं तथैवावाह्य तौ यजेत् || १४-१८७ || आरणेयाग्न्यन्यतमं शरावादिस्थितानलम् | अनीतं तारतोऽवोक्ष्य विष्णोर्बीजमनुस्मरन् || १४-१८८ || देव्या योनौ विनिक्षिप्य गर्भं ध्यात्वेन्धनैरमुम् | उद्दीप्यविद्यया प्राग्वदद्भिः परिसमूह्य तम् || १४-१८९ || दर्भेषु पात्राण्यासाद्य परिस्तीर्य यथाक्रमम् | प्रोक्षणीमद्भिरापूर्य द्वादशाक्षरविद्यया || १४-१९० || तस्यामावाह्य तु हरिं तज्जलैः प्रोक्ष्य तान्यथ | उत्तानयित्वा पात्राणि विस्रस्येध्मं च वेधसम् || १४-१९१ || दक्षिणे प्राग्वदावाह्य संपूज्योत्तरतः पुनः | प्रणीताः पूरयित्वाद्भिः प्राग्वद् विन्यस्य तत्र तु || १४-१९२ || साङ्गं विष्णुं समावाह्य संपूयाज्यं निरूप्य तु | श्रपयित्वोत्तरेऽङ्गारे त्रिरभिद्योत्य तं कुशैः || १४-१९३ || त्रिरुत्पूय निधायाग्रे सदर्भौ स्रुक्स्रुवौ पुनः | प्रताप्य क्षालयेत् तारात् परिमृज्याग्रमग्रतः || १४-१९४ || मध्यं मध्येन मूलं तु मूलेनाग्नौ क्षिपेत् कुशान् | परिधीनूर्ध्वसमिधौ प्राग्वद् विन्यस्य विद्यया || १४-१९५ || परिषिच्येध्ममादाय घृतेनावोक्ष्य तारतः | सकृद्धुत्वा तथाअघारौ हुत्वा तु द्वादशाक्षरात् || १४-१९६ || गर्भाधानादिकर्माणि तिलैः प्रत्याहुतित्रयम् | हुत्वा प्रणवतस्तस्य पितरौ तौ विसृज्य तु || १४-१९७ || हेमपीठाम्बुजे वह्नेर्मूर्तिं ध्यायेच्च वैष्णवीम् | पञ्चवक्त्रं चतुर्बाहुं हेमवर्णं त्रिलोचनम् || १४-१९८ || तस्य पृथ्वी भवेत् पादौ द्यौः शिरस्त्वसवोऽनिलः | चक्षूंषि सूर्यः खं क्रोडं जिह्वाः सप्त जगन्ति ताः || १४-१९९ || हृदये गार्हपत्यः स्यान्मुखेष्वाहवनीयकः | अन्वाहार्यो भवेत् कुक्षौ वेदा वक्त्राण्यनुक्रमात् || १४-२०० || ऋङ्मयं प्राङ्मुखं हेमवर्णं दैविकसाधनम् | भिन्नाञ्जननिभं याम्यं याजुषं क्षुद्रकर्मकृत् || १४-२०१ || पश्चिमं तूदयार्काभमाथर्वं शान्तिके मतम् | उत्तरं साम चन्द्राभं काम्यकर्मप्रसाधनम् || १४-२०२ || सर्ववेदमयं ह्यूर्ध्वं स्फटिकाभं विमुक्तिदम् | एवं ध्यात्वाभिपूज्यैनं तदीये हृदयाम्बुजे || १४-२०३ || वासुदेवं चतुर्बाहुं शङ्खचक्रगदाधरम् | यथोक्तरूपमावाह्य संपूज्योक्तैर्जुहोति च || १४-२०४ || जयादिभिर्द्विजातिश्चेद्धुत्वा स्विष्टकृतं तथा | समापयेच्च तत् कर्म दत्त्वा तद्ब्रह्मदक्षिणाम् || १४-२०५ || उत्सृज्याथ प्रणीताश्च तद्वत् परिधिविष्टरान् | बेरे वा स्वहृदब्जे वा प्रवाह्याग्निस्थमच्युतम् || १४-२०६ || अग्निं चापि यथापूर्वं साङ्गोपाङ्गं प्रवाहयेत् | वैष्णवाग्निकल्पाधिकारः कल्पोऽथ मान्त्रिको वह्नेरशेषार्थप्रसाधकः || १४-२०७ || कथ्यते स्थण्डिलं वापि कुण्डं वा प्रोक्तलक्षणम् | गोमयालेपितं तारादुद्धृत्य शकलेन तु || १४-२०८ || समीकृत्योपलिप्याथ हैमादिशकलेन तु | मध्ययाम्योत्तरा रेखास्तिस्रः प्राचीनमुल्लिखेत् || १४-२०९ || मध्यापरैन्द्रगा रेखास्ततोदीचीनमुल्लिखेत् | अवोक्ष्य शकलं त्यक्त्वा सर्वत्र प्रणवं जपन् || १४-२१० || अरणेर्वा मणेर्वाग्निं श्रोत्रियागारतोऽपि वा | शरावादौ समानीतं निरीक्ष्याभ्युक्ष्य तारतः || १४-२११ || क्रव्यादांशं परित्यज्य प्राङ्मुखो वाग्यतः शुचिः | जाठरं चैन्दवं चाग्निं भौतिकेऽस्मिन् नियोज्य तु || १४-२१२ || स्नातामृतुमतीं शक्तिमीश्वरं च सिसृक्षया | सङ्गतावभिपूज्यैतौ शक्तिबीजेन साधकः || १४-२१३ || ईशबीजं विचिन्त्याग्निं शक्तेर्गर्भे विनिक्षिपेत् | इन्धनाभ्यां तमुत्थाप्य समाच्छाद्येन्धनैस्ततः || १४-२१४ || ओं चित्पिङ्गल हन दह पच सर्वज्ञ आज्ञापयति ठठ | अनेन तु धवित्रेण ज्वालयित्वा हुताशनम् | ओं अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् || १४-२१५ || सुवर्णवर्णमनलं समिद्धं सर्वतोमुखम् | उपस्थानमनेनाथ कुर्यात् पुष्पं च निक्षिपेत् || १४-२१६ || एकैकशस्तु प्रागादिदर्भैरास्तीर्य देशिकः | परिषिच्य जलैस्तूष्णीमभ्यर्च्याग्निं षडङ्गतः || १४-२१७ || जलबिन्दुं जीवभूतं क्षिप्त्वा प्रणवतोऽनले | गर्भाधानादिकर्माणि षडङ्गैः स्वैरनुक्रमात् || १४-२१८ || प्रत्याहुतित्रयं हुत्वा परिषिच्याथ तारतः | दर्भेषूत्तरतो वह्नेः पात्राण्यासाद्य पूर्ववत् || १४-२१९ || तोयसेकदयाधेयसंख्यैर्दर्भैर्यथाक्रमम् | परिस्तीर्य यथापूर्वं प्रोक्षणीं वेधसं तथा || १४-२२० || प्रणीतां चाभिपूज्याग्निं परिषिच्यादितः क्रमात् | ध्यात्वा हेमासनाम्भोजधवलं केसरोज्ज्वलम् || १४-२२१ || तदष्टपत्राग्रगता मूर्तयोऽष्टौ हविर्भुजः | अग्निः स्यात् प्रथमा मूर्तिर्वैश्वानरहुताशनौ || १४-२२२ || जातवेदा हुतवहो हुतवर्मा ततः परम् | तथा देवमुखः सप्तजिह्वश्चेत्यष्टमूर्तयः || १४-२२३ || जातवेदाः सप्तजिह्वो हव्यवाहस्तथापरः | अश्वोदरस्तथैवाजस्ततो वैश्वानराह्वयः || १४-२२४ || तद्वत् कौमारतेजाश्च विश्वेदेवमुखस्तथा | अग्नयेपदपूर्वाः स्युर्मूर्तयोष्ऽटौ परे जगुः || १४-२२५ || शक्तिस्वस्तिकसाभयं सवरदं काश्मीररक्तद्युतिं शुक्लालेपनमाल्यदामवसनं भास्वज्जटामण्डलम् | व्यालोलामलहाररत्नमकुटं तं हेममालोज्ज्वलं ध्यायेत् सौम्यमभीष्टदं हुतवहं त्र्यक्षं प्रसन्नाननम् || १४-२२६ || हिरण्या गगना रक्ता कृष्णाख्या त्वथ सुप्रभा | बहुरूपातिरक्ता च सात्त्विक्यः सप्त कीर्तिताः || १४-२२७ || पद्मरागा सुवर्णी च भद्रलोहितलोहिते | श्वेता च धूमिनी चैव करालीति रजोन्विताः || १४-२२८ || विश्वमूर्तिस्फुलिङ्गिन्यौ धूम्रवर्णा मनोजवा | विलोहिता कराली च काली चेति तमोन्विताः || १४-२२९ || धातुबीजैर्विलोमोक्तैर्वह्निवायू मभूषितैः | पूर्वादिदिक्षु जिह्वाः स्युर्वसुधारेशकोणगाः || १४-२३० || दैवेष्वपि च नित्येषु सात्त्विक्यः शान्तिकेष्वपि | शस्ताः काम्येषु राजस्यस्तामस्यः क्रूरकर्मसु || १४-२३१ || देवताः पितृगन्धर्वा यक्षनागाः पिशाचकाः | क्रमेण जिह्वाधीशाः स्युस्तथैव ब्रह्मराक्षसाः || १४-२३२ || सर्वदेवमयी ख्याता वसुधारोपजिह्विका | तस्यां काम्यानि शस्तानि शेषाः स्युर्वैदिकोदिताः || १४-२३३ || प्रणवादिनमोन्तं तु मूर्तीर्जिह्वास्तथार्चयेत् | सहस्रार्चिः स्वस्तिपूर्णाश्चोत्तिष्ठपुरुषस्ततः || १४-२३४ || धूमव्यापीसप्तजिह्वस्तथा षष्ठो धनुर्धरः | षडेवमङ्गमन्त्राः स्युर्वह्नेर्जातियुताः पृथक् || १४-२३५ || अङ्गानि मूर्तयश्चैव प्रसन्नाः स्युश्चतुर्भुजाः | शक्तिस्वस्तिकदोर्द्वन्द्वरुक्माभरणभूषणाः || १४-२३६ || तथेन्द्राद्यांश्च लोकेशानस्त्राणि च बहिर्यजेत् | स्वमूर्तिमपि चाग्नेयी न्यस्ताङ्गां परिभाव्य तु || १४-२३७ || इष्ट्वा गन्धादिभिर्वह्निमाज्यं संस्कृत्य पूर्ववत् | स्रुक्स्रुवावपि संमृज्य वैदिकाग्न्युक्तमार्गतः || १४-२३८ || प्राजापत्यादिभिर्मन्त्रैर्विअदिकाग्निमुखं ततः | हुत्वाङ्गमूर्तीर्जिह्वानामेकैकाज्याहितिक्रमात् || १४-२३९ || हुत्वा त्वनेन मन्त्रेण जुहोत्येकाहुतिं पुनः | तार व्याहृतयस्तिस्रो वैश्वानरपदं ततः || १४-२४० || सोऽपि भाव जातवेद इहावह सर्वकर्माणि साधय ठठ | व्याहृत्यादिमिमं मन्त्रं मूलमग्नेर्विदुर्बुधाः | ऋषिः स्यात् सविता छन्दो दैवीगायत्रसंज्ञितम् || १४-२४१ || देवता जातवेदोऽग्निः समृद्ध्यादौ नियुज्यते | महासमृद्धिदो ह्येष जप्यः स्यादयुतं परः || १४-२४२ || ब्रीहिं न्यग्रोधसमिधस्तिलराज्याज्यपायसैः | पूर्वादिदिक्षु हुत्वादौ क्रमात् प्रतिपदादिषु || १४-२४३ || साष्टोत्तरसहस्रं वा शतं वाज्यं जुहोतु च | एकादश्यां यथाशक्ति भोजयित्वा शुचीन् द्विजान् || १४-२४४ || रक्तां गां दक्षिणां दत्त्वा सिध्येत् सामृद्धिको मनुः | उक्तैर्द्रव्यैः प्रतिपदि पृथक् साष्टकं वा स्हस्रं हुत्वा व्रीहिं जरदमथवा प्रत्यहं रुद्रसंख्यम् | व्याघातीयैर्धृतविलुलितैर्वा त्रिपक्षं तथेध्मैः पालाशैर्वा मधुरमिलितैः स्यात् समृद्धिस्तु पुष्पैः || १४-२४५ || साज्यं गव्यं पायसं वा जुहोतुनित्यं क्षीरं कापिलं गोघृतं वा | बन्दूकैर्वा क्षौद्रसिक्तैश्च पुष्पैर्लक्ष्मीकामो मासमष्टौ सहस्रम् || १४-२४६ || क्षीराहारः शोणगोक्षीरहोमी लक्ष्मीं विन्देताक्षयां मासमात्रात् | मेधाकामः पौर्णमासीषु लक्षं स्पृष्टं (?) ब्राह्मं वा घृतं प्राश्य विन्देत् || १४-२४७ || लक्षं हुत्वा साज्यदूर्वाङ्कुराणां मृत्युं जित्वा दीर्घमायुश्च विन्देत् | हुत्वा चैकामाहुतिं सन्निधत्ते मन्तेणादौ चाखिलेष्वध्वरेषु || १४-२४८ || आहवन्त्यादिना प्रातरग्नेस्तिथौ पायसं सर्पिषा साष्टसाहस्रकम् | यज्जुहोत्यक्षयामाहवत्येव तद्वस्रहेमान्नगास्त्वावहन्ती श्रियम् || १४-२४९ || अस्यात्यनुष्टुप्च्छन्दः स्यादृषिरुक्तस्तु काश्यपः | भद्राग्निर्देवता प्राग्वदङ्गान्यपि च साधनम् || १४-२५० || प्राजापत्यं पङ्क्तिसहस्रं तु जपित्वा साज्यं दध्ना चौदनहोमादपि लक्ष्मीः | आज्या(भ्य)क्तैः शालिहुताद् वा प्रतिपत्सु प्रोक्तैर्द्रव्यैर्व्याहृतिभिर्वा हवनं स्यात् || १४-२५१ || त्रिष्टुबस्य भवेच्छन्दो मरीचिर्भगवानृषिः | प्रजापतिर्दैवतं च साधनाङ्गानि पूर्ववत् || १४-२५२ || उद्धृत्योत्तिष्ठशब्दः पुरुषहरिपदे सार्धचन्द्राक्षिपार्श्वे स्वान्तं मांसं च देहिद्वयमपि च ततो वामपादस्य मध्यम् | दीर्घोऽत्रिः पार्श्वमन्ते मरुदिति गदितो वह्निजायान्त एषो वह्नेस्तारद्वयान्तो मनुरखिलजगत्काम्यकल्पद्रुमोऽसौ || १४-२५३ || अस्यच्छन्दस्तु गायत्री मुनिरप्यङ्गिरा भवेत् | भृगुरिति केचन | देवता स्वयमेवाग्निरश्वरूपी हिरण्यदः || १४-२५४ || नित्यं वा प्रतिपदि वा सकृत्तिकायां शाल्यन्नैर्घृतमिलितैर्जुहोतु लक्ष्म्यै | दध्यन्नं घृतमथवा शमीसमिद्भिर्हुत्वेष्टां खलु लभते महासमृद्धिम् || १४-२५५ || हुत्वाज्यं यत् स्वेष्टां लक्षार्धं तां विन्देत् | सरोजैर्हुतैः स्यात् सुलभ्यं पुराद्यम् | पैप्पलैरिध्मकैः कन्यकां प्राप्नुयात् | घृतवच्चरुणा विजयं लभते | ज्योतिष्कतैलेन राष्ट्राणि विन्देत् | जपेन जलानि रुजोऽपि हन्ति | यत् खलु सिध्यति तज्जप संपदि यदिह जगति जपतु भवति | हैरण्याश्वत्थकल्पद्रुमकुहरगृहान्निष्पतद्वाजिरूपं रोम्णा कूपोद्गतार्चिष्कपिशितगगनं रन्ध्रदेशैर्धनौघम् | ध्यायन् वर्षन्तमग्निं प्रतिपदि जुहुयात् पायसैकाहुतिं स्या- दर्धप्रस्थाज्यपूर्णाम्बरचषकगतां सोऽचिरादार्थनाथः || १४-२५६ || इति निगदितमग्नेरिष्टदं यद्विधानं तदभिनियतकाले त्वाहुतीनां समानम् | अनुजपतु च मन्त्रं तत्फलाप्त्यै द्विजेन्द्रान् रसवदिह समग्रं भोजयेन्नित्यशोऽन्ते || १४-२५७ || दशांशविप्रभोजनं तु मुख्यमाहुतिक्रमात् तथैव पञ्चविंशदंशभोजनं तु मध्यमम् | शतांशमप्यथाधमं तु शक्तितस्तदूहयेत् समाप्तिदानभोजनं च देवताभिपूजनम् || १४-२५८ || तथैव दक्षिणापि मानहेम चाहुतेः स्मृतं स दैविके तु पौष्टिके वशीकरे च कर्मणि | विरञ्जने प्रचाटने निरोधने द्विमानकं रुजि भ्रमे च सादने त्रिमानकं विनिर्दिशेत् || १४-२५९ || तथैव कृष्णलामितं हिरण्यमेव मारणे तथाहि तत्त्वसागरे प्रपञ्चके च दर्शितम् | दहेद् विहीनदक्षिणाप्रयोगकारिणं नरं त्वतो न हीनदक्षिणां प्रयोजयेच्च बुद्धिमान् || १४-२६० || इयं हि दक्षिणोत्तमा तु मध्यमाप्यतोऽर्धत- स्तदर्धतोऽधमा भवेत् तु शक्तितः प्रकल्पिता | किमस्य दक्षिणोच्यते यदस्य कर्मणः फलं प्रदर्श्यतेऽनुभूयते ततः प्रदेयमीप्सितम् || १४-२६१ || अथाभिचारकेषु वह्निकुण्डसाधानादिकं समुत्सृजेदरेः पुरे तथाम्बुधौ सरित्सु वि | करोतु तत्र शान्तिकं सदानधर्मपूजनं यथा स्वदेहदेशवंशरक्षणं कृतं भवेत् || १४-२६२ || तथैव शान्तिकादिकानि दक्षिणावसानिकं सामाप्यं वैदिकाग्निकल्पदर्शितक्रमेण वा | निरुध्य दैवतं च वह्निमम्बरेन्दुपङ्कजे नियोजयेत् चामृताम्बुशीकरप्रवर्षिणि || १४-२६३ || इतीह तत्त्वसागरादितन्त्रचोदितो विधि- स्तथैव वैदिकप्रयोगवृत्तिगृह्यदर्शितः शिवागमोदितश्च यो निरूप्य संप्रदर्शितः प्रयोगतस्तु साधकैरलं निषेव्यतां सुखम् || १४-२६४ १/२ || इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे अग्निकल्पविधिर्नाम चतुर्दशः पटलः || इति सामान्यपादः प्रथमः समाप्तः | शुभं भूयात् ########### END OF FILE #######